Book Title: Siddhi Vinischay Tika Part 01
Author(s): Anantviryacharya
Publisher: Bharatiya Gyanpith

Previous | Next

Page 631
________________ सिद्धिविनिश्चयटीकायाम [५ वादसिद्धिः गेऽपि तदुद्भावनसंभवादिति । एवमसौ निवारणीयो न तावता निग्रहणीयः, समीचीनसाधनप्रयोगवैफल्यम् अन्यथा स्यादिति । भावे च सकृत् जयपराजयौ वादिनः । किं पुनरेवंवादिना तदुद्भावनं न कर्त्तव्यम् ? 'न निग्रहबुद्ध्या प्रकृतदोषात् अपि तु निवारणबुद्ध्या' इति ब्रूमः । अनुद्भावने को दोषः ? न कश्चित् , यदि हेतुं समर्थयते । 'निग्रहः' इत्यपरे; तदसाम्प्रतम् ; ५ यतः प्रतिवादिप्रयुक्तछलानुद्भावनं [२५७क] वादिनः पराजयाधिकरणं यदि स एव 'मया प्रयुक्त छलं कृपया (त्वयाँ) नोद्भावितमितिपर्यनुयोज्योपेक्षणात् निगृहीतोऽसि' इति व्यवस्थापयेत् ; तर्हि तस्यैवं तदुद्भावने" स्वयं स्वदोषोद्भावनात् । अस्ति वा स्वभावतदुद्भावनावस्थयोः विशेषः ? दृश्यन्ते हि स्वयम् उद्भावितेनापि दोषेण निगृह्यमाणाः चौरप्रभृतयः । *"को हि स्वं कौपीनं विवृणुयात्" इति "वचनात् स्वयं तदुद्भावनायोगाच्च । अथ सभ्याः" तेतर्हि यथा तदनुद्भावनं १० तस्य पराजयं व्यवस्थापयति (न्ति) तथा समीचीनसाधनवचनं जयमपि व्यवस्थापयन्तु । सह जयेतरौ स्यातामिति चेत् ;"जाल्पिकस्यैव अयं दोषोऽपरोऽस्तु । अथ तदनुद्भावनदोषैः न साधनसमीचीनता स्यात्, सं दोषोऽपि मा भूत् ; अहो मध्यस्थाः प्राश्निकाः यदल्पदोषेण महागुणमपि साधनमसमीचीनं मन्यन्ते, न पुनः तद्गुणेन अल्पदोषम् 'अदोषम्' इति । तन्न आद्यपक्षे समीचीनसाधनप्रयोगपुरस्सरे छलोद्भावने वादी परं विजयत इति । १५ नापि द्वितीये, द्वयोः समत्वात् कस्य विजयः ? अपरस्यापि पराजयो वा स्यात् ? यथैव प्रतिवादिनः छलप्रयोगो दोषः तथा वादिनः साधनाभासप्रयोगः । वदि प्रतिवादी "तदुद्भावयेत् तथैव, अन्यथा से' एव पराजयवान् स्यात् यदि वादी जयवान् न चेत् , तयोः परस्परापेक्षत्वात्। भवति इति चेत् ; तत्र प्रतिवादिनः पर्यनुयोज्योपेक्षणमनुद्भाव्यते; तर्हि सोऽपि वा नो दोषमनु द्भाव्य जयति इति पुनरपि सकृत् जयेतरौ । यदि उद्भाव्य; वादी एव जीयते इत्युक्तं स्वदोष२० [२५७ख] प्रकाशनात् । अथ प्रानिकाः वादिदोषानुद्भावनं (ने) प्रतिवादिनो निग्रहं कल्पयन्ति; ते एव वादिनः साधनाभासवचनेन प्रतिवादिनः छलवचनेने' इति तदवस्था युगपद् द्वयोर्जयेतरव्यवस्था । अथ तयोः परस्परदोषोद्भावनं प्रतीक्ष्य जयेतरव्यवस्था ते" विरचयन्ति; "तदनुद्भावने का वार्ता ? "तयोः साम्येन व्यवस्थापनमिति चेत् ; कुत एतत् ? अन्यतरस्यापि पक्षाऽसिद्धरिति चेत् ; तदुद्भावनेऽपि तदेवं अस्तु विशेषाऽभावात् , अन्योऽन्यदोषोद्भावनविशेषभावेऽपि प्रकृत२५ तत्त्वाऽपरिसमाप्तेः । नापि प्रत्येकं जयेतरप्राप्तिपरिहारः । (१) छलोद्भावन । (२) अनेकार्थकशब्दप्रयोगमात्रेण । (३) छलोद्भावनम् । (१) नैयायिकाः । (५) तदा स्यात् यदा। (६) प्रतिवादी। (७) प्रतिपादिना। (6) वादिना । (९) "निग्रहप्राप्तस्यानिग्रहः पर्यनुयोज्योपेक्षणम् ।" -न्यायसू० ५।।२१। निग्रहस्थाने कृतेऽपि 'निगृहीतोऽसि' इति अवचनात् । (१०) प्रतिवादिन एव । (११) स्वकृतछलाद्युद्भावने । (१२) तुलना-"एतच्च कस्य पराजय इत्यनुयुक्तया परिषदा वचनीयम् , न खलु निग्रहं प्राप्तः स्वकौपीनं विवृणुयादिति ।"-न्यायभा० ५।।२१ । (१३) वादिनः छलाद्यनुदावनमुद्भावयन्ति । (१४) वादिनः। (१५) छलादिप्रयोगं जल्पे स्वीकुर्वतो नैयायिकस्य । (१६) तर्हि । (१७) छलाद्यनुद्भावनम् । (१८) साधनगुणेन । (५९) दोषः। (२०) साधनाभासमुद्भावयेत् । (२१) प्रतिवादी । (२२) जय-पराजययोः । (२३) निग्रहं कल्पयन्तु । (२४) प्राश्निकाः । (२५) दोषानुभावने । (२६) वादिप्रतिवादिनोः । (२७) साम्येन व्यवस्थापनमस्तु । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686