Book Title: Siddhi Vinischay Tika Part 01
Author(s): Anantviryacharya
Publisher: Bharatiya Gyanpith
View full book text
________________
३३८ सिद्धिविनिश्चयटीकायाम्
[५ वादसिद्धिः शिष्याणि (प्यान्) च सिद्धान्तद्वयवेदिनं (नः) प्राश्निकाः। तृतीयविकल्पवार्तापि न युक्ता । चतुर्थे तु वक्तुः असम्बद्धाभिधायित्वम् , साक्षिसमक्षम् आत्मोत्कर्षज्ञापनार्थं तां प्रति यतते प्रतिवादी न तत्परिसमाप्तौ नितराम् आलोक्षाथा (?) ज्ञापितः स्यादिति सैव क्रियताम् । .. अथ ततः तत्परिसमाप्तौ न कश्चित् स्वपक्षसिद्धिं प्रति यतते इति; अत्राह-तन्न इत्यादि। ५ तत् तस्मात् ततः तत्परिसमाप्तेनं सुभाषितम् । किम् ? इत्याह-विजिगीषुणा वादिना प्रतिवादिना वा उभयं कर्त्तव्यम् स्वपक्षसाधनं परपक्षदूषणम् इति । तथाहि-प्रतिवादिना विजिगीषुणा न तावत् तत्कर्त्तव्यम् अपि तु तेन वादी यतः कुतश्चित् निर्मुखः पिशाचो वा विधातव्यः। न तेनापि;' प्रतिवादी तथा विधातव्यः।
___एतेन 'अदोषोद्भावनम्' इत्यपि व्याख्यातम् । ततः स्थितम्-कस्यचित् तूष्णीम्भाव १० इत्यादि । यदि शाब्दो हेतुः शाब्दं प्रमाणं वा; 'अनित्यः शब्दः' इति वचनादेव साध्यसिद्धः किं [२७५क] कृतकत्वादिना, तत्सिद्धौ तद्वचनं निग्रहस्थानमिति । ___ अत्रैव दूषणान्तरमाह-साकल्येन इत्यादि ।
[साकल्येनाविनाभावे सिद्ध हेतोः प्रसिध्यति ।
ततः सत्त्वादिवादीव पक्षधर्मत्ववाद्यपि ॥१२॥ १५ साकल्येन व्याप्तहेतुवचनात् पुनः पक्षधर्मत्ववचनं प्रतिज्ञोपनयवचनेन समानं भवेद्वा
न वेति तथागतरागं परित्यज्य चक्षुषी निमील्य समुन्मील्य वा चिन्तय तावत् तत्तथा साधर्म्यवैधर्म्ययोः सहवचनेन साधनवाक्यं समानं भवेद्वा न वा ? यदि समानमिति किं प्रतिज्ञादिवचनैरेव ? साधनसामर्थ्यपरिज्ञानमुभयत्र समानम् ।]
___ साकल्येन अ [न]वयवेन अविनाभावे सिद्धे निश्चिते सति । कस्य ? हेतोः । २० तत एव हेतोः सकाशात् प्रसिध्यति सति साध्य (ध्ये) सत्त्वादिवादी [व आदि] शब्देन
उपनयादिपरिग्रहः । पक्षधर्मत्ववाद्यपि 'स्यात्' इत्यध्याहारः । पक्षधर्मत्ववादी सत्त्वा[दि] वादीव वत् (तद्वत्) सदृशः सत्त्वा[दि]वादी स्यात् इत्यर्थः । नहि 'अनित्यः शब्दः' इत्यस्मात् 'सन् कृतको वा शब्दः' इत्यादेः विशेषं पश्यामः । अपि शब्दात् 'यत् सत् कृतकं वा तदनित्यं
यथा घटः, सन् कृतकश्च शब्दः' इत्यादिवाक्यवादी गृह्यते। हि उपनयति (यनि)गमन (ने) २५ युगपत् साधर्म्यवैधर्म्यप्रयोगवादिनो न विशिष्यते (ब्येते) इति प्रवृत्तौ (ति वृत्तौ )निरूपयिष्यते।
कारिका व्याख्यातुमाह-'साकल्येन' इत्यादि । साकल्येन व्याप्तस्य हेतोः 'यत् सत् कृतकं वा तदनित्यं यथा घटः' इत्यादि यद्वचनं तस्मात् पुनः पश्चात् पक्षधर्मत्ववचनं समानम् सदृशम् । केन ? इत्याह-प्रतिज्ञोपनय इत्यादि । भवेद्वा नवेति तथागतरागं सुगताग्रहम् अथवा तथा तेन 'प्रतिज्ञादिवचनं निग्रहस्थानम्, पक्षधर्मत्ववचनम्' इति प्रकारेण आगतरागं
(१) वादिनापि, तत्कर्तव्यमिति सम्बन्धः । (२) टीकायाम् । (३) "अथवा तस्यैव साधनस्य यन्नाङ्गं प्रतिज्ञोपनयनिगमनादि, तस्यासाधनाङ्गस्य साधनवाक्ये उपादानं वादिनो निग्रहस्थानं व्यर्थाभिधानादेव।"-वादन्या० पृ०६१ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686