________________
५।४]
शब्दविकल्पयोः वस्तुविषयत्वम् चेत् ; अयमपरोऽस्य दोषोऽस्तु ।
कारिकाया उत्तरार्धस्य व्याख्यानमकृत्वा सुगमत्वात् पूर्वार्धं समर्थयितुं पूर्वपक्षयन्नाह-सर्व एव [२६२ख] इत्यादि । सर्व एव कार्यहेतोः स्वभावहेतोर्वा अयं प्रतीयमानः अनुमानानुमेयव्यवहारो लिङ्गलिङ्गिव्यवहारो विकल्पारूढेन विकल्पावभासिना। केन ? इत्याह-धर्मः सत्त्वादिः धर्मी शब्दादिः तयोः न्यायः *"सर्वे भावाः स्वभावेन" [प्र०वा० ३।३९] इत्यादि *"धर्मा-५ न्तरप्रतिक्षेपाप्रतिक्षेपौ" इत्यादिश्च, तेन । तर्हि तद्विकल्पस्य वस्त्वाश्रयत्वात् तद्वयवहारः पारमार्थिकः इति चेत् ? अत्राह-न बहिरपेक्षते तद्वयवहारः । किम् ? इत्याह-सदसत्त्वम् । सत्त्वमसत्त्वं च धर्मधर्मिणोः ; इत्यपेक्षते, विकल्पस्य निर्विषयत्वादिति मन्यते । चेद् इति पराभिप्रायद्योतकः । तत्र दूषणमाह-कथं न कथंचित् अर्थादेव वस्तुभूतादेव लिङ्गात् सत्त्वधूमादेः न कल्पितात् पक्षसपक्षाऽन्यतरत्वादेः इति एवकारार्थस्य (रार्थः । अर्थस्य) अग्न्यादेः गतिः १० प्रतिपत्तिः ? इष्यते च परेण *"अर्थो हि अर्थं गमयति" इति वचनात् । कथं ततः सा न स्यादिति चेत् ? उच्यते यदा हि धर्मधर्मिविकल्पो निर्विषयः तदा धर्मी शब्दः तद्धर्माः सत्त्वादयः पक्षसपक्षान्यतरत्वादेर्नातिरिच्यन्ते इति ।
ननु उक्तमत्र धर्मधर्मितया भेद एव बुद्धिपरिकल्पितो नार्थोऽपि इति चेत् ; अत्राह-कथं च इत्यादि । धर्मधर्मिणोर्भावः तत्ता तया यो भेदः स एव बुद्धिपरिकल्पितो नार्थेप्यर्थोपि १५ (नार्थोऽपि) लिङ्गलिङ्गि [२६३क] लक्षणो न केवलं तत्तया भेद एव कथं वा न बुद्धिपरिकल्पितः किन्तु तत्कल्पित एव । कुतः ? इत्याह-विकल्पानाम् इत्यादि । इदमत्र तात्पर्यम्-उक्तविधिना न अन्तर्बहिर्वा निरंशोऽर्थः संभवति सांश च (सांशश्च) विकल्पविषयत्वात् , विकल्पानां च सौगतैः अवस्तुसंस्पर्शाऽभ्युपगमात् *"विकल्पोऽवस्तुनिर्भा[सो वि]संवादादुपप्लवः" "इति वचनात् , [न] अर्थोऽपि 'बुद्धिपरिकल्पितः' इति सम्बन्धः । पश्यतु प्रज्ञा क र स्य २० *"सर्वविकल्पातीतं प्रतिभासमात्रं तत्त्वम्" इति मतम् । तस्य सत्त्वादयः अर्थरूपतयापि विकल्पिता भवन्ति नवेति चिन्त्यमेतत् । यदि भवन्ति ; कथम् *"अर्थो हि अर्थ गमयति" इति धर्म की ति वचनम् असौ गच्छेत् ? भवन्तु तर्हि वस्तुविषयाः ते” इति चेत् ; अत्राह-वस्तु बहिरन्तश्च सांशो भावः आश्रयः कारणम् अवलम्ब्यं येषां तेषां भावात् तत्त्वात् । वस्तुविषयत्वे अङ्गीक्रियमाणे 'विकल्पानाम्' इत्यनुवर्तते, कथं केन प्रकारेण तत्त्वविषय (य) न भवेत् । २५ किम् ? इत्याह-हेतुवचनम् । किंभूतम् ? इत्याह-हेतुमन्तरेण अनुपपन्नम् । किंभूतं हेतुम् ?
(1) "तथा चानुमानानुमेयव्यवहारोऽयं सर्वो हि बुद्धिपरिकल्पतो बुद्ध्यारूढेन धर्मधर्मिभेदेनेति उक्तम्"-प्र. वा. स्ववृ० १।३। "आचार्यदिग्नागेनाप्येतदुक्तमित्याह-तथा चेत्यादि..."-प्र. वा. स्ववृ० टी. पृ०२४ । (२) "स्वस्वभावव्यवस्थितः। स्वभावपरभावाभ्यां यस्माद् व्यावृत्तिभागिनः॥” इति शेषः । (३) सत्वं धर्मस्य भसत्वं च धर्मिणः। (१) "अर्थादर्थगतेः"-प्र. वा० ४१५। (५) विकल्पात् । (६) अर्थगतिः (७) "अथोक्तम्-विकल्पोऽवस्तुनिर्भासाद् विसंवादादुपप्लवः इति ।"-प्रश० कन्द० पृ० १९० । सन्मति० टी० पृ. ५०० । स्यारत्ना०पृ०८२ । धर्मसं०पृ० १३४ । सर्वद० पृ० ४४ । (८) "विचार्यमाणं हि सकलमेव विशीर्यते नाद्वैतादपरं तत्त्वमस्ति"-प्र. वार्तिकाल० पृ० ३१ । (९) प्रज्ञाकरस्य । (१०) विकल्पाः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org