________________
५/१० ]
जय-पराजय व्यवस्था
३३५
दस्युता ? समयान्तरावेशात् ' ; तेत एव प्रतिपाद्यते तदावेशपरित्यागेन प्रतिपादकसमये समावेशो यथा स्यात् । दृश्यन्ते हि समयान्तरानुषङ्गिणोऽपि तत्र विशेषप्रतिपादनवशाद् अन्यमार्गानुसारिणो भवन्तः । केचित् न सर्वे इति चेत्; न तर्हि कश्चित् प्रतिपाद्यः, नहि अन्योऽपि प्रतिपाद्यमानोऽभीष्टसमय एव वर्तते, तत्राप्रवर्त्तनस्य कस्यचित् समयान्तरे प्रवर्त्तनस्य च दर्शनात् । कथमेवं शिष्टादिः दस्युर्न भवेत् वादप्रवृत्तिकाले तत्समावेशात् इतरथा तंत्र प्रवृत्तिः कुतः १५ सर्वदा नेति चेत्; अन्ययोपि (अन्यस्यापि ) सर्वदा स इति कुतो निश्चयः १ एतेन चोद्यकृत् शिष्योऽपि दस्युः स्यादिति विज्ञेयम् । अथ निप्रहृबुद्ध्या प्रवृत्तेर्दस्युता; उक्तमत्र शिष्टादेः स्यात् । किञ्च, तूष्णमासीनो यदि वादी दस्युत्वान्न प्रतिबोध्यते, केवलं न (नि) गृह्यते; तर्हि वादिनाऽपि अनेन पॅरोत एव न समीचीनसाधनात् प्रतिबोधनीयः तं प्रति मौनं [२७२ख ] विधातव्यं यत् किञ्चिद्वा भाषणीयम् । एवं सति स एव निगृहीति ( निगृह्णातीति) चेत्; तत्र १० ठकप्रयोगः कर्त्तव्यः यतोऽसौ विमुखो भवति, तत्परिज्ञानाय च ठकाः सेवनीयाः वादं चिकीर्षुभिः, न साधनपरिज्ञानार्थं तत्त्ववादिनः । ततस्तत्प्रयोगात् निर्मुखीभूत एवं वक्तव्यः पर्यनुयोज्योऽपि अहमुपेक्षितस्त्वया ततो निगृहीतोऽसि इति । तया असाधुता स्यादिति चेत्; न; दस्युनिग्रहे तदयोगात्, अन्यत्र समत्वात् ।
इदमपरं व्याख्यानम्-साधनाङ्गं यन्न भवति तस्य वचनम्, दोषो यो न भवति १५ तस्य उद्भावनं द्वयोर्निग्रहस्थानम् इष्टं चेत् किं पुनः साध्यसाधनैः इति । तथाहि— प्रतिज्ञादिवचनम् असिद्धादिवचनं च भूतदोषमुद्भाव्य वादिनि निगृहीते पुनः पुनः स्वपक्षसाधनाय प्रतिवादिनः प्रयासो निग्रहस्थानं स्यात् । तथाऽभूतदोषोद्भावनमुद्भाव्य प्रतिवादिनि वादिना निर्जिते पुनः तस्य स्वपक्षसाधनं " तादृशमेवेति ।
परः पुनरेतत् परिहरति- नैव कश्चित् निग्रहोत्तरकालं स्वपक्षसिद्धये यतते प्रयोजनाभावात्, २० * "वादिना उभयं कर्त्तव्यम् स्वपक्षसाधनं परपक्षदूषणम्" इति " तु वादिप्रवृत्तिनियमार्थम् । बादिना हि [न] यत्किञ्चन भाषणीयम् अपि तु स्वपरपक्षयोः साधनदूषणे, 'वादिना' इति वचनात्, इतरथा तस्य निग्रहः स्यादिति; तन्न सारम् ; यतः नासाधनाङ्गं विरुद्धसाधनमत्र गृह्यते, तस्य पक्षसाधनंकत्वेन (परपक्षसाधकत्वेन ) साधनाङ्गत्वात् ततो निग्रहस्याभिमतत्वात्, 'तस्मात् निराकृतपक्षत्वमेव निग्रहस्थानम्' इति वचनात्, अपितु "" असिद्धानैकान्तिकप्रतिज्ञादि - २५ [२७३क] तद्वचनम् असाधनाङ्गवचनं वादिनो निग्रहस्थानम् ।" [ वादन्या० पृ०६६ ] कुत एतत् ? ततः तत्पक्षासिद्धेरिति चेत्; किं पुनः परस्य पक्षसिद्धिरस्ति यतोऽसौ विजयी ? न च तज्जयमन्तरेण इतरस्य निग्रहो नाम, परस्परापेक्षत्वात् जयपराजययोः । न स्वपक्षसिद्ध्या
"
(१) चेत् । ( २ ) समयान्तरप्रवेशार्थमेव । ( ३ ) स्वमतावेशात् । (४) वादे । (५) प्रतिवादी । (६) मूकः । ( ७ ) ठकप्रयोगात् । (८) वादिप्रतिवादिनोः । ( ९ ) वादिनः । (१०) निग्रहायैव । ( 19 ) " तस्माजिगीषता स्वपक्षश्च स्थापनीयः परपक्षश्च निराकर्तव्यः । " - चादन्या० पृ० ७२ । (१२) "साधनस्य सिद्धेर्यन्नाङ्गम् असिद्धो विरुद्धोऽनैकान्तिको वा हेत्वाभासः तस्यापि वचनं वादिनो निग्रहस्थानम् असमपादानात् । " - वादन्या० पृ० ६६ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org