Book Title: Siddhi Vinischay Tika Part 01
Author(s): Anantviryacharya
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 635
________________ ३२० सिद्धिविनिश्चयटीकायाम् [५ वादसिद्धिः 'वक्त्रभिप्राय' इत्यादिना परमतमाशङ्कते दूषयितुम् । वक्तः साधनादिवादिनः अभिप्रायः साधनादिविकल्पः सूच्यते अभिलप्यते येन तत्सूचनम् अभिधानं तयोः समाहारलक्षणो द्वन्द्वः तस्य सर्वत्र साधनादिसद्भाववत् तदभावेऽपि अविशेषात् । एतदपि कुतः ? इत्याह-प्रतिबन्धाभावात साधनादिभिः सह वक्त्रभिप्रायसूचनस्य तादात्म्य-तदुत्पत्तिलक्षणाऽविनाभावा [भावा] ५ त् कारणात् कथं शब्दैः उपलक्षणमेतत् , तेन विकल्पैः स्वार्थस्य साधनादिलक्षणस्य प्रतिपादनमिति चेत् ; अत्र परस्य स्ववचनविरोधं दर्शयितुं कारिकां नोपनेयम् इत्यादिकामाह [नोपनेयं वचित किञ्चिदसिद्धं नापनीयते ।। वाचाऽङ्ग सूच्यते चेति वक्ता कथमनाकुलः ॥३॥ शब्दाः कथं कस्यचित् साधनमिति वन् कथमवधेयवचनः ? तत्कृतां तत्त्वसि१० द्विमुपजीवतीति साधनाङ्गवचनाद् भूतदोषोद्भावनाद्वा । शंक्तस्य सूचनं हेतुवचनं स्वयमशक्तमपि, साध्योक्तिः पुनः पारम्पर्येण नालमिति परः प्राकृतशक्तिः।] कचित् शब्दादिधर्मिणि किञ्चिद् असिद्धम् अनित्यत्वादिकं नोपनेयं नोपढौकनीयम् । [२६०ख] कया ? वाचा अनित्यत्वशब्देन, साधनानर्थक्यम् अन्यथेति मन्यते । तत एव कुतश्चित शब्दादेः किञ्चित् नित्यत्वादिकं नापनीयतेन निराक्रियते वाचा 'न नित्यः' १५ इति चचनेन । तदुक्तं वि नि श्च ये-*"ते तर्हि कचित् किञ्चिद् उपनयतोऽपनयतो वा कथं कस्यचित् साधनम्" इति । किं तर्हि तया क्रियते ? इत्याह-वाचाऽङ्ग लिङ्गं सूच्यते च *"परार्थं तु अनुमानं स्वदृष्टार्थप्रकाशनम्" [प्र. वार्तिकाल० ४।१ ] इति वचनाद् इत्येवं यो वक्ता स कथम् अनाकुलः आकुल एव पूर्वापरविरुद्धाऽभिधानात् । 'वाचा' इति उपलक्षणम् , तेन विकल्पेनापि 'सूच्यते च' इति वा उपलक्षणम् , तेन व्यवसीयते च । २० कारिकां विवरीतुमाह-शब्दा इत्यादि । शब्दाः कथं न कथञ्चित् कस्यचित् साधनम् इत्येवं ब्रुवन् सौगतः कथमवधेयवचनः ? कुतः ? इत्याह-तत्कृतां शब्दकृतां तत्त्वस्य सिद्धि निर्णीतिम् उपजीवति इति हेतोः । एतदपि कुतः इत्याह-सिद्धिः साधनं तस्य अङ्ग निमित्तम् त्रिरूपं लिङ्गम् ; साध्यते अनेन इति वा साधनम् , अस्यां पक्षधर्मत्वादेः (दिः) अवयवः तस्य वचनात् प्रतिपादनात् 'शब्दैः' इति विभक्तिपरिणामेन सम्बन्धः । भूतस्य विद्यमानस्य दोषस्य २५ असिद्धादेः उद्भावनाद्वा । इदमत्र तात्पर्यम्-साधनदूषणवचनेन तदप्रतिपादने साधनाङ्गस्य अव चनाद् दोषस्य च अनुद्भावनाद् अनर्थकवचनाच्च निग्रहप्राप्तिः तद्वक्तुः । प्रतिपादने अयं दोषः अनुषङ्गी इति । (१) तुलना-"तत्कृतां वस्तुसिद्धिमुपजीवति न तद्वाच्यतां चेति स्वदृष्टिरागमात्रमनवस्थानुषङ्गात् ।" -अष्टश. अष्टस. पृ० १३० । (२) पूर्वपक्ष:-"साध्याभिधानात् पक्षोक्तिः पारम्पर्येण नाप्यलम् । शक्तस्य सूचकं हेतुवचोऽशक्तमपि स्वयम् ॥"-प्र० वा० ४११७ । (३) वाचा । (४) "स्वेन दृष्टं स्वदृष्टं वादिप्रतिवादिभ्यां प्रतिपाद्यप्रतिपादकाभ्यां स्वदृष्टस्येत्यर्थः। यदि प्राश्निकाः तेषामधिकारात् । विप्रतिपत्तिनिरासस्तु सामर्थ्यादेव प्रसिद्धः । प्रकाश्यतेऽनेन स्वप्रतीतोऽर्थः परं प्रति। तच्च कायवाग्विज्ञप्तिरूपम् । तत्र स्वदृष्टोऽर्थः त्रिरूपं लिङ्गम् ।"-प्र. वार्तिकाल० ४।१ । (५) सिद्धौ । (६) साधनदूषणरूपपदार्थाकथने । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686