Book Title: Siddhi Vinischay Tika Part 01
Author(s): Anantviryacharya
Publisher: Bharatiya Gyanpith
View full book text
________________
३३४
सिद्धिविनिश्चयटीकायाम्
[ ५ वादसिद्धिः
तयोश्च 'युगपत् संभवात्' इति सम्बन्धः । एवं मन्यते वादिना [ २७१ख] असिद्धादीनां साधनदोषाणाम् अन्येन्य तस्मित् (अन्यतरस्मिन्) प्रयुक्त तन्नोद्भावयति परः किन्तु अन्यमेव यदा; तदा कस्य जयः पराजयो वा ? न कस्यचित्, अन्यथा द्वयोरपि सकृत् स्यात्, समतैव तु न्याय्या | क एवं व्यवस्थापयति ? 'सभा' इति चेत् ; कुतः ? द्वयोरपि तत्त्वसिद्धेरभावात्, एक दुष्टसाधनवचनाद् अन्यस्यै अन्यदोषप्रकाशनात् । सैव तर्हि तूष्णीम्भावमात्रप्रकाश - नेऽपि, कस्यचिदिष्टसिद्धेरभावात् अन्यथा साधनोपयोगाभावं तयोः समतां व्यवस्थापयितुमर्हति । यदि पुनः वादिनः तद्दोषप्रकाशनाद् इतरो जयवान् इत्युच्यते; तिष्ठतु तावदेतद् 'असाध - नाङ्ग' इत्यादि कारिकया निरूपयिष्यमाणत्वात् ।
५
यदा परस्यै अन्यदोषोद्भावनमुद्भाव्यते तदा वादी जयत्ति इत्येके; तत् केन उद्भाव्यते ? १० वादिनेति चेत्; सकृज्जयेतरौ, परस्येव आत्मनोऽपि दोषस्य तेनैव प्रकाशनात् । एतेन 'सभया' इति निरस्तम् ; सा हि यथा ( यदा) वादिनोऽपि सन्तं दोषं नोपलक्ष्यते (नोपलक्षयति तदा) अमध्यस्थताप्रसङ्गादिति ।
अत्रैव दूषणान्तरं दर्शयन्नाह - असाधनाङ्ग इत्यादि ।
[ असाधनाङ्गवचनमदोषोद्भावनं द्वयोः । निग्रहस्थानमिष्टं चेत् किं पुनः साध्यसाधनैः ॥ १० ॥ वादिनस्तूष्णींभावादसाधनाङ्गवचनाच्च निग्रहस्थानपर्यन्तजल्पपरिसमाप्तौ समम् । ] असाधनाङ्गस्य. (साधनाङ्गस्य अवचनम् ) अनुच्चारणं तूष्णीम्भावः अदोषोद्भावनं दोषस्य सतोsपि अप्रकाशनम् उपेक्षणं द्वयोः याथासङ्केन वादिप्रतिवादिनो: निग्रहस्थानम् इष्टं चेत् यदि [किं न ] किञ्चित् साध्यैः साधनैश्च 'ज्ञातैः' इत्यध्याहारः । ध्यात्र २० ( व्यक्तय) पेक्षया उभयत्र बहुवचनम् । पुनः इति वितर्फे । इदमत्र तात्पर्यम् - तत्परिज्ञानं यदि स्वार्थमेव; परप्रतिपादनाऽसंभवात् कुतः कस्यचित् क [२७२क] कारुणिकत्वं यतः शिष्योपाध्यायव्यवस्था । प्रतिपादकाभावे वा कथं कस्यचित् तत्परिज्ञानम् इत्यपि चिन्त्यम् । स्वत इति चेत् ; सर्वस्य स्यादिति शास्त्रप्रणयनमनर्थकम् । परार्थम् अपै (वै) ति चेत्; किमर्थं तूष्णीम्भूतः कश्चित् निगृह्यते सतावत् प्रतिपादनीयो यावत् तत्त्वं प्रतिपद्यते अन्यथा किमर्थतृरेवा (किमर्थ - मेवम) भिधीयते - -* " तावद् अभिधानीयं यावत् प्रतिपाद्यः प्रतिपद्यते ।" इति सुभाषितं
"
२५
स्यात् ।
१५
कथं परोपन्यस्तमजान [न्] तैः पुनः पुनः प्रतिपाद्यते न पुनः स्वसाधनम् इति कोऽयं नियोगः - अन्यः सर्वः प्रतिपाद्यते न वादी प्रतिबादी वेति च । 'दस्युत्वात्' इति चेत्; कथं
(१) प्रतिवादी । (२) वादिनः । (३) प्रतिवादिनः । ( ४ ) सभा एव । (५) प्रतिवादिनः । (६) पूर्वपक्ष:- " असाधनाङ्गवचनमदोषोद्धावनं द्वयोः । निग्रहस्थानमन्यत्तु न युक्तमिति नेध्यते ॥ " - वादम्या० श्लो० १ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686