Book Title: Siddhi Vinischay Tika Part 01
Author(s): Anantviryacharya
Publisher: Bharatiya Gyanpith

Previous | Next

Page 651
________________ सिद्धिविनिश्चयटीकायाम् [५ वादसिद्धिः परो वादिनमभिभवति किन्तु तद्वचनदोषमात्रात् । न चैवं भ्रूनर्तनादेरपि अभिभवेद् अविशेषात् । भवत्येव ततः परपक्षसिद्धिरिति चेत् ; न; इतरदोषमात्रात् तदयोगात् , अन्यथा साध्यस्य यानि साधनानि तदविनाभावीनि तैः किम् ? कथं चैवं वादिनो असिद्धादिः विरुद्धाद् विशिष्येत ? ततः स्थितम्-असाधनाङ्गस्य वचनं वादिनो निग्रहस्थानम् इष्टं चेत् किं पुनः ५ साध्यसाधनैः इति । तथा अदोषस्य उभावनं प्रतिवादिनो निग्रहस्थानं चिन्त्यम् । यदा हि वादिना अकलङ्कसाधने उपन्यस्ते परोऽदोषो (पे) दोषमुद्भावयति; तदा तत एव चेदसौ' निगृह्यत किं साध्यसाधनैः साध्यस्य सिद्धये यानि साधनानि उपन्यस्तानि तैः न किञ्चित् । परनिग्रहाय तदुपन्यासः स च अन्यत एव जात इति मन्यते । ननु तदभावे' अदोषोद्भावनमेव न ज्ञायते; तस्य अन्यथापि परिज्ञानात् । १० किंच, सम्यक्साधनप्रयोगे यदा परो दोषं नोद्भावयति तदा कुतोऽसौ निगृह्यते ? तत्प्र योगादिति चेत् ; तत एव अदोषोद्भावनेऽपि निगृह्यताम् । नहि तत्प्रयोगः तँदा तत्प्रयोगो भवति, अन्यथा अदोषोद्भावनमपि दुरन्वयम् । अथाभ्य (न्य)त एव निग्रहे किं ततः तेन ? त (तत) एव तद्भावे किमन्यतः तेन इति समानम् । [२७३ख] अत एव आह-किं पुनः साध्य साधनैः इति । अस्यायमर्थः-अदोषोद्भावनं परस्य निग्रहस्थानमिष्टं चेत् ; किं पुनः साध्य१५ साधनैः तत् ? 'इष्टम्' इत्यनुवर्त्तते । इष्टं चेत् ; अदोषोद्भावनमनर्थकमिति मन्यते । स्यान्मतम्-अदोषोद्भावनं सदपि चेद् वादी निग्रहं नोद्भावयते; तर्हि पर्यनुयोज्योपेक्षणात् सं एव निगृह्यते निराकृतपक्षत्वात् । तदुद्भावनेऽपि सर्व समानम् । तदुभ[यस्य निग्रह] स्थानमिष्टमिति चेत् ; आस्तां तावदेतत् 'वादिनोऽनेकहेतूक्तौ' [सिद्धिवि० परि०५] इत्यादिना निरूपयिष्यमाणत्वात् । २० अपरः प्राह-न साधुसाधनप्रयोगे अदोषोद्भावनं निग्रहस्थानमिष्टम् , अपि तु तद्विपरीत प्रयोगे इति; तत्राह-किं पुनः साध्यसाधनैः इति । तात्पर्यमिदमत्र-वादिना हेत्वाभासे प्रयुक्त प्रतिवादिना च अदोषे समुद्भाविते न वादी प्रतिवादिनं निगृह्णाति; सदोषचेतनस्य (सदोषत्वेन तस्य) जयाभावात् , न तमन्तरेण इतरस्य निग्रहो नाम । तथा सति प्रतिवाद्यपि वादिनं निगृह्णीयादिति युगपत् जयेतरौ स्याताम् , ततः तयोः समतैव युक्ता । तथापि प्रतिवादिन एव २५ स्थापयन्तः कथं प्राश्निका मध्यस्था यतो वादे अपेक्ष (क्ष्य)न्ते ? साध्यं साध्यते येषु तैः साध्यसाधनैः सभ्यैः किम् इति । ननु स्यात् समता यदि वादी प्रतिवादिनः अदोषोद्भावनं नाविर्भावयेत , आविर्भावने तु मतं न यतीति (सं तं" जयतीति) चेत् ; तत्रेदं चिन्त्यते-स्वदोषं प्रकाश्य, अन्यथा वातदाविर्भावयेदिति ? तत्र न तावदन्त्यः पक्षः; स्वदोषाऽप्रकाशने 'मया प्रयुक्तो दोषः अनेन [२७४क] ३० नोद्भावितोऽपि कृत्य (तु अन्य) इति ज्ञातुमशक्तः। नापि आद्यः; 'स्वयं स्वदोषप्रकाशनात् (१) वादिपक्षे दोषोद्भावनात् । (२) प्रतिवादी । (३) साधनोपन्यासः। (४) अदोषोद्भावनादेव । (५) साधनाभावे । (६) प्रतिवादी। (७) सम्यक्साधनप्रयोगात् । (८) तदैव । (९) वादी। (१०) वादी । (११) प्रतिवादिनम् । (१२) तस्य प्रतिवादिनः अदोषोद्भावनमाविर्भावयेत् । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686