________________
५।५] शब्दविकल्पयोः वस्तुविषयत्वम्
३२५ च वाक्यम् । तथा यत् यत्कार्यं न भवति तद् भ्रान्त्यापि तन्न गमयति यथा स एव धूमः अपावकम् , अकार्यं च वाक्यम् अर्थस्य इति । यदि पुनः तथापि तया तत् तत्र बुद्धिं जनयति कुतश्चित् प्रत्यासत्तेः ; तत एव तर्हि परमार्थतः किञ्चिदकारणे ज्ञानं करिष्यति, तद्विज्ञानं च तत्र प्रमाणं स्यात् अविसंवादाभिमानिनः यथा कुञ्चिकाविवरमणिज्ञानं मणौ ।। ___ स्यान्मतम् , न वाक्यं कथञ्चिदपि अर्थे ज्ञानं जनयति विवक्षाया अन्यत्र, केवलं विकल्पा-५ न्तरमेवं जायते अतो वाक्यादर्थः प्रतीय [ते] इति ; न ; तथा क्रमप्रतीतेरभावात् पूर्वं वाक्याद् विवक्षाविकल्पः पुनः अर्थविकल्प इति । ततः स्थितम्-[तत् ] सूचितेन लिङ्गन कथं तत्त्वव्यवस्थितिः' इति ।
इदमपरं व्याख्यानम्-'विवक्षाप्रभवमपि इति 'अपि' शब्दोऽत्र द्रष्टव्यः । वाक्यं स्वार्थेन स्वाभिधेयवस्तुना प्रतिबध्यते कथम्' इति प्रश्ने तत्सूचितेन लिङ्गन तत्त्व- १० व्यवस्थितिर्यतः इत्युत्तरम् ।
___ कारिकां विवृण्वन्नाह-वक्त्रभिप्रायमात्र भवद्भिः अर्थं वाक्यं सूचयति इत्येवम् अविशेषेण आक्षिपन् क्रोडीकुर्वन् सौगतः पारम्पर्येणापि न केवलं सन्ते तो (साक्षात् ) वाक्यात् तत्त्वं साध्यं वस्तु न प्रतिपद्येत । अथ 'वाक्यात् लिङ्गम् , अतः तत्त्वम्' इति ; परार्थानुमान स्यादिति मन्यते । द्वितीयं कारिकाव्याख्यानं व्यतिरेकमुखेण अनेनैव दर्शितम् , वक्त्रभिप्राय- १५ सूचकत्वं [२६४ख] वाक्यस्याभ्युपगम्य दूषणमुक्तम् , इदानीम् एकान्तेन तदपि नास्तीति दर्शयन्नाह-नच नैव वक्त्रभिप्रायम् एकान्तेन अवश्यम्भावेन सूचयन्ति सूच्यत इत्युत (इति । कुतः ?) इत्याह-श्रुति इत्यादि । आदिशब्देन अर्थान्तरगमनपरिग्रहः। यत्रापि 'श्रुतिदृष्ट्या (श्रुतिदुष्टा) देः' इति पाठः, तत्र आदिशब्देन कल्पनादुष्टादिपरिग्रहः । श्रुतिदुष्टादेः अन्यत एव प्रसिद्धः। आदिशब्दलब्धमर्थम् उदाहरन्नाह-पक्षधर्म इत्यादि । 'पक्षो धर्मी अवयवे २० समुदायोपचारात् , तस्य धर्मः तदंशेन तस्य पक्षस्य अंशेन साध्यधर्मेण न तदेकदेशेन पक्षशब्देन समुदायावचनात् व्याप्तो व्याप्तियोगात् । व्याप्तिश्च व्यापकगता तत्र यत्रासौ साधनधर्मो भाव एवं नाभावे (वः) । व्याप्यगता तत्रैव यत्रासौ साध्यधर्मो नान्यत्र । किम् ? इत्याह-पुनः इति वितर्के हेतुरेव मनागपि [अ] हेतुर्न भवति इत्येवकारार्थः । कति प्रकारः ? इत्यत्राह-स हि स हेतुः खलु त्रिधा । कुतः ? इत्याह-विरुद्ध इत्यादि ।
____ अत्र चोद्यते-यदि पक्षधर्मः ; कथम् असिद्धः ? स्वयम् आश्रयस्य च सन्देहे असिद्धो (द्ध) वाऽसिद्ध उच्यते । न च तदा कस्यचित् पक्षधर्मता । तथा यदि तदंशेन व्याप्तः ; कथं विरुद्धोऽनैकान्तिको वा ? तदंशव्याप्तिवचनेन अन्वयव्यतिरेकयोरभिधानेन तन्निरासात् । स हि विपक्षे सन् असन् सपक्षे विरुद्धः, उभयत्र सन् संभाव्यमानो वा अनैकान्तिकः, न चास्य तदं
(१) अग्निकार्यः । (२) अकारणभूताऽर्थविषयकम् । (३) लिङ्गात् । (४) “पक्षो धर्मी अवयवे समुदायोपचारात" हेतुवि०प० ५२। (५) "व्याप्तिर्हि व्यापकस्य तन्त्र भाव एव. व्याप्यस्य वा तत्रैव भावः ।"-हेतुबि० पृ० ५३ । (६) व्यापकस्य भाव एव नाभावः कदाचन । (७) वर्तते तत्रैव व्याप्यस्य भावः । (८) विरुद्धानकान्तिकनिराकरणात् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org