________________
३२९
५७ ]
___ शब्दविकल्पयोः वस्तुविषयन्वम् ननु ग्राह्याकारवत् स्वरूपेऽपि विभ्रमे विभ्रमोऽपि न सिध्यति । ततस्तन्मात्रमस्तु इति चेत् ; अत्राह-शक्तस्य इत्यादि । शक्तस्य लिङ्गस्य सूचिका ज्ञापिका [का]चन कल्पना न सर्वा, न सत् (न सा)। साक्षात् तत्सूचने समर्था तद्विषया इति यावत् । कल्पनाग्रहणमुपलक्षणम् , तेन शब्दोऽपि गृह्यते । यदि वा, कार्ये कारणस्य 'तत्र वा कार्यस्योपचारात् कल्पनाशब्देन शब्द उच्यते । एतदुक्तं भवति-यथा प्रतिभासाविशेषे स्वरूपपरिहारेण अन्यत्र भ्रान्तं तथा ५ शक्त [२६७ख] सूचकशब्दविकल्पपरिहारेण प्रधानादिशब्दादिभ्रान्तत्वमिति । ___ यत्पुनरेतत् -परमार्थकतानत्व इत्यादि । तत्र दूषणमाह-परमार्थंकतानत्वे इत्यादि। परमार्थः स्वलक्षणं तस्मिन् एकः प्रधानभूतः तानः तादात्म्यादिप्रतिबन्धो यासां तासां भावे तत्त्वे अङ्गीक्रियमाणे। कासाम् ? बुद्धीनाम् इति। तस्यां किं स्यात् ? इत्यत्राह-स्यात् भवेत् प्रवृत्तिः वर्तनम् । क ? अर्थेषु । किंभूतेषु ? समयान्तरभेदिषु बहिः परस्परविविक्ततनवः १० क्षणिका निरंशाः परमाणवो दर्शनविषया अन्तश्च अद्वयं वेदनम् इति दर्शनम् इह 'समयः' इत्युच्यते, नान्यः अप्रस्तावात् , ततोऽन्यः तदन्तरम् तद्भत्तुं सौगतसमयाद् अन्यत्वेन व्यवस्थापनशीलेषु, स्थिरस्थूलसाधारणादिस्वभावेषु समस्तवो (समतन्त्रो)क्तिन्यायात् । किंभूता ? इत्याहनिर्निबन्धना आलम्बनरहिता इत्यर्थः । ततो मन्यामहे-बहिरन्तश्च बुद्धीनामविशेषेण परमाथैकतानत्वं नास्तीति शब्दानां निर्विषयत्वं व्यवस्थापयितुकामस्य बुद्धीनां तदाजातं (तदायातम् ) अतः १५ *"अधिकार्थिन्याः पतितं तदपि च यत् पिजने लग्नम् ।" इत्यापतितम् ।
बहिरन्तश्च कस्यचित् प्रमाणाभावात् तदभावसाधनं त्व (च) सिद्धसाधनमिति मन्यमानस्य प्रज्ञा क र स्य मतं पूर्वपक्षेणैव दूषयित्वा कारिकाद्वयस्य तात्पर्यं कथयन्नाह-प्रमाणाभाव इत्यादि। अस्यायमर्थः यदुक्तम्-'ज्ञानमेव किं न प्रतिक्षिपेत्' इति । तत्र तत्प्रतिक्षेपे प्रमाणप्रतिक्षेपो [२६८ क] ज्ञानात्मकत्वात् प्रमाणस्य, अस्य वा भावे प्रतिक्षेपासिद्धिः ज्ञानस्य अन्यस्य वा २० निरासाऽसिद्धिः । परमार्थसिद्धिवत् तत्प्रतिक्षेपसिद्धिरपि प्रमाणमन्तरेण नोपपद्यते । तदुक्तं न्याय वि निश्च ये-*"प्रमाणमात्मसात्कुर्वन" न्यायवि० १।४९] "इत्यादि । ततो वेदनमात्रमस्तु इति मन्यते । इत्येवं चेत् ; अंबाह-वाक्यप्रतिक्षेपेऽपि वाक्यस्य सविषयत्वनिरासेऽपि न केवलं ज्ञानस्य समानं सदृशम् । न त्वरो क्रमे (?) । तदेव दर्शयन्नाह-तत्त्व इत्यादि । तत्त्वस्य [क्षण] क्षयादेः प्रतिपत्ति प्रति अनुमानस्य वृत्तौ प्रवृत्तौ ।
ननु च तत्प्रतिपत्तिरेव अनुमानं तत्कथमिदमुच्यते इति चेत् ? न ; उपचारेण अनुमानशब्देन लिङ्गाभिधानात् । कैः ? इत्यत्राह-वाक्यविशेषैः त्रिरूपलिङ्गवचनैः । तस्यां किम् ? इत्याह-व्यवहत्तुं (हर्तारो)व्याख्यातारोऽपि तिसेरते (अतिशेरते) नान्यथा नाऽपरेण प्रकारेण । इदमत्र तात्पर्यम्-'सर्वं वाक्यं बहिरर्थशून्यम्' इति प्रतिपादयतो न तत्र प्रत्यक्षं प्रमाणम् । यदि पुनः 'यद्यत्राप्रतिबद्धं न तत्तत्र यथार्थप्रतीतिजनकं यथा धूमोऽपावके, बहिरर्थाऽप्रतिबद्धं च सर्व वाक्यम्' ३०
(१) कारणे । (२) बहिरर्थे भ्रान्तं प्रत्यक्षम् । (३) "परमार्थंकतानत्वे शब्दानामनिबन्धना । न स्यात् प्रवृत्तिरर्थेषु समयान्तरभेदिषु ॥''-प्र० वा० ३।२०६ । (४) निर्विषयत्वं प्राप्तम् । (५) "प्रतीतिमतिलधयेत् । वितथज्ञानसन्तानविशेषेषु न केवलम् ॥” इति शेषः । (६) तत्त्वप्रतिपत्तिरेव ।
४२
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org