Book Title: Siddhi Vinischay Tika Part 01
Author(s): Anantviryacharya
Publisher: Bharatiya Gyanpith
View full book text
________________
३२२ सिद्धिविनिश्चयटीकायाम्
[५ वादसिद्धिः पुनः न केवलं साधनात् साध्यसिद्धेः साक्षाद् अपि तु वचनवत् पारम्पर्येणापि नाऽलं साध्यप्रतिपादने न समर्था (र्थम् ) साध्य (ध्या) प्रतिपादनाद् इत्येवं परः प्राकृतशक्तिः प्राकृता प्राकृते वा शक्तिः अस्य, शक्तवत् साध्यप्रतिपादनसंभवादिति मन्यते ।
__न तु (ननु) लिङ्गस्येव साध्यस्यापि प्रतिपादने वचनस्य सामर्थ्य तत एव साध्यसिद्धेः ५ हेतुवैफल्यमिति चेत् ; अत्राह-सम्यग्विचारिता इत्यादि ।
[सम्यग्विचारिता वाक्यविकल्पास्तत्त्वगोचरम् । ___ साध्यं पश्यद्भिरज्ञ यं प्रायः प्राकृतबुद्धिभिः ॥४॥
सर्व एवायमनुमानानुमेयव्यवहारो विकल्पारूढेन धर्मधर्मिन्यायेन न बहिः सदसत्त्वमेपक्षते इति चेत् ; कथमर्थादेव लिङ्गादर्थगतिः ? कथञ्च धर्मधर्मितया भेद एव १० बुद्धिपरिकल्पितो नार्थोऽपि, विकल्पानामवस्तुसंस्पर्शाभ्युपगमात् । वस्त्वाश्रयत्वाद्वस्तुविषयत्वे कथं साध्याविनाभाविहेतुमन्तरेणानुपपन्नं हेतुवचनं तत्त्वविषयं न भवेत् ? ]
सम्यक् साध्याविनाभाविसाधनोपन्यासेन विचारिताः परीक्षिताः तत्त्वगोचरं 'नयन्तः' इति वाक्यशेषः । के ? इत्याह-वाक्यानां कार्यभूताः अर्थविकल्पाः । यदि
वा, वाक्यानि विकल्पाश्च इति ग्राह्यम् । वाक्यग्रहणं तस्यैवे केवलवर्णपदपरिहारेण व्यव१५ हारोपयोगप्रतिपादनार्थम् । विकल्पग्रहणं दृष्टान्तार्थम् । यथा उक्त विधिना सम्यग् विचारिता विकल्पाः तत्त्वगोचराः तथा वाक्यान्यपि, 'रूपादिशब्दा निर्विषय (या) विकल्पयोनित्वात्प्रधानादिशब्दवत्' इत्यत्र हेतोः असिद्धतोद्भावनार्थ वा [२६२क] ।
सर्वेण अनेन एतदुक्तं भवति-शब्दोऽनित्य इति प्रतिपाद्यमाना अपि स्वँसमयावष्टम्भाद् २० अनर्थकान्यशब्दसाधाद्वा [न] प्रतिपद्यन्ते तानुद्दिश्य हेतूपन्यास इति; तर्हि हेतोरेव साध्यसिद्धेः किं साध्यनिर्देशेनेति चेत् ? अत्राह-'प्रायः' इत्यादि। प्रायो बाहुल्येन क्षणिकत्वादिरूपेण न शब्दादिस्वभावेन यच्छब्दादि साध्यम् अनुमेयम् तदज्ञयम् अपरिच्छेद्यम् । कैः ? इत्याह-प्राकृतबुद्धिभिः सौगतैः । तेषां ज्ञानं सर्वमविकल्पम् , विकल्पस्यापि स्वरूपवद् बहिरपि एत्तेः (निर्विकल्पकत्वापत्तेः) एकस्य रूपद्वयविरोधात् । किं कुर्वद्भिः ? इत्याह२५ पश्यद्भिः इन्द्रियाणि तत्र व्यापारयद्भिः, इन्द्रियग्राह्यं न भवेदित्यर्थः ।
____एतदुक्तं भवति-यथा हेतोः सिध्यति साध्ये तत्प्रतीत्यर्थं वक्त्रविग्रहमावहति तथा चक्षुरादिव्यापारोऽपि दृष्टुः अविशेषात् । को हि विशेषो येन इन्द्रियमनर्थकं दोषाय, अपि तु वचनमेव । यदि पुनः लिङ्गाद् गम्यमानेऽप्यर्थे नेन्द्रियव्यापारा स्किरतं (व्यापारतिरस्कारः
तद्) बुद्ध्युत्पत्तावपि नापरापरस्य तस्य वैफल्यं स्यात् । अथ धर्मिमात्रे तत्साफल्यान्नायं दोषः; ३० क्षणिकत्वादिधर्मे स्यात् । एकत्र गुणः सर्वत्र गुणं करोति न दोषो दोषमिति चिन्त्यमेतत् । ततोऽस्मादोषाद् बिभ्यता प्रतिज्ञावचनमिव इन्द्रियमपि तत्र परिहरणीयम् । धर्म्यसिद्धिः स्यादिति
(१) वचनादेव। (२) वाक्यस्यैव । (३) सांख्याभिमत । (४) स्वमताग्रहात् । (५) एकस्य विकल्पस्य स्वरूपे निर्विकल्पकत्वं बहिरर्थे च विकल्पकत्वमिति रूपद्वयं न संभवति विरोधादित्यर्थः । (६) सति । (७) इन्द्रिव्यापारस्य ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686