Book Title: Siddhi Vinischay Tika Part 01
Author(s): Anantviryacharya
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 648
________________ ५९] जय-पराजयव्यवस्था ३३३ इत्याह-भूत इत्यादि । [भूतस्य] सतोऽपि असिद्धादिदोषस्य अश्काशनात् । द्वितीयेन 'तां व्याख्यातुकाम आह-तत्त्वम् इत्यादि । तत्त्वं प्रमाणतः [अ] प्रतिपादयतः सौगतस्य प्रतिज्ञादि असाधनाङ्गवचनम् भूतदोषं समुद्भावयति ? काका व्याख्येयमेतत् । 'यदि' शब्दो वा अत्र द्रष्टव्यः । कः ? इत्याह-प्रतिवादी इति हेतोः युगपन्निग्रहप्राप्तिः । कुतः ? इत्याह-जयनात् 'युगपद्' इत्यनुवर्तते, भूतदोषात् पराजयवत् तत्त्वप्रत्याय-५ नात् जयोऽपि वादिनोऽवश्यंभावी इति मन्यते । उपसंहारमाह-यत एवं तत् तस्मात् न कस्यचित् जयो नाम । केन विना ? इत्याह-स्वपक्ष इत्यादि । केन कृत्वा ? इत्याह न्यूनता इत्यादि । कुतः ? इत्याह-मार्गस्य सम्यग्दर्शनादेः प्रभावना प्रकाशनं लक्षणं यस्य [तस्य] भावात् [२७१क तत्त्वात् । कस्य ? जयस्य इति । यत एवं तस्मात् निराकृतपक्षत्वमेव निराकृतः पक्षो यस्य तस्य भावः तत्त्वमेव नान्यत् प्रतिज्ञादिकं निग्रहस्थानं वादिनः प्रतिवादिनो १० वा । तत्तु असम्यक्साधनवादिनि जैने सौगतस्य प्रतिज्ञादिवचनमुद्भावयतोऽपि अस्तीति से एव निगृह्यते इति भावः। एतेनेदमपि प्रत्युक्तं यदुक्तम्-*"पश्चावयवोपपन्नः" [न्यायसू० १।२।१] इत्यत्र नैयायिकादिना अवयवन्यूनता-विपर्यास-आधिक्यं निग्रहस्थानम् इति; पर आह अत्य ल (ल्प)मिदमुच्यते-'निराकृतपक्षत्वमेव निग्रहस्थानम्' इति; यावता तूष्णींभावोऽपि तदिति चेत् ; १५ अत्राह-कस्यचित् वादिनः प्रतिवादिनो वा तूष्णीम्भावे सति तावता तूष्णीम्भावमात्रेण परस्य प्रतिवादिनो वादिनो वा जयाभावात् कः केन निगृह्यते । कुतः ? इत्याह-युगपद् इत्यादि । न केवलं साधनाऽसाधनाङ्गप्रतिज्ञादिवचनोद्भावनयोः युगपत् संभवः किन्तु तूष्णीम्भावस्यापि युगपत् संभवात् । एतदुक्तं भवति-यदि वादिनः तूष्णीम्भावात् पराजयः तस्यापि कदाचित् तद्भावात् वादिनँः संभवेदिति सकृजयेतरौ स्याताम् इति ।। ननु कस्यचित् तूष्णीम्भावमात्रेण न परस्य तयो (तयोः प्रसङ्गः) येनायं दोषः स्यात् , अपि तु तश्रोद्भावयतः, न च द्वयोः तूष्णीम्भावे तँदस्तीति चेत् ; अत्राह-साधन इत्यादि । साधने ये (साधनं च) दूषणं च असिद्धत्वादि, तद् इत्यनेन साधनदूषणं परामृश्यते तदिव आभासत इति तदाभासम् च तत्त्वतो (तेषाम्) असिद्धादेः (अन्यतरस्यापि) तथा भावेन उद्भाव्यमान (ने) (१) कारिकाम् । (२) सौगत एव । (३) "प्रमाणतर्कसाधनोपालम्भः सिद्धान्ताविरुद्धः पञ्चावयवोपपन्नः पक्षप्रतिपक्षपरिग्रहो वादः" (म्यायसू० ॥२१) इति वादलक्षणे । “अनेन च 'हीनमन्यतमेनाप्यवयवेन न्यनम. हेतूदाहरणाधिकमधिकम्' इति न्यूनाधिकयोरुद्धावनमनुज्ञायते । सिद्धान्ताविरुद्धग्रह णेनापि 'सिद्धान्तमभ्युपेत्य तद्विरोधी विरुद्धः' इति विरुद्धाख्यहेत्वाभासोद्भावनमनुज्ञातमित्येवं वादे त्रीणि निग्रहस्थानान्युद्भावनीयानि । अन्ये वदन्ति-विरुद्ध एव हेत्वाभासो वादे चोद्यते नानैकान्तिकादिरिति कथमेतद् युज्यते ? 'निग्रहस्थानेभ्यः पृथगुपदिष्टाः हेत्वाभासा वादे चोदनीया भविष्यन्ति' इति भाष्यकारवचनात् प्रमाणपदेन च तन्मूलावयवाक्षेपात् प्रमाणाभासमूलनिरासे सति सकलहेत्वाभासोद्भावनमपि । तत्र सिद्धमिति । सिद्धान्ताविरुद्धग्रहणेन सिद्धान्तमभ्युपेत्यानियमात् कथाप्रसङ्गोऽपसिद्धान्त इत्यपसिद्धान्ताख्यनिग्रहस्थानानि वादे उद्भाव्यन्त इति ।"-न्यायम० प्रमे० पृ० १५०। (४) निग्रहस्थानम् । (५) प्रतिवादिनोऽपि । (६) तूष्णीम्भावात् । (७) जयः । (6) उद्भावनमस्ति । २० Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686