Book Title: Siddhi Vinischay Tika Part 01
Author(s): Anantviryacharya
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 641
________________ ५ १० द्वितीयं व्याख्यानमाह - ततः परे "संयोग्यादयो हेत्वाभासा भवन्ति इति । कुतः ? इत्याहअविनाभावनियमात् । अस्यायमर्थः - विना भाव्य ( साध्य ) मन्तरेण अभाव्य (व) नियमः सा[ध्या]भावे अभावनियमः, पुनः अस्य न ज्ञायोगे ( न चायोगे) साध्याभावेऽपि भाव इत्युक्तं भवति, तस्माद् इति । ततः कि जातम् ? इत्याह- स्वयम् आत्मना आदिना ( अपिना) अनभिमतस्यापि न केवलम् अभिमतस्यैव वस्तुनः अर्थस्य प्रतिपत्तेः 'शब्देभ्यः' इति विभक्तिपरि१५ णामेन सम्बन्धः । न च वक्त्रभिप्रायम् एकान्तेन सूचयन्ति शब्दा इत्यपेक्षम् (क्ष्यम्) । ननु यद्यप्येवं भावना (भावेन) व्याख्यायते - ते - यथा (तथा) प्ययमस्य अर्थो न भवति किन्तु वक्त्रभिप्रायोऽर्थः इति चेत्; अत्राह - तत्त्व (तथा) इत्यादि । तथा तेन उक्तप्रकारेण अनेकार्थेषु शब्देषु सत्सु केन पुरुषेण प्रमाणेन वा अर्थोऽयं निर्दिश्यमानो विवेचितः पृथक्कृतः येन वित्रन (विवेचनेन ) वक्त्रभिप्राय एव नान्यः स्यादर्थः न केनचित् इत्यर्थः । एतेन [२६५ ख] पत्रमपि चिन्तितम् । अथ कदाचिद् अर्थाभावेऽपि वृत्तेः अनर्थकाः शब्दाः ? इत्यत्राह - क्वचित् न सर्वत्र विसं - वादात् वञ्चनात् । कैः ? इत्याह- शब्दैः संवादेऽपि बहुलं शब्दैः इत्यपेक्षम् (क्ष्यम्) स्वयम् आत्मना बौद्धेन अनाश्वासे क्रियमाणे किं स्वल्पकल्पनया । किंभूतया ? इत्याह- शब्दानां विकल्पानां व्यभिचारस्य चोदनं यस्यां तया । तर्हि किं कुर्यात् परः ? इत्याह - ज्ञानमेव विकल्पानाम् अनन्तरं निर्देशात् ज्ञानशब्देन 'दर्शनम्' इह गृह्यते, तदेव, न शब्दविकल्पानाम्, तत्प्रतिक्षेपेणैव तत्प्रतिक्षेपणात् ' तन्मूलत्वात्तेषामिति मन्यते । किन्न प्रतिक्षिपेत् ? बहि: प्रतिक्षिपेदेव तस्य स्वनादौ अर्थाभावेऽपि दर्शनात् इत्येके । येन स्वसंवेदनेन ज्ञानं 'ज्ञानम्' इति भवति तत् 'ज्ञानम्' इत्युच्यते, तदेव किन्न प्रतिक्षिपेत् १ द्वयनिर्भासवत् तत्रापि " अनाश्वासात् । एतदेव दर्शयन्नाह - [ शक्यं हि वक्तुम् 1 २० ३२६ सिद्धिविनिश्चयटीकायाम् [ ५ वादसिद्धिः शव्याप्तिरिति ; न ; परापेक्षया एवमभिधानात् । 'परो हि सत्त्वादीनां पक्षधर्मत्वं तदंशव्याप्तिं च [ अभ्युपगच्छति ] कुतोऽनेकान्तवादिनस्तस्य [२६५] प्रमाणता ? ते न कचित् सत्त्वादिसंभवः इति असिद्ध उच्यते, अनेकान्त एव वा अस्य तवोद्विराद्ध : (संभवाद्विरुद्ध:) कल्पितस्य क्षणिकै - कान्तवद् अक्षणिकैकान्तेऽपि व्यभिचारी इति यद्वक्ष्यति २५ *" असिद्धः सिद्ध से न स्य विरुद्धो दे व न न्दि नः । द्वेधा समन्तभद्रस्य हेतुरेकान्तसाधने ||" [सिद्धिवि० परि० ६] इति । ततः परपरिकल्पितात् कार्यादेः अपरे कार्यादयो मरणादौ साध्ये अरिष्टादयः हेत्वाभासान [ हेतवः ] 'भवन्ति' इत्यध्याहारः । कुतः ? इत्याह- अविनाभावनियमात् । अस्यैव व्याख्यानं तत इत्यादि । (१) बौद्धः । (२) बौद्धस्य । ( ३ ) सम्भवात् । ( ४ ) भाविकारणवादिप्रज्ञाकरकल्पिताः । (५) वैशेषिककल्पिताः । (६) पत्रवाक्यं ह्यनेकार्थं भवति । ( ७ ) व्यभिचारचोदनया । (८) दर्शनमूलत्वात् विकल्पानाम् । (९) प्रतिभासाद्वैतवादिनः । (१०) स्वसंवेदनेऽपि । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686