Book Title: Siddhi Vinischay Tika Part 01
Author(s): Anantviryacharya
Publisher: Bharatiya Gyanpith

Previous | Next

Page 643
________________ ३२८ सिद्धिविनिश्चयटीकायाम् [५ वादसिद्धिः सर्वं नीलादि भवदीयज्ञानाद् बहिर्भूतम् इति युक्तिरस्ति ; अत्र ततोऽन्यस्यापि अनिवारणात् । [२६६ ख] भवदीयानुपलम्भमात्रस्य तद्भावसाधने ‘साधात् (नेऽसामर्थ्यात्), इतरथा सुखेन दुःखस्य अनुपलम्भादभावः स्यात् । ___ननु [न] मदीयमध्यक्षम् अशेषस्य नीलादेः ज्ञानात्मकत्वमवैति किन्तु स्वयं विषयीकृतस्य ५ इति चेत् ; न ; तत्र विवादात् । तथाहि-त्वत्प्रत्यक्षं नीलादिकमात्मभूतं प्रत्येति इति कः प्रत्येति ? तदेवेति चेत् ; 'अन्यस्य प्रत्यक्षं तत् स्वतो भिन्नं प्रत्येति । तथा व (च) तत्तथा प्रतिपद्यमानमात्मानं प्रत्येति तदेवेति न विज्ञप्तिमात्रसिद्धिः । स कथमिदं परस्मै निवेदयति ? कथं केन प्रक्षेण (प्रत्यक्षेण) त्वदीयप्रत्यक्षस्य परप्रतिपत्त्यहेतुत्वात् , ज्ञानान्तरवैयर्थ्यप्रसङ्गात् । अन्यज्ञानस्य अधिपतिप्रत्ययो भवतीति चेत् ; तर्हि तस्य केनचित् प्रत्यासत्तिविप्रकर्षाभावात् सर्वस्य भवेदिति १० न विवादो नाम भवेत् । न चैवं जैनान् । कथं चैवं कार्यकारणभावो न भवेत् , यतः तद्वत् परेण परस्य ग्रहणं विरुद्धता न्ययापि (विरुध्येत । अपि) च प्रत्यक्षं तथा परप्रतिपत्तिहेतुः तथैव (तवैव) स्यात् । मम नेति चेत् ; भवदीयमन्यस्य न इति समानम् । नाप्यनुमानेन ; उक्तदोषात् । ___ यत्पुनरेतत्-विवक्षितप्रत्यक्षात् नीलादेरभेदात् स्वात्मभूतमेव तत् तत्प्रत्येति इति तस्य ततोऽभेदः, कुतस्तेन ग्रहणम् ? तद्यथा-यद् येन गृह्यते तत् तेन स्वात्मभूतं गृह्यते यथा स्वरूपम् , १५ गृह्यते च नीलादिकम् इति । न त्विदमनुमानम् उक्तम् (युक्तम् ) । तन्न अस्य परप्रतिपादनोपायोऽ स्ति । पराभावान्नस प्रतिपाद्यत इति चेत् ; तदेतद् अन्यत्रापि समानम् । शक्यं हि अन्येनापि वक्तुम् [२६७ क] अहं तावत् नीलादिकं स्वतो भिन्नं पश्यामि, न चान्यः प्रतिपत्ता अस्ति यो मया प्रतिपाद्यते, मां प्रति चोद्य स्वा (चं स्वी) करोति, प्रतिपक्षात् नः स्वार्थसिद्धिः । यत्पुनरेतत्-कथं स्वतो भिन्नं तत् तत्प्रत्येति इति ? अभिन्नं कथं प्रत्येति ? तथादर्शनात्; २० अन्यत्र समानम् । तन्न केशोण्डुकादिकं ज्ञानात्मकं युक्तम् । ततो बहिर्भूतस्य परमार्थसत्त्वे च न विज्ञप्तिमात्रं प्रत्यक्षलक्षणे" वा अभ्रान्तग्रहणम् अर्थवदिति । तत्त्वसत्त्वाऽसत्त्वविकल्पविकलतापि एतेन चिन्तिता । ततः तदभ्युपगच्छता बहिः तैमिरिककेशादेः असत्त्वमभ्युपगन्तव्यमिति न साध्यशून्यो दृष्टान्तः । ननु प्रत्यक्षे सच्चेतनादेः प्रतिभासने कथं न तदुपलब्धिः ? तत्समर्थमिति चेत् ; न ; २५ परमार्थोपलब्धिः (ब्धेः) विवक्षितत्वात् । अत एव साध्यग्रहणम् । भ्रान्तस्य साध्यत्वे क्लेशमात्रं भवेदिति । तत्तत् (तन्न) साक्षात् साध्योपलब्धेः प्रत्यक्षं समर्थम् । अत एव तद्विषयानुमानजनकत्वेन पारम्पर्येण ; सर्वथा भ्रान्त्या तदनुत्पत्तेरिति मन्यते । (१) जैनस्य । (२) नीलादिकम् । (३) "चत्वारः प्रत्यया हेतुश्चालम्बनमनन्तरम् । तथैवाधिपतेयं च प्रत्ययो नास्ति पञ्चमः ॥"-माध्यमिकका. ११२। तुलना-"नीलाभासस्य हि चित्तस्य नीलादालम्बनप्रत्ययानीलाकारता । समनन्तरप्रत्ययात् बोधरूपता । चक्षुषोऽधिपतिप्रत्ययात् रूपग्रहणप्रतिनियमः । आलोकात् सहकारिप्रत्ययाखेतोः स्पष्टार्थता।"-०शा भामती २।२।१९।(४) प्रति विवादसद्भावात् । (५) प्रत्यक्षम् । (६) नीलादिकम् । (७) प्रत्यक्षेण नीलादेर्ग्रहणमिति भेदप्रयोगः। (८) परः। (९) नीलादिकम् । (१०) इति चेत् । (११) कल्पनापोढमभ्रान्तं प्रत्यक्षमित्यत्र । (१२) साध्योपलब्धौ प्रत्यक्षं न समर्थमिति । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686