________________
सिद्धिविनिश्चयटीकायाम्
[५ वादसिद्धिः परो वादिनमभिभवति किन्तु तद्वचनदोषमात्रात् । न चैवं भ्रूनर्तनादेरपि अभिभवेद् अविशेषात् । भवत्येव ततः परपक्षसिद्धिरिति चेत् ; न; इतरदोषमात्रात् तदयोगात् , अन्यथा साध्यस्य यानि साधनानि तदविनाभावीनि तैः किम् ? कथं चैवं वादिनो असिद्धादिः विरुद्धाद् विशिष्येत ?
ततः स्थितम्-असाधनाङ्गस्य वचनं वादिनो निग्रहस्थानम् इष्टं चेत् किं पुनः ५ साध्यसाधनैः इति । तथा अदोषस्य उभावनं प्रतिवादिनो निग्रहस्थानं चिन्त्यम् ।
यदा हि वादिना अकलङ्कसाधने उपन्यस्ते परोऽदोषो (पे) दोषमुद्भावयति; तदा तत एव चेदसौ' निगृह्यत किं साध्यसाधनैः साध्यस्य सिद्धये यानि साधनानि उपन्यस्तानि तैः न किञ्चित् । परनिग्रहाय तदुपन्यासः स च अन्यत एव जात इति मन्यते । ननु तदभावे' अदोषोद्भावनमेव
न ज्ञायते; तस्य अन्यथापि परिज्ञानात् । १० किंच, सम्यक्साधनप्रयोगे यदा परो दोषं नोद्भावयति तदा कुतोऽसौ निगृह्यते ? तत्प्र
योगादिति चेत् ; तत एव अदोषोद्भावनेऽपि निगृह्यताम् । नहि तत्प्रयोगः तँदा तत्प्रयोगो भवति, अन्यथा अदोषोद्भावनमपि दुरन्वयम् । अथाभ्य (न्य)त एव निग्रहे किं ततः तेन ? त (तत) एव तद्भावे किमन्यतः तेन इति समानम् । [२७३ख] अत एव आह-किं पुनः साध्य
साधनैः इति । अस्यायमर्थः-अदोषोद्भावनं परस्य निग्रहस्थानमिष्टं चेत् ; किं पुनः साध्य१५ साधनैः तत् ? 'इष्टम्' इत्यनुवर्त्तते । इष्टं चेत् ; अदोषोद्भावनमनर्थकमिति मन्यते ।
स्यान्मतम्-अदोषोद्भावनं सदपि चेद् वादी निग्रहं नोद्भावयते; तर्हि पर्यनुयोज्योपेक्षणात् सं एव निगृह्यते निराकृतपक्षत्वात् । तदुद्भावनेऽपि सर्व समानम् । तदुभ[यस्य निग्रह] स्थानमिष्टमिति चेत् ; आस्तां तावदेतत् 'वादिनोऽनेकहेतूक्तौ' [सिद्धिवि० परि०५] इत्यादिना निरूपयिष्यमाणत्वात् । २० अपरः प्राह-न साधुसाधनप्रयोगे अदोषोद्भावनं निग्रहस्थानमिष्टम् , अपि तु तद्विपरीत
प्रयोगे इति; तत्राह-किं पुनः साध्यसाधनैः इति । तात्पर्यमिदमत्र-वादिना हेत्वाभासे प्रयुक्त प्रतिवादिना च अदोषे समुद्भाविते न वादी प्रतिवादिनं निगृह्णाति; सदोषचेतनस्य (सदोषत्वेन तस्य) जयाभावात् , न तमन्तरेण इतरस्य निग्रहो नाम । तथा सति प्रतिवाद्यपि वादिनं
निगृह्णीयादिति युगपत् जयेतरौ स्याताम् , ततः तयोः समतैव युक्ता । तथापि प्रतिवादिन एव २५ स्थापयन्तः कथं प्राश्निका मध्यस्था यतो वादे अपेक्ष (क्ष्य)न्ते ? साध्यं साध्यते येषु तैः साध्यसाधनैः सभ्यैः किम् इति ।
ननु स्यात् समता यदि वादी प्रतिवादिनः अदोषोद्भावनं नाविर्भावयेत , आविर्भावने तु मतं न यतीति (सं तं" जयतीति) चेत् ; तत्रेदं चिन्त्यते-स्वदोषं प्रकाश्य, अन्यथा वातदाविर्भावयेदिति ? तत्र न तावदन्त्यः पक्षः; स्वदोषाऽप्रकाशने 'मया प्रयुक्तो दोषः अनेन [२७४क] ३० नोद्भावितोऽपि कृत्य (तु अन्य) इति ज्ञातुमशक्तः। नापि आद्यः; 'स्वयं स्वदोषप्रकाशनात्
(१) वादिपक्षे दोषोद्भावनात् । (२) प्रतिवादी । (३) साधनोपन्यासः। (४) अदोषोद्भावनादेव । (५) साधनाभावे । (६) प्रतिवादी। (७) सम्यक्साधनप्रयोगात् । (८) तदैव । (९) वादी। (१०) वादी । (११) प्रतिवादिनम् । (१२) तस्य प्रतिवादिनः अदोषोद्भावनमाविर्भावयेत् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org