________________
५।१३ ] जयपराजयव्यवस्था
३४१ तथावभासनात् *"यथावभासते" इत्यादि वचनात् । तदेव च सत्त्वम् *"उपलम्भः सत्ता" [प्र० वार्तिकाल० ३।५४] इति वचनात् , तेनायमदोष इति; तेषामपि इदमेवोत्तरम् । तद्यथा सत्त्वादेः क्षणिकत्वेन अवभासादेव [२७७क] सर्ववस्तूनां क्षणस्थाने सिद्धे निश्चिते अङ्गीक्रियमाणे निगृह्येत सौगतः । कुतः ? इत्यत्राह-धर्माधिकोक्तितः इति । धर्मश्च अधिकश्च तयोः उक्तितः। नहि एकान्तक्षणिकता[वभा]सनं सर्वभावानां धर्मिणां धर्मः प्रत्यक्षतोऽ- ५ नुमानतो वा सिद्धः । न तावत् प्रत्यक्षतः; तत्र तदप्रतिभासनात् । न खलु चक्षुरादिबुद्धौ क्षणिकत्वेन अवभासमाना भावा भासन्त इति निश्चयोऽस्ति 'कुण्डलादिपर्यायानुयायिनः सर्पादयः तंत्रावभासन्ते' इति निर्णयात् ।
विरोधादयोऽपि एवं कृतोत्तराः । भेदाभेदैकान्तसंकल्पः पर्यायतद्वतोः अनैकान्तेन निराकृतः । तत्र अनवस्थोद्भावनम् अ च ट स्य स्वपक्षघातीव लक्ष्यते । हेतुत्रिरूपत्वनिश्चयेऽपि १० तत्संभवात् अभिलाप्येतराकारद्वयस्य तत्रोपगमात् , इतरथा निर्विकल्पकैकान्ते धर्मधर्मिभावाभावान्म हे तु बिन्दो र पि कल्पनयापि व्यवस्था ।
ननु पूर्वपर्यायप्रत्यक्षस्य नोत्तरपर्याये', तत्प्रत्यक्षस्य पूर्वपर्याये वृत्तिरिति कथं तेनँ तदनुयायित्वं कस्यचित् प्रतीयते इति चेत् ; तर्हि स्वरूपमात्रपर्यवसितं तत् कथमन्येषां ग्राहकं यतः तत् क्षणिकत्वावभासनं प्रतिपद्यत, धर्मप्रतिपत्तेः धर्मिप्रतिपत्तिनान्तरीयकत्वात् इति कथं सिद्धो १५ हेतुः ? अत एव नाऽनुमानम् ; "तदभावे तदभावात् । यदि पुनः संवृतिसिद्धं सर्व क्षणिकत्वावभासनमभ्युपगम्य हेतोः सिद्धिः प्रार्थ्यते; परोऽपि" संवृतिसिद्धम् एकस्य त्रिकालानुयायित्वावभासनमभ्युपगम्य असिद्धं [तत्तथैव व्यवस्थापयेदविशेषात् ।
___ अथ स्वयम् [२७७ख] उपलभ्यमानाद्भावात् (मानान् भावान् ) क्षणिकत्वावभासनधर्मानुपलभ्य सर्वेऽपि तद्धर्मका व्यवस्थाप्यन्ते; अत्रापि तदवस्थं चोद्यम्-केन तथा व्यवस्थाप्यन्ते ? २० नाध्यक्षेण अनुमानेन वा; उक्तदोषात् । संवृत्या तव्यवस्थापने ततः क्षणिकत्वमपि संवृतिसिद्धं स्यादिति न पारमार्थिकभावस्वभावनिश्चय इति महती सौगतस्य भावस्वभावनिरूपणकुशलता !
किंवा स्वयम् उपलभ्यमानेषु भावेषु क्षणिकत्वम् ? अपरापरकोटिविच्छिन्नतेति चेत् ; कोटिग्रहणपूर्वकमध्यक्षं यदि कस्यचित् तद्विच्छिन्नत्वं गृह्णीयात् , न तर्हि अनुगमग्रहणं दूषितं स्यात् , विच्छिन्नत्ववत् तद्विपर्ययस्य अन्यग्रहणसंभवात् । अन्यथा चेत् ; तथैव अनुयायित्वं २५
(१) प्रतिभासनमेव । (२) प्रत्यक्षे । तुलना-"तस्मादुभयहानेन व्यावृत्यनुगमात्मकः । पुरुषोऽभ्युपगन्तव्यः कुण्डलादिषु सर्पवत् ॥''-मी० श्लो० आत्मवाद श्लो० २८ । “प्रत्यक्षप्रतिसंवेद्यः कुण्डलादिषु
सर्पवत् ।" न्यायवि० १११६। तत्त्वसं० श्लो. २२३-२४ । (३) "एकान्तेन विभिन्ने च ते स्यातां वस्तुनी स च । तयोः केन विभिन्नाभ्यामभेदस्य विभेदतः। तेषामभेदसिद्ध्यर्थमभिन्नो यदि तूच्यते ॥ अन्यः स्वभाषस्तस्यापि तदभेदप्रसिद्धये। कल्पनीयः स्वभावोऽन्यः तथा स्यादनवस्थितिः॥"-हेतुवि० टी० पृ० १०५। (४) निश्चयो हि अर्थरूपे विकल्पकोऽपि सन् स्वरूपे अविकल्पको भवति । (५) वृत्तिरिति । (६) उत्तरपर्यायप्रत्यक्षस्य । (७) प्रत्यक्षेण । (८).धर्मिणो द्रव्यस्य । (९) प्रत्यक्षम् । (१०) प्रत्यक्षाभावे । (११) जैनोऽपि । (१२) पूर्वापरानुयायित्व । (१३) अविच्छिन्नत्वस्य । (१४) अन्येन , प्रत्यक्षेण ग्रहणसंभवादिति भावः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org