________________
५।१३ ]
वा अनभिज्ञायते (ज्ञया इति ) ।
कारिकां विवृणोति केवलस्य इत्यादिना । अपि शब्दो भिन्नप्रक्रमः केवलस्यापि न केवलं धूमादेः केवलस्य विनाशः साधनं साधर्म्यात् (विनाशसाधनसामर्थ्यात् ) कारणात् पुनः इति परामर्शे । उपाधिना 'प्रागसतः' इत्यादिना विशिष्टस्य उपादाना ( नात् प्र ) प्रयोगात् 'भावस्य' इत्यनुवर्त्तते । कथम् ? इत्याह-उत्पत्तेः कृतकत्वाद्वा इत्येव ( वं) । ततः किम् ? ५ - निग्रहस्थानम् वादिनि ( वादिन इति ) शेषः ।
इत्याह
जयपराजयव्यवस्था
ननु यथा केवलो भावः सत्त्वशब्देन उच्यते, तद्वद् उत्पत्त्यादिशब्दैरिति ; अत्राहस्वपर इत्यादि । स्वपरयोः व्यापारयोः अपेक्षा यस्य तौ वा अपेक्षते इति तदपेक्षः स चासौ भावश्च इति तल्लक्षणत्वात् तेषाम् उत्पत्त्यादीनाम् । स्वव्यपारापेक्षभावलक्षणा उत्पत्तिः *"प्रागसत आत्मलाभ उत्पत्तिः" इति वचनात् अभिन्नविशेषणो भाव एवमुक्तः । परव्या- १० पारापेक्षभावलक्षणाः कृतकत्वादयः * " अपेक्षितपरव्यापारो [२७९क] हि भावः कृतकः " [ न्यायवि० ३।१४] इत्याद्य भिधानात् । अनेन भिन्न विशेषणः । शुद्धस्यैव एवमभिधाने तद्धर्मानुक्तिः शब्दान्तराऽप्रयोगादिति मन्यते । क्वचित् ' स्वपरव्यापारापेक्षा' इति पाठः । तत्र तदपेक्षया भाव इति व्याख्येयम् । शुद्धस्य सामर्थ्येति (पि) सिद्ध (शिष्य) व्युत्पादनार्थं तद्विशिष्टोपादानमिति चेत् ; अत्राह-नहि इत्यादि । एवं मन्यते येन प्रयुक्त (क्तेन) अवश्यं निग्रहस्थानम् न १५ तेन शिष्याः तदनुग्रहाप्रवृत्तेः व्युत्पादनीया इति ।
३४३
इदमपरं व्याख्यानम् - केवलस्य सजातीयविजातीयविविक्तनिरंशक्षणस्य यो भावः सत्ता विषयिणि विषयोपचारात् वस्तुनो वा उपलम्भो वा तस्यापि न केवलम् अन्यस्य यत् परेण विनाशसाधनसामर्थ्यमभ्युपगतम्, यद् उपलब्धिलक्षणप्राप्तं यत्र नोपलभ्यते तत्तत्र नास्ति यथा क्वचित्प्रदेशे तथाविधो घटः, उपलब्धिलक्षणप्राप्तौ च पूर्वापरक्षणौ मध्यक्षणे, सा (असौ ) वा तत्र नोपलभ्यते च । यदि वा * " यद् यथावभासते " इत्यादि प्रयोगापेक्षः; तस्मात् तस्य निग्रहस्थानम् । कस्मादिव ? इत्यत्राह - उत्पत्तेः कृतकत्वाद्वा इति । 'वा' इति इवार्थ: ।
२०
"
Jain Education International
एतदुक्तं भवति-यथा प्रज्ञा कर स्य निरंशाद्वैतवादिनः न किञ्चित् प्रागसत् उत्पद्यते अपेक्षित परव्यापारं कृतकं वा, तथापि तद्धेतु (तुं) वदतो निग्रहस्थानम् तथा न तस्य कस्यचिद् भाव उपलम्भो वा स्वभावविरुद्ध स्थूलैकस्थिरप्रतिभासेन बाधनात् तथा तस्यैव तत्सामर्थ्यात् २५ पुनः पश्चाद् उपाधिना सपक्षसत्त्वेन विशिष्टोपादान (नं ) निग्रहस्थान (नम्) । यदि वा, पक्षधर्मत्वं सपक्षे सत्त्वम् असपक्षेऽसत्त्वम् उपाधिः [२७९ख] तद्विशिष्टहेतोः उपादानाद् इति ग्राह्यम् । तथा स्व स्त्रवादी ( तथा च वादी ) तयोः व्यापारौ साधनप्रयोगौ तदपेक्षो यो भावः तल्लक्षणत्वात् रूपत्वाच्च तेषाम्, प्रज्ञा कर गुप्त म ( गुप्ते न ) प्रयुक्तविनाशहेतूनाम् 'निग्र
(1) विशेषणेन । (२) उत्पत्तिशब्देन । (३) “स्वभावनिष्पत्तौ अपेक्षितव्यापारभावो हि कृतकः । तेनेयं कृतकश्रुतिः स्वभावाभिधायिन्यपि परोपाधिमाक्षिपति । " प्र० वा० स्व० पृ० ३४८ । ( ४ ) स्वपरव्यापारापेक्षया । (५) शिष्यानुग्रहाभावात् । (६) मध्यक्षणो वा । (७) पूर्वापरक्षणयोः । (८) प्रज्ञाकरस्य ।
For Personal & Private Use Only
www.jainelibrary.org