________________
५॥६-७ ]
शब्दविकल्पयोः वस्तुविषयत्वम्
साध्योपलब्धेः प्रत्यक्षं पारम्पर्येण नाप्यलम् । शक्तस्य सूचिका साक्षात् काचन सर्वा न कल्पना ॥६॥ परमार्थैकत्तनत्वे बुद्धीनामनिबन्धना ।
न स्यात्प्रवृत्तिरर्थेषु समयान्तरभेदिषु ॥ ७ ॥
३२७
प्रमाणाभावे ज्ञानमेव किन्न प्रतिक्षिपेदिति । प्रतिक्षेपासिद्धिरिति वाक्यप्रतिक्षेपेऽपि ५ समानम् | तत्त्वप्रतिपत्तिं प्रति वाक्यविशेषैः अनुमान वृत्तौ व्यवहर्तारोऽतिशेरते नान्यथा । तत्कार्यव्यभिचारेऽपि यथा गमकत्वं तथा शब्दस्य । ]
शक्यं हि वक्तुम् इत्यादि । हि यस्मात् शक्यं वक्तुम् । किम् ? इत्याह- साध्योपलब्धेः साध्यस्य क्षणक्षयस्य स्वसंवदेनाऽनन्यवेद्यादेः या उपलब्धिः दृष्टिः साक्षात्करणं तस्याः प्रत्यक्षं 'चतुर्विधम् अविकल्पदर्शनं नाऽलम् न समर्थम् । कथम् ? इत्याह- पारम्पर्येण १० 'अपि ' शब्दोऽत्र व्याख्येयो भिन्नप्रक्रमन्यायात् । [न] केवलं साक्षाद् अपि तु पारम्पर्येणापि । तथाहि न तावत् साक्षात्, परमार्थाभावेऽपि तत्प्रवृत्तेः उपप्लवदशायाम् । तथा सति यदवभासते न तत् परमार्थसत् यथा तैमिरिकोपलभ्यमानं [ २६६क ] केशोंद्र (शोण्डु) कादि, अवभासते च ज्ञानस्य स्वसंवेदनादि । न चैतन्मन्तव्यम् - केशोण्डुकादेः ज्ञानात्मकत्वे तत्सत्त्वात् साध्यविकलो दृष्टान्त इति ; सारूप्यनिषेधात्, ग्राह्यग्राहकाकारभेदप्रतीतेः अन्येन अन्यग्रहणाविरोधात् १५ जननवत् । अस्याभावे विज्ञानवादिनोऽनुमानाभावः । तद्धि त्रिरूपलिङ्गजमिष्यते तदभावमभ्युपगच्छन् कथम् *“यदवभासते तज्ज्ञानं यथा सुखादि अवभासते च नीलादिकम् " इत्याद्यनुमानं वदेत् ? अस्य सांवृतत्वे कुतः अतो नीलादेः 'भावतो ज्ञानत्वसिद्धिः अतिप्रसङ्गात् ? अथ "यादृशो यक्षः तादृशो बलि : " " इति वचनात् सापि ततस्तथा नेष्यते ; वस्तुतः किं नीलादिकमस्तु ? 'ज्ञानम्' इति चेत्; कुतः प्रमाणात् ? अत एवेति चेत्; हन्त हतोऽसि, २० प्रकृतविरोधात् । यदि चेदमनुमानं परम्परयापि न तत्र प्रतिबद्धम्, कथमस्य तद्व्यभिचारः ? तथापि तद्भावो (वे)
*“लिङ्गलिङ्गिधियोरेवं पारम्पर्येण वस्तुनि ।
प्रतिबन्धात् तदाभासशून्ययोरप्यवञ्चनम् ||" [प्र०वा०२।८२] इति प्लवते ।
१०
यदि पुनः परम्परया तत्कार्यत्वेनोपगमान्नायं दोषः ; तथा सति सर्वमनुमानम् अव्य- २५ भिचारम् अत एव स्यादिति न तदाभासो नाम । ततोऽस्य तत्र प्रतिबन्धाऽभावे न अव्यभिचार इति नातस्तत्सिद्धिः । प्रत्यक्षत इति चेत्; न; तस्य तावति व्यापारे सामर्थ्याभावात् । न हि " इदं सर्वं नीलादि 'ज्ञानम्' इति प्रत्येतुमर्हति, अनेन (अन्येन ) अन्यग्रहण प्रसङ्गात् । नच
Jain Education International
(१) इन्द्रियमनःस्वसंवेदनयोगिप्रत्यक्षभेदेन । (२) अनुमानम् । ( ३ ) परमार्थतः । (४) "अद्वैतेऽपि कथं वृत्तिरिति चोद्यं निराकृतम् । यथा बलिस्तथा यक्ष इति किं केन सङ्गतम् ॥ १- प्र० वार्तिकाल० पृ० २९३ । (५) परमार्थतः । ( ६ ) इति चेत् । (७) स्वार्थे । (८) अनुमानस्य । ( ५ ) अर्थाव्यभिचारः । (१०) परम्परया कार्यत्वात् । ( ११ ) प्रत्यक्षं । ( १२ ) अन्येन = प्रत्यक्षेण ।
For Personal & Private Use Only
www.jainelibrary.org