Book Title: Siddhi Vinischay Tika Part 01
Author(s): Anantviryacharya
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 633
________________ सिद्धिविनिश्चयटीकायाम् [ ५ वादसिद्धिः एतेन जातिरपि व्याख्याता । का पुनरियं जातिः ? " साधर्म्य वैधर्म्याभ्यां प्रत्यव - स्थानं जातिः " [ न्यायसू० १।२।१८] तत्र प्रत्यवस्थानं जातिः इति जातेः सामान्यलक्षणम् । प्रेक्षणं प्रत्यवस्थानम् प्रत्यवस्थानमात्रं ( नमत्र ) प्रतिषेधाभास इत्येके; तदसत्यम् ; प्रत्यवस्थानशब्दस्य उत्तरसामान्यवचनस्य तदाभासे' असत्य (त्या) र्थादौ वृत्तिविरोधात् । न चात्र तदस्ति । ५ ३१८ यत्पुनरत्रोदाहरणमुक्तम्–'अनित्यः शब्दः कृतकत्वात् घटादिवत्' इत्युक्ते वैशेषिकेण; कश्चिदाह-यथा घटेऽनित्यत्वे सति कृतकत्वं दृष्टं तथा औकाशगुणत्वाभावेऽपि तत इदमपि प्रसक्तम्- 'न आकाशगुणः शब्दः कृतकत्वात् घटवत्' इति ; प्रत्यवस्थानमात्रमेतत् ; कथम् ? अप्रस्तुताकारत्वानागुणत्वबाधनेपि अतिन्य (अप्रस्तुताकाशगुणत्वबाधनेऽपि अनित्य ) त्वाबाधनात् । आगमबाधोऽपि इत्येके । तन्न वैशेषिकस्य सुभाषितम् आगमबाधने सर्वत्र १० * ' आगमः प्रतिज्ञा " [ न्यायभा० १|१|१] इत्यस्य विरोधात् । न च विभागेन तदाअन्यत्रापि अनाश्वासापत्तेः । अनेन पूर्वहेतोर्व्याप्ते रखण्डनात् तन्मात्रम् इत्यपरे ; तेषामखण्डितप्राप्तिका ( व्याप्तिकात्) प्रकृतसाधनसमर्थात् [ प्रा] क्तनादेव हेतोः जयेतरव्यवस्थानात् नेदं निग्रहस्थानम्, इतरथा तद्वैफल्यम् । द्वाभ्यां निग्रहेऽपि उक्तम् । [२५९क] कथं वा अनेन तद्व्याप्तेः अखण्डनम् यावता घटादौ आकाशगुणत्वाभावसहचरितस्य कृतकत्वस्य वचनेऽपि यदि तेतेन (ते न ) तद्वयाप्तिः अनित्यत्वेनापि न स्यात् इत्येवं तत्र प्रतिवादिनः अभिप्रायात् । पव (न च) वैशेषिकस्य सहदर्शनाद् अन्यद् व्याप्तिसाधकमस्ति । गमत्वम् ; 1 १५ यत्पुनरुक्तम्- आकाशाऽप्रतिपत्तौ अप्रसिद्धविशेषणः पक्षः, शब्दगुणात् तत्प्रतिपत्तौ न तत्प्रतिषेध इति आकाशगुणत्वाभावेन न कृतकत्वस्य व्याप्तिः इति न पूर्वसमानता इति; तन्न युक्तम् ; यतः आकाशस्य प्रतिपत्तावपि 'न शब्दात् प्रतिपत्तिः' इति निरूपयिष्यते, ततो यत्कि - २० ञ्चिदेतत् । तस्य विभागार्थम् *"साधर्म्य वैधर्म्याभ्याम् " [ न्यायसू० १।२।१८] इत्येतत् । साधर्म्येणोक्ते हेतौ प्रत्यवस्थानं दर्शयति भाष्यकार : -*" उदाहरणसाधर्म्यात् साध्यसाधनं हेतुः” [न्यायसू० १।१।३५] इति, अस्य उदाहरणवैधर्म्येण प्रत्यवस्थानं 'जाति:' इति शेषः । `तत्र उदाहरणम् -'क्रियावान् आत्मा क्रियाहेतुगुणयोगत्वात् लोष्टवत्' इति । अत्राह परः- यदि २५ क्रियावद्द्रव्यसाधर्म्यात् क्रियाहेतुगुणसम्बन्धात् तथा आत्मा साध्यते; तर्हि तद्रव्यभु (तद्वद् (१) ( एतदन्तर्गतः पाठो द्विर्लिखितः । (२) उत्तराभासे । ( ३ ) यतो न घटः आकाशगुणः । (४) जातेः । ( ५ ) " साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानं जातिः । " - न्यायसू० १ | २|१८ । ( ६ ) " साधर्म्येणोपसंहारे साध्यधर्मविपर्ययोपपत्तेः साधर्म्येणैव प्रत्यवस्थानमविशिष्यमाणं स्थापनाहेतुतः साधर्म्य समः प्रतिषेधः । निदर्शनं क्रियावानात्मा द्रव्यस्य क्रियाहेतुगुणयोगात् । द्रव्यं लोष्टः क्रिया हेतुगुणयुक्तः क्रियावान् तथा चात्मा तस्मात् क्रियावानिति । एवमुपसंहृते परः साधर्म्येणैव प्रत्यवतिष्ठते निष्क्रिय आत्मा विभुनो द्रव्यस्य निष्क्रियत्वात् । विभुच आकाशं निष्क्रियं च, तथा चात्मा, तस्मान्निष्क्रियः इति । न चास्ति विशेषहेतुः क्रियावत्साधर्म्यात् क्रियावता भवितव्यं न पुनरक्रियसाधर्म्यान्निष्क्रियेणेति विशेषहेत्वभावात् साधर्म्यसमः प्रतिषेधो भवति । " - न्यायभा० ४|१| २ | (७) क्रियाहेतुगुणः अदृष्टम् । (८) क्रियावान् । $ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686