Book Title: Siddhi Vinischay Tika Part 01
Author(s): Anantviryacharya
Publisher: Bharatiya Gyanpith
View full book text
________________
५९ ]
शब्दविकल्पयोः वस्तुविषयत्वम्
३३१
न [ तादृशात् ] । तादृशाद्धि जायमानं तादृशं नान्यथा । | ' तादृशान्यादृशव्यद्वि जायमानं ताहशन्नमधा $ तादृशान्यादृशव्यवस्थैव न स्यादिति । तदेतदुत्तरं शब्देऽपि समानम् । यथैव च घटशब्दं समानं सर्वत्र जनो मन्यते तथा काष्ठमणिजनितं वह्निम्, सदृशव्यवहारदर्शनात् ।
यस्तु मन्यते - इन्धनात् पावको जायते, तदिन्धनं काष्ठवत् मणिरपि तत्र तादृशादेव तादृशोद्भव इति । तत्र किमिदमिन्धनम् ? पावकजननयोग्यं वस्तु इति चेत्; तर्हि धूमोऽपि ५ तज्जननयोग्यात् 'शक्रमूर्धादेर्भवन् तादृशात् तादृशः स्यात् । न चैतावता' शक्रमूर्धादिः अग्निर्भवति, इतरथा काष्ठं मणिः स्यादविशेषात् ।
अन्येषां तु दर्शनम् - वक्तरि शब्दः देशान्तरादौ अर्थ ः तत्कथं से लिङ्गम् । न हि महान - सधूमो महोदधिदहनस्य लिङ्गम् । कथं तर्हि पर्णकाया (ष्ठादि) देशान्तरादि तल्ली (वल्ली) दाहस्य कथं वा अन्यत्र प्रसुप्तस्य अन्यत्र प्रबोधस्थानान्तरादिचेतसो यतः प्रज्ञा कर स्य १० निरुपादानः प्रबोधो न भवेत् । स्वयं च जलचन्द्रादेः चन्द्रादेरनुमानमिच्छति, [यदि] [२६९ ] दर्शनमवतिष्ठत (ते) ततो यत्किश्विदेतत् ।
ननु यदि कार्यं कारणं व्यभिचरति मा भूत् ततस्तदनुमानमिति चेन्न् ; एतदेवाह - सामग्रीभ्यः विचित्राभ्यः काष्ठादिभ्योऽग्निसंभवे सति कार्यलिङ्गं तल्लिङ्गमेव [न] भवति । तत्रोत्तरमाह - शब्द [म् ] इत्यादि । यतः शब्दात् तस्त्वम् अभिमतं वस्तु प्रतिपद्यते सौगतः १५ चार्वाको वा स शब्दः किम् ? अयमत्राऽभिप्राय: - उक्तदोषादनुमानं त्यजन्नपि न शब्द त्यक्तुमर्हति मूकताप्राप्तेः । तदपरित्यागे कम (प्रत्यक्षादिक) यद्यप्रमाणं न ततः तत्त्वं प्रतिपद्येत, अन्यथा कथं प्रेक्षावान् किमर्थं वा अन्यत्र प्रमाणान्वेषणम् ? प्रमाणं चेत्; सिद्धं नः समीहितम्, एवमर्थं चशब्दः । 'किम्' इति सामान्यवचनम् ।
कारिकायाः प्रथमार्धस्य तात्पर्यमाह - 'तस्वप्रतिपत्तेः' इत्यादिना । द्वितीयस्य आह २० ‘शाब्दम्' इत्यादिना ।
ननु शब्दात् तत्त्वप्रतिपत्तेरभावादसिद्धो हेतुरिति चेत्; अत्राह - [ स्वार्थानुमानेऽपि इत्यादि] न केवलं परार्थानुमाने अपि तु स्वार्थानुमानेऽपि प्रयोगदर्शनम् अन्यथा अन्येन 1 तत्त्वप्रयोगदर्शनम् अन्यथा अन्येन । तत्त्वप्रतिपत्त्यभावप्रकारेण अयुक्तमेव तत्प्रयोजनाभावादिति भावः ।
इदं वा अन्यथा अयुक्तमेव इति दर्शयन्नाह - 'तत्त्व' इत्यादि ।
[तत्त्वप्रत्यायनाद्वादी जयति प्रतिवाद्यपि । भूतदोषं समुद्भाव्य युगपत्संभवात्तयोः ॥९॥
शब्देन वक्त्रभिप्रायसूचनाङ्गीकरणे वादी निगृह्यते तत्त्वतः साधनाङ्गावचनात्,
(१) ( एतदन्तर्गतः पाठः पुनर्लिखितः । (२) वल्मीकात् । (३) धूमोत्पादकत्वात् । (४) अग्न्युत्पादकत्वाविशेषात् । (५) शब्दः । ( ६ ) अप्रमाणभूत प्रत्यक्षादेः । (७) द्वितीयार्धस्य तात्पर्यमाह । (८) 1 एतदन्तर्गतः पाठः पुनर्लिखितः ।
Jain Education International
For Personal & Private Use Only
२५
www.jainelibrary.org

Page Navigation
1 ... 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686