________________
५।१५]
जयपराजयव्यवस्था 'इति" शब्दः प्रत्येकमभिसम्बध्यते-'यत् सत् तदनित्यं यथा घटः संश्च शब्दः' इत्येवं वाक्यम् , एवं सर्वत्र योज्यम्। वाक्यग्रहणमुपलक्षणम्, तेन सन्नित्यादि पदमपि गृह्यते। तत् किं कर्त्तव्यम् ? इत्याह-संक्षेप्तव्यम् । कथम् ? इत्याह-सद् उत्पन्नम् इत्यादि । सदनित्यम् इति, उत्पन्नम् अनित्यम् इति, एवं सर्वत्र योज्यम् । ननु 'सर्वनाम्ना विना वाक्यं संक्षेप्तव्यम्' इत्युक्तम् न 'दृष्टान्तेन विना' इति, तत् किं दृष्टान्तो भणनीयः ? इत्यत्राह-'सद' इत्यादि । वा ५ इति पूर्वहेतुसमुच्चये, ततः सदनित्यम् उत्पन्नमनित्यम् कृत [क] मनित्यम् यन्नित्यमनित्यम् इत्येवं विपक्षे हेतुसद्भावबाधकप्रमाणबलेन व्याप्तौ सिद्धायां निश्चितायां च दृष्टान्तस्य अकिञ्चि
करत्वात् तथा तत् संक्षेप्तव्यम् इति सम्बन्धः । तथा संक्षेपे को दोषः ; इत्यत्राह-तथा च तेनैव अनन्तरोक्तप्रकारेण प्रतिवेयं सदनित्यम् इत्यादिरूपा व्याप्तिः स्यात् । नहि 'शब्दोऽनित्यः', 'सदनित्यम्' इत्यवस्थयोः विशेषोऽस्ति, हेतुरत्र न कश्चित् स्यादित्येवकारार्थः । तथाहि- १० सदादेरेव पुनर्हेतुत्वेन उपादाने प्रतिज्ञार्थैकदेशता । यदि पुनः सदेव अनित्यत्वं गमयेत् तर्हि तस्य सर्वदा भावात् सर्वदा ततः साध्यप्रतीतेः विवादाभावः । भवतु प्रतिज्ञैव तत्र को दोषः ? इत्यत्राह-ततः तस्माद् उक्तात् न्यायाद् वरं विनाशी शब्दः इत्येवं प्रकृतं प्रस्तावगोचरापन्न प्रतिज्ञातुं यत् प्रकृतं [२८०ख] प्रतियतेत शिरस्ताडं क्रन्दतोऽपि प्रतिज्ञाया अनिवृत्तेरिति मन्यते ।
ननु हेतोः साध्यसिद्धौ किं प्रतिज्ञया ? तस्मिन् सिद्धौ किं हेतुना इति चेत् ? अत्राह- १५ [वि] नाशी इत्यादि ।
यदि च (वा), उक्तन्यायेन दृष्टान्तस्य अकिञ्चित्करत्वे सिद्धे सति शब्दत्वादेरसाधारणस्य वचनं हेतोः न निग्रहस्थानमिति सदृष्टान्तं दर्शयन्नाह-विनाशी इत्यादि ।
[विनाशी भाव इति वा हेतुनैव प्रसिध्यति ।।
अन्तर्व्याप्तावसिद्धायां बहिर्व्याप्तिरसाधनम् ॥१५॥ विपक्षे हेतुसद्भावबाधकप्रमाणव्यावृत्तौ हेतुसामर्थ्यमन्यथानुपपत्तेरेव । ततो यथा सत्त्वं शब्दस्य नित्यत्वे नोपपद्यते तथा शब्दत्वम् ।
वा शब्दः इवार्थः, निपातानामनेकार्थत्वात् , 'विनाशी भाव' इत्यस्यानन्तरं द्रष्टव्यः। ततोऽयमर्थ:-भावः सन् सर्वो विनाशी 'सद् अनित्यम्' इति वचनात् , यथा हेतुनैव न सदनित्यम् इति प्रतिज्ञामात्रेण प्रसिध्यति तथा ध्वनिः शब्दो विनाशी इति हेतुनैव प्रसिध्यति । २५ एवं मन्यते यथा 'सदनित्यम्' इत्युक्त्वा हेतुं वदतो न दोषः तथा शब्दोऽनित्यः इत्युक्त्वापि इति ।
(१) तुलना-“अन्तर्व्याप्तावसिद्धायां बहिरङ्गमनर्थकम् ।"-प्रमाणसं० पृ० १११। "अन्तर्व्याप्त्यैव साध्यस्य सिद्धौ बहिरुदाहृतिः । व्यर्था स्यात्तदसद्भावेऽप्येवं न्यायविदो विदुः॥"-न्यायावता० इलो०२०। "अन्तर्व्याप्त्या हेतोः साध्यप्रत्यायने शक्तावशक्तौ च बहिव्याप्तरुद्भावनं व्यर्थम् । पक्षीकृत एव साधनस्य साध्येन व्याप्तिरन्ताप्तिः अन्यत्र तु बहिर्व्याप्तिः । यथा अनेकान्तात्मकं वस्तु सत्त्वस्य तथैवोपपत्तेः, अग्निमानयं देशो धूमवत्त्वात् , य एवं स एवं यथा पाकस्थानम् ।"-प्रमाणनय० ६।३५, ३६ । धर्मसं० वृ० पृ०८२ । जैनतर्कभा० पृ. १२।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org