________________
३२४ सिद्धिविनिश्चयटीकायाम्
[५ वादसिद्धिः इत्याह-साध्य इत्यादि । वस्तुनो विकल्पाः ततः तद्वचनमिति मन्यते । अनेन पूर्वार्धं समर्थितम्।
एवं तावत् लिङ्गलिङ्गिविकल्पानां केषाञ्चिद् बहिरर्थविषयत्वप्रतिपादनेन तज्जन्मनोऽभिधानस्यापि तद्विषयत्वं प्रतिपादितम् । संप्रति विवक्षाप्रभवत्वेन तस्य [२६३ख] तद्विषयत्वं परेण यदुक्तं तत्पूर्वपक्षयित्वा निराकुर्वन्नाह-विवक्षा इत्यादि ।
[विवक्षाप्रभावं वाक्यं स्वार्थे न प्रतिवध्यते ।
तत्सूचितेन लिङ्गेन कथं तत्त्वव्यवस्थितिः ॥५॥ वक्त्रभिप्रायमात्र वाक्यं सूचयतीत्यविशेषेणाक्षिपन् पारम्पर्येणापि न ततस्तत्त्वं प्रतिपद्येत । न च वक्त्रभिप्रायमेकान्तेन सूचयन्ति श्रुतिदुष्टादेः अन्यत एव प्रसिद्धः।
*"पक्षधर्मस्तदंशेन व्याप्तो हेतुस्विधैव सः। अविनाभावनियमात् हेत्वाभासास्ततोऽपरे॥"
[हेतुवि० श्लो० १] इत्यादिना स्वयमनभिमतस्यापि वस्तुनः प्रतिपत्तेः। तथा अनेकार्थेषु केनार्थोऽयं विवेचितः येन वक्त्रभिप्राय एवार्थः । शब्दैः क्वचित् विसंवादात् स्वयमनाश्वासे किं
शब्दविकल्पव्यभिचारचोदनया स्वल्पकल्पनया, ज्ञानमेव किन्न प्रतिक्षिपेत् ? ] १५ विवक्षैव प्रभवः कारणं यस्य 'प्रभवति अस्मात्' इति व्युत्पत्तेः, विवक्षाया वा प्रभवो
यस्य, ततः प्रभवति इति वा यत् तथोक्तम् । किम् ? इत्याह-वाक्यम् । तत् किन्न क्रियते ? इत्याह-न प्रतिबध्यते । क ? इत्याह-स्वार्थे स्व आत्मीयो वादिनो हेतुरूपोऽर्थः तस्मिन् , इति काका अर्थोऽत्र द्रष्टव्यः । अत्रोत्तरमाह-तेन वाक्येन यत् सूचितं तेन । केन ? लिङ्गन विवक्षा विकरूपारूढा इति मन्यते । अन्यस्य तेन सूचनस्य परैः अनभ्युपगमात् कथं न कथश्चित् २० तत्त्वस्य व्यवस्थितिः इष्टस्य [क्षण]क्षयादेः । एतदुक्तं भवति यत् तेन विकल्पारूढं लिङ्ग
सूचितं न तस्य तत्त्वे प्रतिबन्धः, यस्यं च तत्र प्रतिबन्धो न तत्तेन सूचितम् । न च अन्यस्य सूचने अन्यत्र प्रतिपत्तिः प्रवृत्तिर्वा, अन्यथा स्व (अश्व)शब्देन अश्ववचने गवि साँ भवेत् । अथ तदारूढेण प्रयोजनाऽसिद्धेः “अन्यत्र सा भवेत् ; तन्न; अतिप्रसङ्गात् । यदि पुनः तत्त्वतस्तेन
सूचनेऽपि भ्रान्त्या [त्रि] रूपं लिङ्गं सूचितमिति प्रतिपत्तिः ; सापि न युक्ता ; अविषये भ्रान्तेरपि २५ प्रतिपत्तेरयोगात् , इतरथा ततः अश्वशब्दात् गवि प्रतिपत्तिः स्यात् । असादृश्यान्नेति चेत् ; किं
पुनः विकल्पाकार-अर्थस्वभावयोः सादृश्यमस्ति ? तथा चेत् ; प्रत्यक्षवद् विकल्पानामर्थविषयत्वं केन वार्यते ? प्रत्यक्षस्यापि सर्वथा तदभावात् ।
यस्तु मन्यते-'तदभावेऽपिआन्तरोपप्लववशात् तथाप्रतिपत्तिः' इति ; सापि न [२६४ क] तत्त्वदृष्टिः; यतः यद् यत्कार्य तत् तदेव गमयति प्रतिबन्धात् , यथा धूमः अग्निम् , विवक्षाकार्य
(6) बहिरर्थविषयत्वम् । (२) शब्दस्य । (३) बौद्धेन । (१) "शब्देऽप्यभिप्रायनिवेदनात् ॥३॥ "वक्तृव्यापारविषयो योऽर्थो बुद्धौ प्रकाशते । प्रामाण्यं तत्र शब्दस्य नार्थतत्त्वनिबन्धनम् ॥४॥'-प्र० वा. १॥३-४ । (५) शब्देन । (६) वस्तुभूतार्थस्य । (७) प्रतिपत्तिः । (८) वस्तुभूतेऽर्थे । (९) सादृश्याभावात् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org