Book Title: Siddhi Vinischay Tika Part 01
Author(s): Anantviryacharya
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 656
________________ ५।१३ ] जयपराजयव्यवस्था ३४१ तथावभासनात् *"यथावभासते" इत्यादि वचनात् । तदेव च सत्त्वम् *"उपलम्भः सत्ता" [प्र० वार्तिकाल० ३।५४] इति वचनात् , तेनायमदोष इति; तेषामपि इदमेवोत्तरम् । तद्यथा सत्त्वादेः क्षणिकत्वेन अवभासादेव [२७७क] सर्ववस्तूनां क्षणस्थाने सिद्धे निश्चिते अङ्गीक्रियमाणे निगृह्येत सौगतः । कुतः ? इत्यत्राह-धर्माधिकोक्तितः इति । धर्मश्च अधिकश्च तयोः उक्तितः। नहि एकान्तक्षणिकता[वभा]सनं सर्वभावानां धर्मिणां धर्मः प्रत्यक्षतोऽ- ५ नुमानतो वा सिद्धः । न तावत् प्रत्यक्षतः; तत्र तदप्रतिभासनात् । न खलु चक्षुरादिबुद्धौ क्षणिकत्वेन अवभासमाना भावा भासन्त इति निश्चयोऽस्ति 'कुण्डलादिपर्यायानुयायिनः सर्पादयः तंत्रावभासन्ते' इति निर्णयात् । विरोधादयोऽपि एवं कृतोत्तराः । भेदाभेदैकान्तसंकल्पः पर्यायतद्वतोः अनैकान्तेन निराकृतः । तत्र अनवस्थोद्भावनम् अ च ट स्य स्वपक्षघातीव लक्ष्यते । हेतुत्रिरूपत्वनिश्चयेऽपि १० तत्संभवात् अभिलाप्येतराकारद्वयस्य तत्रोपगमात् , इतरथा निर्विकल्पकैकान्ते धर्मधर्मिभावाभावान्म हे तु बिन्दो र पि कल्पनयापि व्यवस्था । ननु पूर्वपर्यायप्रत्यक्षस्य नोत्तरपर्याये', तत्प्रत्यक्षस्य पूर्वपर्याये वृत्तिरिति कथं तेनँ तदनुयायित्वं कस्यचित् प्रतीयते इति चेत् ; तर्हि स्वरूपमात्रपर्यवसितं तत् कथमन्येषां ग्राहकं यतः तत् क्षणिकत्वावभासनं प्रतिपद्यत, धर्मप्रतिपत्तेः धर्मिप्रतिपत्तिनान्तरीयकत्वात् इति कथं सिद्धो १५ हेतुः ? अत एव नाऽनुमानम् ; "तदभावे तदभावात् । यदि पुनः संवृतिसिद्धं सर्व क्षणिकत्वावभासनमभ्युपगम्य हेतोः सिद्धिः प्रार्थ्यते; परोऽपि" संवृतिसिद्धम् एकस्य त्रिकालानुयायित्वावभासनमभ्युपगम्य असिद्धं [तत्तथैव व्यवस्थापयेदविशेषात् । ___ अथ स्वयम् [२७७ख] उपलभ्यमानाद्भावात् (मानान् भावान् ) क्षणिकत्वावभासनधर्मानुपलभ्य सर्वेऽपि तद्धर्मका व्यवस्थाप्यन्ते; अत्रापि तदवस्थं चोद्यम्-केन तथा व्यवस्थाप्यन्ते ? २० नाध्यक्षेण अनुमानेन वा; उक्तदोषात् । संवृत्या तव्यवस्थापने ततः क्षणिकत्वमपि संवृतिसिद्धं स्यादिति न पारमार्थिकभावस्वभावनिश्चय इति महती सौगतस्य भावस्वभावनिरूपणकुशलता ! किंवा स्वयम् उपलभ्यमानेषु भावेषु क्षणिकत्वम् ? अपरापरकोटिविच्छिन्नतेति चेत् ; कोटिग्रहणपूर्वकमध्यक्षं यदि कस्यचित् तद्विच्छिन्नत्वं गृह्णीयात् , न तर्हि अनुगमग्रहणं दूषितं स्यात् , विच्छिन्नत्ववत् तद्विपर्ययस्य अन्यग्रहणसंभवात् । अन्यथा चेत् ; तथैव अनुयायित्वं २५ (१) प्रतिभासनमेव । (२) प्रत्यक्षे । तुलना-"तस्मादुभयहानेन व्यावृत्यनुगमात्मकः । पुरुषोऽभ्युपगन्तव्यः कुण्डलादिषु सर्पवत् ॥''-मी० श्लो० आत्मवाद श्लो० २८ । “प्रत्यक्षप्रतिसंवेद्यः कुण्डलादिषु सर्पवत् ।" न्यायवि० १११६। तत्त्वसं० श्लो. २२३-२४ । (३) "एकान्तेन विभिन्ने च ते स्यातां वस्तुनी स च । तयोः केन विभिन्नाभ्यामभेदस्य विभेदतः। तेषामभेदसिद्ध्यर्थमभिन्नो यदि तूच्यते ॥ अन्यः स्वभाषस्तस्यापि तदभेदप्रसिद्धये। कल्पनीयः स्वभावोऽन्यः तथा स्यादनवस्थितिः॥"-हेतुवि० टी० पृ० १०५। (४) निश्चयो हि अर्थरूपे विकल्पकोऽपि सन् स्वरूपे अविकल्पको भवति । (५) वृत्तिरिति । (६) उत्तरपर्यायप्रत्यक्षस्य । (७) प्रत्यक्षेण । (८).धर्मिणो द्रव्यस्य । (९) प्रत्यक्षम् । (१०) प्रत्यक्षाभावे । (११) जैनोऽपि । (१२) पूर्वापरानुयायित्व । (१३) अविच्छिन्नत्वस्य । (१४) अन्येन , प्रत्यक्षेण ग्रहणसंभवादिति भावः । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686