Book Title: Siddhi Vinischay Tika Part 01
Author(s): Anantviryacharya
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 652
________________ जयपराजयव्यवस्था ५।११] ३३७ तस्यैवं निग्रहप्राप्तिः' इत्युक्तत्वात् । यदि पुनः परत्रं भूतदोषप्रकाशनात् जयः स्वात्मनि भूतदोषो (षा) विर्भावनाद् विपर्ययोऽपि स्यात् । अथ भूतदोषोद्भावनगुणेन तिरस्कारात् नासौ दोषः; तेन अस्य तिरस्कारात् कथमयं गुणः ? किश्च, यदि अन्यात्मदोषप्रकाशनात् स्वदोषाः स्वात्मनि दोषात्मतां जहति ; तर्हि असि-' द्धादीनां हेत्वाभासानामन्यतमं तदाभासं स्वयमेवोच्चार्य निव्वरं (निर्भर) वक्तव्यम्-मया असि- ५ द्धोऽन्यो वा हेतुः प्रयुक्तोऽपि क्रिया (त्वया) नोद्भावित इति । तया च सस माह-(तथा च समम् । इत्याह-) 'वादिनः' इत्यादि । [वादि]नः पूर्वपक्षवतः तूष्णीभावाद् असाधनाङ्गवचनात् स्वपरपक्षयोः साधनाङ्ग यन्न भवति प्रतिज्ञाद्यदिसिद्धा (ज्ञाद्य सिद्धा) दि, तस्य वचनात् , न पुनः *"न साधनाङ्गवचनाद् असाधनाङ्गवचनात्" इति व्याख्यानम् , अस्य 'तूष्णींभावात्' इत्यनेन गतत्वात् । 'च' इति समुच्चये। निग्रहस्थानं पर्यन्ते यस्य जल्प[स्य] १० वादस्य तस्य परिसमाप्तौ सत्याम् । - ननु वादिवत् प्रतिवादिनोऽपि तूष्णीभावे यत्किञ्चनभाषणभावे वा द्वयोः समत्वान्न तत्परिसमाप्तिरिति चेत् ; अवाह-भूत इत्यादि । [भूतदोषं समुदभाव्य जितवान् पुनरन्यथा । परिसमाप्तेस्तावतैवास्य कथं वादी निगृह्यते ॥११॥ तन्न सुभाषितम्-*"विजिगीषुणोभयं कर्त्तव्यं स्वपक्षसाधनं परपक्षदूषणं च"इति।] भूतदोषं तूष्णींम्भावादिपरमार्थदोषम् उद्भाव्य (समुद्भाव्य) कथमुद्भाव्य ? इत्याह-जितवान् इति । यदि वा, तमु (समुदभाव्य वादी जितवान् यतः ततः पुनः पश्चाद् वितर्के च पुनः इति - [स्व]पक्षसिद्धिप्रतिपतमातः (द्धिं प्रतिपन्नवता) प्रतिवादी निगृह्यते । कुतः ? इत्याह-तावतैव भूतदोषोद्भावनमात्रेणैव [२७४ख] प्रस्या (अस्य) २० वादिनिग्रहरूपस्य परिसमाप्तः इति । अन्यथा तदपरिसमाप्तिप्रज्ञाकरेण (प्रकारेण) कथं वादी निगृह्यते न कथञ्चित् । तथाहि-ती प्रति तत्प्रयत्नः वादिनो निग्रहार्थः, प्रतिबोधनार्थः, सता (सभा)प्रतिबोधनार्थः, एवमेव वादिति (वा स्यादिति) चत्वारः पक्षः । तत्र आद्य पक्षे तद्वैफल्यम् ; अन्यत एव तन्निग्रहात्, तूष्णीम्भावादेरपि ठकप्रयोगाद्भावात् । द्वितीय तूष्णीम्भावादेर्निग्रहानुपपत्तेः । [न] २५ हि परप्रतिपादनाय कृतावासना (कृतौ असता) दोषमात्रेण परान () निग्रहेण योजयन्ति (१) वादिनः। (२) प्रतिवादिनि । (३) पराजयोऽपि । (४) "अथवा तस्यैव साधनस्य यन्नाङ्ग प्रतिज्ञोपनयनिगमनादि तस्य असाधनाङ्गस्य साधनवाक्ये उपादानं वादिनो निग्रहस्थानं व्यर्थाभिधानात् ।" -वादन्या० पु०६१। (५) "अथवा सिद्धिः साधनं तदनं धर्मो यस्यार्थस्य विवादाश्रयस्य वादप्रस्तावहेतोः स साधनाङ्गः तद्व्यतिरेकेणापरस्याप्यजिज्ञासितस्य विशेषस्य शास्त्राश्रयव्याजादिभिः प्रक्षेपो मोषणं च परव्यामोहनानुभाषणशक्तिविघातादिहेतोः, तदप्यसाधनाङ्गवचनं वादिनो निग्रहस्थानमप्रस्तुताभिधानात् ।" -वादन्या० पृ० ६६ । (६) स्वपक्षसिद्धि प्रति । ४३ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686