________________
३२८ सिद्धिविनिश्चयटीकायाम्
[५ वादसिद्धिः सर्वं नीलादि भवदीयज्ञानाद् बहिर्भूतम् इति युक्तिरस्ति ; अत्र ततोऽन्यस्यापि अनिवारणात् । [२६६ ख] भवदीयानुपलम्भमात्रस्य तद्भावसाधने ‘साधात् (नेऽसामर्थ्यात्), इतरथा सुखेन दुःखस्य अनुपलम्भादभावः स्यात् ।
___ननु [न] मदीयमध्यक्षम् अशेषस्य नीलादेः ज्ञानात्मकत्वमवैति किन्तु स्वयं विषयीकृतस्य ५ इति चेत् ; न ; तत्र विवादात् । तथाहि-त्वत्प्रत्यक्षं नीलादिकमात्मभूतं प्रत्येति इति कः प्रत्येति ? तदेवेति चेत् ; 'अन्यस्य प्रत्यक्षं तत् स्वतो भिन्नं प्रत्येति । तथा व (च) तत्तथा प्रतिपद्यमानमात्मानं प्रत्येति तदेवेति न विज्ञप्तिमात्रसिद्धिः । स कथमिदं परस्मै निवेदयति ? कथं केन प्रक्षेण (प्रत्यक्षेण) त्वदीयप्रत्यक्षस्य परप्रतिपत्त्यहेतुत्वात् , ज्ञानान्तरवैयर्थ्यप्रसङ्गात् । अन्यज्ञानस्य
अधिपतिप्रत्ययो भवतीति चेत् ; तर्हि तस्य केनचित् प्रत्यासत्तिविप्रकर्षाभावात् सर्वस्य भवेदिति १० न विवादो नाम भवेत् । न चैवं जैनान् । कथं चैवं कार्यकारणभावो न भवेत् , यतः तद्वत्
परेण परस्य ग्रहणं विरुद्धता न्ययापि (विरुध्येत । अपि) च प्रत्यक्षं तथा परप्रतिपत्तिहेतुः तथैव (तवैव) स्यात् । मम नेति चेत् ; भवदीयमन्यस्य न इति समानम् । नाप्यनुमानेन ; उक्तदोषात् ।
___ यत्पुनरेतत्-विवक्षितप्रत्यक्षात् नीलादेरभेदात् स्वात्मभूतमेव तत् तत्प्रत्येति इति तस्य ततोऽभेदः, कुतस्तेन ग्रहणम् ? तद्यथा-यद् येन गृह्यते तत् तेन स्वात्मभूतं गृह्यते यथा स्वरूपम् , १५ गृह्यते च नीलादिकम् इति । न त्विदमनुमानम् उक्तम् (युक्तम् ) । तन्न अस्य परप्रतिपादनोपायोऽ
स्ति । पराभावान्नस प्रतिपाद्यत इति चेत् ; तदेतद् अन्यत्रापि समानम् । शक्यं हि अन्येनापि वक्तुम् [२६७ क] अहं तावत् नीलादिकं स्वतो भिन्नं पश्यामि, न चान्यः प्रतिपत्ता अस्ति यो मया प्रतिपाद्यते, मां प्रति चोद्य स्वा (चं स्वी) करोति, प्रतिपक्षात् नः स्वार्थसिद्धिः ।
यत्पुनरेतत्-कथं स्वतो भिन्नं तत् तत्प्रत्येति इति ? अभिन्नं कथं प्रत्येति ? तथादर्शनात्; २० अन्यत्र समानम् । तन्न केशोण्डुकादिकं ज्ञानात्मकं युक्तम् । ततो बहिर्भूतस्य परमार्थसत्त्वे च न
विज्ञप्तिमात्रं प्रत्यक्षलक्षणे" वा अभ्रान्तग्रहणम् अर्थवदिति । तत्त्वसत्त्वाऽसत्त्वविकल्पविकलतापि एतेन चिन्तिता । ततः तदभ्युपगच्छता बहिः तैमिरिककेशादेः असत्त्वमभ्युपगन्तव्यमिति न साध्यशून्यो दृष्टान्तः ।
ननु प्रत्यक्षे सच्चेतनादेः प्रतिभासने कथं न तदुपलब्धिः ? तत्समर्थमिति चेत् ; न ; २५ परमार्थोपलब्धिः (ब्धेः) विवक्षितत्वात् । अत एव साध्यग्रहणम् । भ्रान्तस्य साध्यत्वे क्लेशमात्रं
भवेदिति । तत्तत् (तन्न) साक्षात् साध्योपलब्धेः प्रत्यक्षं समर्थम् । अत एव तद्विषयानुमानजनकत्वेन पारम्पर्येण ; सर्वथा भ्रान्त्या तदनुत्पत्तेरिति मन्यते ।
(१) जैनस्य । (२) नीलादिकम् । (३) "चत्वारः प्रत्यया हेतुश्चालम्बनमनन्तरम् । तथैवाधिपतेयं च प्रत्ययो नास्ति पञ्चमः ॥"-माध्यमिकका. ११२। तुलना-"नीलाभासस्य हि चित्तस्य नीलादालम्बनप्रत्ययानीलाकारता । समनन्तरप्रत्ययात् बोधरूपता । चक्षुषोऽधिपतिप्रत्ययात् रूपग्रहणप्रतिनियमः । आलोकात् सहकारिप्रत्ययाखेतोः स्पष्टार्थता।"-०शा भामती २।२।१९।(४) प्रति विवादसद्भावात् । (५) प्रत्यक्षम् । (६) नीलादिकम् । (७) प्रत्यक्षेण नीलादेर्ग्रहणमिति भेदप्रयोगः। (८) परः। (९) नीलादिकम् । (१०) इति चेत् । (११) कल्पनापोढमभ्रान्तं प्रत्यक्षमित्यत्र । (१२) साध्योपलब्धौ प्रत्यक्षं न समर्थमिति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org