________________
३४४
सिद्धिविनिश्चयटीकायाम् [५ वादसिद्धिः हस्थानम्' इति सम्बन्धः । शक्यं वक्तु यद् यत्र यथा उपलब्धिलक्षणप्राप्तम् उपलक्ष्यने रन तत्त्वतः तथा विद्यते यथा चित्रज्ञानं स्वाकारेषु, कथञ्चिदुपलभ्यते च तथाविधो भावः स्वपर्यायेषु क्रमभाविषु । तथा निर्बाधबोधे यद् यथावभासते [तत् तथा परमार्थसत्] स्वसंवेदनवत् , प्रतिभासते च सर्वम् उत्पादव्ययध्रौव्यात्मकत्वेन । यथा (तथा) 'यो यं प्रत्यनपेक्षम्' (क्षः) ५ इत्यादिकमपि वाच्यम् । नहि शुद्धस्यापि हेतुदृष्टान्तरहितस्यापि 'भावस्य' इत्यनुवर्तते साध
नत्वे हेतुहीनस्य प्रत्यक्षत्वेन, साध्यसाधकत्वदृष्टान्तरहितस्य लंगंधे (गमकत्वे) पुनः उपाधिः (धेः) पक्षधर्मत्वार (त्वादेर) पेक्षणं यस्मिन् लिङ्ग तत्तथोक्तम् , उपाधिः(धेः) सपक्षसत्त्वस्य अपेक्षणं युक्तं समर्थम् उपपन्नं वा ।। ___ पुनरपि तत्रैव पूर्वपक्षे दूषणान्तरं दर्शयन्नाह-सर्वनाम्ना इत्यादि ।
[ सर्वनाम्ना विना वाक्यं तद्धितेन विना पदम् ।
संक्षेप्तव्यं समासार्थनिग्रहस्थानभीरुणा ॥१४॥ यत् सत् उत्पत्तिमत् कृतकं प्रयत्नानन्तरीयकं चेति वाक्यं सदुत्पन्नमित्यादि संक्षेप्तव्यं सदनित्यमिति वा । विपक्षे हेतुसद्भावबाधकप्रमाणबलेन व्याप्तौ सिद्धायां
दृष्टान्तस्याकिञ्चित्करत्वात् । तथा च प्रतिज्ञैवेयं व्याप्तिः स्यात् । ततो वरं विनाशी १५ शब्द इति प्रकृतं प्रतिज्ञातुम् । ]
_____ सौगतेन लिङ्गप्रतिपादकं यद् वाक्यम् इष्यते तत् संक्षेप्तव्यम् । कथम् ? इत्याहसर्वनाम्ना विना । 'यत् तत्'पदप्रयोगमन्तरेण । तत्रैव वाक्ये यत् पदं तदपि 'संक्षेप्तव्यम्' इति सम्बन्धः । कथम् ? इत्याह-तद्धितेन विना । केन ? इत्यत्राह-['समा' इत्यादि ।]
समान एवः (समास एव) पदस्य पदान्तरेण प्रत्ययस्य प्रत्यक्षा (प्रकृत्या) यस्यार्थः स २० तथोक्तः तेन निग्रहस्थानं तत्र नीरुणा (भीरुणा) सोगतेन नाऽपरेण ।
कारिकां विवृणोति-'यत् सद् [२८०क] उत्पत्तिमत् कृतकं प्रयत्नानन्तरीयकं च' इत्यादि । तत्र प्रतिहेतुवाक्यभेदेऽपि । 'वाक्यम्' इत्येकवचनं जात्यपेक्षम् । यदि च (यदि वा)
(१) उपलब्धिलक्षणप्राप्तो भावः । (२) स तत्स्वभावनियतः, यथा अन्त्या कारणसामग्री स्वकार्योत्पादने । (३) तुलना-"सत्त्वमात्रेण नश्वरत्वसिद्धौ उत्पत्तिमत्त्वकृतकत्वादिवचनमतिरिक्तविशेषणोपादानात् कृतकत्वप्रयत्नानन्तरीयकादिषु च कप्रत्ययातिरेकादसाधनाङ्गवचनं पराजयाय प्रभवेत्..."-अष्टश० अष्टस. पृ०८६ । "कथं कृतकत्वादिति हेतुः क्वचिद्वदतः स्वार्थिकस्य कप्रत्ययस्य वचनम् यत्कृतकं तदनित्यं दृष्टमिति व्याप्तिं प्रदर्शयते यत्तद् वचनमधिकं नाम निग्रहस्थानं न स्यात् , तेन विनापि तदर्थप्रतिपत्तेः । सर्वत्र वृत्तिपदप्रयोगादेव चार्थप्रतिपत्तौ संभाव्यमानायां वाक्यस्य वचनं कमर्थ पुष्णाति येनाधिकं न स्यात् ..."-त. श्लो. पृ० २९१ । “अन्यथा त्वत्प्रयोगेऽपि स्वार्थिकस्तद्धितस्तथा। यत्तत्पदं च दोषः स्यात् प्रतीतातिया स्थितेः ॥ कृतं सर्वमनित्यं हि दृष्टं यद् घटादिकम् । कृतश्च शब्द इत्येतन्मात्रात् साध्यस्य निर्णयात् ॥ संक्षेप्तव्यं ततस्तेन विनापि वचनं त्वया । अन्यथा निग्रहादुक्तमिदं सिद्धिविनिश्चय॥ सर्वनाम्ना विना वाक्यं तद्धितेन विना पदम् । संक्षेप्तव्यं समासार्थनिग्रहस्थानाभीरुणा ॥"-न्यायवि. वि. द्वि० पृ. २३७-३८ । (४) तद्धितीयो यः 'स्वार्थे कः' इत्यादि प्रत्ययः तेन विना । 'कृतकम्' इत्यत्र 'कृतम्' इत्येव प्रयोक्तव्यमिति भावः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org