Book Title: Siddhi Vinischay Tika Part 01
Author(s): Anantviryacharya
Publisher: Bharatiya Gyanpith

Previous | Next

Page 644
________________ ३२९ ५७ ] ___ शब्दविकल्पयोः वस्तुविषयन्वम् ननु ग्राह्याकारवत् स्वरूपेऽपि विभ्रमे विभ्रमोऽपि न सिध्यति । ततस्तन्मात्रमस्तु इति चेत् ; अत्राह-शक्तस्य इत्यादि । शक्तस्य लिङ्गस्य सूचिका ज्ञापिका [का]चन कल्पना न सर्वा, न सत् (न सा)। साक्षात् तत्सूचने समर्था तद्विषया इति यावत् । कल्पनाग्रहणमुपलक्षणम् , तेन शब्दोऽपि गृह्यते । यदि वा, कार्ये कारणस्य 'तत्र वा कार्यस्योपचारात् कल्पनाशब्देन शब्द उच्यते । एतदुक्तं भवति-यथा प्रतिभासाविशेषे स्वरूपपरिहारेण अन्यत्र भ्रान्तं तथा ५ शक्त [२६७ख] सूचकशब्दविकल्पपरिहारेण प्रधानादिशब्दादिभ्रान्तत्वमिति । ___ यत्पुनरेतत् -परमार्थकतानत्व इत्यादि । तत्र दूषणमाह-परमार्थंकतानत्वे इत्यादि। परमार्थः स्वलक्षणं तस्मिन् एकः प्रधानभूतः तानः तादात्म्यादिप्रतिबन्धो यासां तासां भावे तत्त्वे अङ्गीक्रियमाणे। कासाम् ? बुद्धीनाम् इति। तस्यां किं स्यात् ? इत्यत्राह-स्यात् भवेत् प्रवृत्तिः वर्तनम् । क ? अर्थेषु । किंभूतेषु ? समयान्तरभेदिषु बहिः परस्परविविक्ततनवः १० क्षणिका निरंशाः परमाणवो दर्शनविषया अन्तश्च अद्वयं वेदनम् इति दर्शनम् इह 'समयः' इत्युच्यते, नान्यः अप्रस्तावात् , ततोऽन्यः तदन्तरम् तद्भत्तुं सौगतसमयाद् अन्यत्वेन व्यवस्थापनशीलेषु, स्थिरस्थूलसाधारणादिस्वभावेषु समस्तवो (समतन्त्रो)क्तिन्यायात् । किंभूता ? इत्याहनिर्निबन्धना आलम्बनरहिता इत्यर्थः । ततो मन्यामहे-बहिरन्तश्च बुद्धीनामविशेषेण परमाथैकतानत्वं नास्तीति शब्दानां निर्विषयत्वं व्यवस्थापयितुकामस्य बुद्धीनां तदाजातं (तदायातम् ) अतः १५ *"अधिकार्थिन्याः पतितं तदपि च यत् पिजने लग्नम् ।" इत्यापतितम् । बहिरन्तश्च कस्यचित् प्रमाणाभावात् तदभावसाधनं त्व (च) सिद्धसाधनमिति मन्यमानस्य प्रज्ञा क र स्य मतं पूर्वपक्षेणैव दूषयित्वा कारिकाद्वयस्य तात्पर्यं कथयन्नाह-प्रमाणाभाव इत्यादि। अस्यायमर्थः यदुक्तम्-'ज्ञानमेव किं न प्रतिक्षिपेत्' इति । तत्र तत्प्रतिक्षेपे प्रमाणप्रतिक्षेपो [२६८ क] ज्ञानात्मकत्वात् प्रमाणस्य, अस्य वा भावे प्रतिक्षेपासिद्धिः ज्ञानस्य अन्यस्य वा २० निरासाऽसिद्धिः । परमार्थसिद्धिवत् तत्प्रतिक्षेपसिद्धिरपि प्रमाणमन्तरेण नोपपद्यते । तदुक्तं न्याय वि निश्च ये-*"प्रमाणमात्मसात्कुर्वन" न्यायवि० १।४९] "इत्यादि । ततो वेदनमात्रमस्तु इति मन्यते । इत्येवं चेत् ; अंबाह-वाक्यप्रतिक्षेपेऽपि वाक्यस्य सविषयत्वनिरासेऽपि न केवलं ज्ञानस्य समानं सदृशम् । न त्वरो क्रमे (?) । तदेव दर्शयन्नाह-तत्त्व इत्यादि । तत्त्वस्य [क्षण] क्षयादेः प्रतिपत्ति प्रति अनुमानस्य वृत्तौ प्रवृत्तौ । ननु च तत्प्रतिपत्तिरेव अनुमानं तत्कथमिदमुच्यते इति चेत् ? न ; उपचारेण अनुमानशब्देन लिङ्गाभिधानात् । कैः ? इत्यत्राह-वाक्यविशेषैः त्रिरूपलिङ्गवचनैः । तस्यां किम् ? इत्याह-व्यवहत्तुं (हर्तारो)व्याख्यातारोऽपि तिसेरते (अतिशेरते) नान्यथा नाऽपरेण प्रकारेण । इदमत्र तात्पर्यम्-'सर्वं वाक्यं बहिरर्थशून्यम्' इति प्रतिपादयतो न तत्र प्रत्यक्षं प्रमाणम् । यदि पुनः 'यद्यत्राप्रतिबद्धं न तत्तत्र यथार्थप्रतीतिजनकं यथा धूमोऽपावके, बहिरर्थाऽप्रतिबद्धं च सर्व वाक्यम्' ३० (१) कारणे । (२) बहिरर्थे भ्रान्तं प्रत्यक्षम् । (३) "परमार्थंकतानत्वे शब्दानामनिबन्धना । न स्यात् प्रवृत्तिरर्थेषु समयान्तरभेदिषु ॥''-प्र० वा० ३।२०६ । (४) निर्विषयत्वं प्राप्तम् । (५) "प्रतीतिमतिलधयेत् । वितथज्ञानसन्तानविशेषेषु न केवलम् ॥” इति शेषः । (६) तत्त्वप्रतिपत्तिरेव । ४२ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686