________________
सिद्धिविनिश्चयटीकायाम्
[५ वादसिद्धिः इत्यनुमानं तत्र प्रमाणम् । अस्य वाक्यस्य लिङ्गप्रतिपादने प्रतिज्ञा स्ववचनविरोधिनी, तदप्रतिपादने कुतः परस्य लिङ्गप्रतीतिः इति ।
परमुपहसन्नाह-तदयम् (तत्कार्य) इत्यादि । अग्न्यादेः काष्ठादिजन्मनोऽपि मण्यादेदर्शने तत्कार्यस्य व्यभिचारेऽपि यथा गम[क]त्वं तथा शब्दस्य कचिद् व्यभिचारेऽपि । ___तदर्शयन्नाह-सामग्रीभ्य इत्यादि ।
[सामग्रीभ्यो विचित्राभ्यः काष्ठादिभ्योऽग्निसंभवे ।
प्रतिपद्यते यतस्तत्त्वं किं शब्दं त्यक्तुमर्हति ॥८॥ तत्त्वप्रतिपत्तेः शाब्दम् । स्वार्थानुमानेऽपि प्रयोगदर्शनम् अन्यथाऽयुक्तमेव ।]
सामग्रीभ्यः कारणकलापेभ्यः । किंभूताभ्यः ? [२६८ ख] विचित्राभ्यः भिन्न१० जातीयाभ्यः । पुनरपि किंभूताभ्यः ? काष्ठादिभ्यः आदिशब्देन मण्यादिपरिग्रहः । तेन
काष्ठादय एव विशिष्टाः सामग्रीशब्देन उच्यन्ते नान्या तेभ्यः सा इति दर्शयति । यदि स्यात् काष्ठादीनाम् इति ब्रूयात् ।
किंच, अस्या एव कार्यनिष्पत्तेः काष्ठादिकम् अनर्थकं स्यात् । [न] चान्यत उत्पन्न कार्यमन्यस्य युक्तम् अतिप्रसङ्गात् । अथ तत्सम्बन्धिन्या जनकत्वे तस्याः तदपि जनकं तत्स१५ म्बन्धनाक (त् ) । कुतः १ तत्र समवायात् । अस्य सर्वगतत्वे कुतः कस्यचिदेव सा इति चिन्त्यम् । यदि पुनः समवायसम्बन्धाविशेषेऽपि तत्सम्बन्धिविशेष इष्यते ; इष्यतां भिन्ना सामग्री तु न सिध्यति । ययैव प्रत्यासत्त्या समवायाविशेषेऽपि केचिदेव काञ्चिदेव सामग्री बिभ्रति तयैव ते तत्कार्यं कुर्वन्तु तया किम् ? समवायनिषेधाच्च न तत्सम्बन्धिनी । कार्यत्वादिति
चेत् ; तां तर्हि काष्ठादयोऽस्वरूपेण जनयन्ति कार्ये कः प्रद्वषः यतः 'तत् ते न जनयन्ति ? २० अपरया सामन्येति चेत् ; स एव दोषः, अनवस्था चेति । अग्निसंभवे अपिशब्दा तु
(शब्दोऽत्र) द्रष्टव्यः संभावनायाम् । नहि अग्निवद् धूमस्यापि विजातीयाभावे कार्य लिङ्ग संभवति । तत्संभवेऽपि कार्य लिङ्गम् *"सुविवेचितं कार्य कारणं न व्यभिचरति" इति न्यायात् न शब्दः । किम् ? लिङ्गम् इत्यनुवर्तते । किंभूतः ? इत्याह-यतः शब्दात् तत्त्वं
लिङ्गलक्षणम् अन्यद्वा प्रतिपद्यते सौगतः । तथाहि-योऽर्थे सति भवति शब्दः सोऽन्यः, २५ यश्च तदभावे सोऽपि अन्यः । [२६९ क] *"सुविवेचितं कार्य कारणं न व्यभिचरति"
इत्येतत् न सौगतकाककुलचर्वितम् । न चैतत् चोद्यम्-य एव घटशब्दो घटे सति दृश्यते स एव "तदभावे, तत्कथं लिङ्गमिति ; तदेकत्वाऽसिद्धः, "उभयोरपि देशादिभेदात् इति । सादृश्यम् अन्यत्रापि न वार्यते।
स्यान्मतम्-काष्ठादिजन्मना पावकेन मण्यादिजन्यस्य तस्य न सादृश्यं कारणवैसादृश्यात् ,
() वाक्यं न बहिरर्थप्रतिपादकमिति प्रतिज्ञा । (२) सामग्री । (३) सामग्र्याः । (४) सामयाः । (५) समवायस्य । (६) सामग्री । (७) सामघ्या । (८) कार्यम् । (९) अर्थाभावे। (१०) घटाभावे । (११) शब्दयोः । (१२) पावकस्प।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org