Book Title: Siddhi Vinischay Tika Part 01
Author(s): Anantviryacharya
Publisher: Bharatiya Gyanpith

Previous | Next

Page 639
________________ ३२४ सिद्धिविनिश्चयटीकायाम् [५ वादसिद्धिः इत्याह-साध्य इत्यादि । वस्तुनो विकल्पाः ततः तद्वचनमिति मन्यते । अनेन पूर्वार्धं समर्थितम्। एवं तावत् लिङ्गलिङ्गिविकल्पानां केषाञ्चिद् बहिरर्थविषयत्वप्रतिपादनेन तज्जन्मनोऽभिधानस्यापि तद्विषयत्वं प्रतिपादितम् । संप्रति विवक्षाप्रभवत्वेन तस्य [२६३ख] तद्विषयत्वं परेण यदुक्तं तत्पूर्वपक्षयित्वा निराकुर्वन्नाह-विवक्षा इत्यादि । [विवक्षाप्रभावं वाक्यं स्वार्थे न प्रतिवध्यते । तत्सूचितेन लिङ्गेन कथं तत्त्वव्यवस्थितिः ॥५॥ वक्त्रभिप्रायमात्र वाक्यं सूचयतीत्यविशेषेणाक्षिपन् पारम्पर्येणापि न ततस्तत्त्वं प्रतिपद्येत । न च वक्त्रभिप्रायमेकान्तेन सूचयन्ति श्रुतिदुष्टादेः अन्यत एव प्रसिद्धः। *"पक्षधर्मस्तदंशेन व्याप्तो हेतुस्विधैव सः। अविनाभावनियमात् हेत्वाभासास्ततोऽपरे॥" [हेतुवि० श्लो० १] इत्यादिना स्वयमनभिमतस्यापि वस्तुनः प्रतिपत्तेः। तथा अनेकार्थेषु केनार्थोऽयं विवेचितः येन वक्त्रभिप्राय एवार्थः । शब्दैः क्वचित् विसंवादात् स्वयमनाश्वासे किं शब्दविकल्पव्यभिचारचोदनया स्वल्पकल्पनया, ज्ञानमेव किन्न प्रतिक्षिपेत् ? ] १५ विवक्षैव प्रभवः कारणं यस्य 'प्रभवति अस्मात्' इति व्युत्पत्तेः, विवक्षाया वा प्रभवो यस्य, ततः प्रभवति इति वा यत् तथोक्तम् । किम् ? इत्याह-वाक्यम् । तत् किन्न क्रियते ? इत्याह-न प्रतिबध्यते । क ? इत्याह-स्वार्थे स्व आत्मीयो वादिनो हेतुरूपोऽर्थः तस्मिन् , इति काका अर्थोऽत्र द्रष्टव्यः । अत्रोत्तरमाह-तेन वाक्येन यत् सूचितं तेन । केन ? लिङ्गन विवक्षा विकरूपारूढा इति मन्यते । अन्यस्य तेन सूचनस्य परैः अनभ्युपगमात् कथं न कथश्चित् २० तत्त्वस्य व्यवस्थितिः इष्टस्य [क्षण]क्षयादेः । एतदुक्तं भवति यत् तेन विकल्पारूढं लिङ्ग सूचितं न तस्य तत्त्वे प्रतिबन्धः, यस्यं च तत्र प्रतिबन्धो न तत्तेन सूचितम् । न च अन्यस्य सूचने अन्यत्र प्रतिपत्तिः प्रवृत्तिर्वा, अन्यथा स्व (अश्व)शब्देन अश्ववचने गवि साँ भवेत् । अथ तदारूढेण प्रयोजनाऽसिद्धेः “अन्यत्र सा भवेत् ; तन्न; अतिप्रसङ्गात् । यदि पुनः तत्त्वतस्तेन सूचनेऽपि भ्रान्त्या [त्रि] रूपं लिङ्गं सूचितमिति प्रतिपत्तिः ; सापि न युक्ता ; अविषये भ्रान्तेरपि २५ प्रतिपत्तेरयोगात् , इतरथा ततः अश्वशब्दात् गवि प्रतिपत्तिः स्यात् । असादृश्यान्नेति चेत् ; किं पुनः विकल्पाकार-अर्थस्वभावयोः सादृश्यमस्ति ? तथा चेत् ; प्रत्यक्षवद् विकल्पानामर्थविषयत्वं केन वार्यते ? प्रत्यक्षस्यापि सर्वथा तदभावात् । यस्तु मन्यते-'तदभावेऽपिआन्तरोपप्लववशात् तथाप्रतिपत्तिः' इति ; सापि न [२६४ क] तत्त्वदृष्टिः; यतः यद् यत्कार्य तत् तदेव गमयति प्रतिबन्धात् , यथा धूमः अग्निम् , विवक्षाकार्य (6) बहिरर्थविषयत्वम् । (२) शब्दस्य । (३) बौद्धेन । (१) "शब्देऽप्यभिप्रायनिवेदनात् ॥३॥ "वक्तृव्यापारविषयो योऽर्थो बुद्धौ प्रकाशते । प्रामाण्यं तत्र शब्दस्य नार्थतत्त्वनिबन्धनम् ॥४॥'-प्र० वा. १॥३-४ । (५) शब्देन । (६) वस्तुभूतार्थस्य । (७) प्रतिपत्तिः । (८) वस्तुभूतेऽर्थे । (९) सादृश्याभावात् । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686