Book Title: Siddhi Vinischay Tika Part 01
Author(s): Anantviryacharya
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 632
________________ ५।२] छलादीनामसदुत्तरत्वम् किञ्च, साधनाभाव(स)वादिना परस्य छले समुद्भाविते किं तस्य तद्वादिना (ता) नष्टा येन जयं व्यवस्थापयन्ति ? तदुद्भावनेन तिरोधानानुष्ठा (नान्नष्टा) इति चेत् ; तदुद्भावनमपि साधनदोषेस (ण) तिरोधानान्नष्टमिव किन्न स्यात् ? एवमेतत् , सै दोषो यदि प्रतिवादिनोद्भायोतान भावने (नोद्भाव्येत । अनुद्भावने) किं स्यात् प्रतिवादिनः ? सतोऽपि दोषस्याऽनुद्भावनं निग्रह इति चेत् ; तस्य तद्दयां (तद्वयं) प्रसक्तम् तन्न वा, अन्यतरं दोषमुद्भाव्य वादिनो जय-५ मिच्छतः अंशेन पर्यनुयोज्योपेक्षणप्रसक्तिः। उभयदोषप्रकाशनेऽप्युक्तम् । एकप्रकाशने नवरि [द्वि]तीयप्रकाशनमिति तत्तच्छलवादिन (नं नि) गृह्णाति ।। ननु यदा छलवादी दोषमुद्भावयति तदा का गतिः ? सकृजयेतरप्राप्तिः । यदि वादी छलमुद्भावयेदिति चेत् ; तथा वादिनोऽपि तत्प्राप्तिप्रकाशनेऽपि तस्य दोषद्वयमायातम् , छलाप्रकाशं साधनाभासवचनं च । तत्र च चिन्तितं [२५८क दूषणमनन्तरमेव । तस्मात् न साधनाभास- १० वाद्यपि छलवादिनं विजयते । एतेन पूर्वपक्षवादी छलं वदन् परेण जीयते इति मतं चिन्तितम् , प्रकृतविकल्पद्वये तथैव दोषात् । ननु छलं त्रिविधम्-वाक्छलम् , सामान्यछलम् , उपचारछलं चेति । तत्र आद्यस्य व्याख्यानम्-स्वत्रम् (स्वयम्) *"अविशेषाभिहितेऽर्थे वक्तुरभिप्रायाद् अर्थान्तरकल्पना वाक्छलम्" [न्यायसू० १।२।१२] अस्यायमर्थः-अविशेषेण प्रत्यग्र-संख्याविशेषवाचिसामान्य- १५ शब्देन अभिहितेऽर्थे 'नवकम्बलत्वात्' इति हेतोः वक्तुरभिप्रायात् तदा उक्त (तदुक्त) प्रत्यग्रकम्बलाप्तदि (लात् यत् ) अर्थान्तरस्य नवसंख्योपेतार्थस्य कल्पना वाक्छलम् । यथा हि 'एषः नवकम्बलत्वात्' इत्युक्ते 'कुतोऽस्य एककम्बलस्य नव कम्बलाः' इति वचनम् । सामान्यछलव्याख्यानसूत्रम्-*"संभवतोऽर्थस्य अतिसामान्ययोगादसद्भूतार्थ कल्पना सामान्यछलम्" [न्यायसू० १।२।२३] संभवतः श्रूयमाणस्य अर्थस्य अँतिसामान्य-२० योगात् अनैकान्तिकसामान्ययोगाद् असद्भूतार्थकल्पना तस्य अनेकस्य सामान्यस्य अहेतोः हेतुत्वकल्पना तया वचन व्याख्यातः (विघातः) स नो (सामान्य)छलम् । यथा 'ब्राह्मणोऽयं विद्याचरणसम्पन्नः' इत्युक्ते कश्चिदाह-'संभवति ब्राह्मणे विद्याचरणसम्पद्' इति तत्स्तुतिः । तत्रापरः प्राह-यदि ब्राह्मणत्वं तत्सम्पदो हेतुः ज्ञापकः कारको वाऽस्य; जातोऽपि (ब्रात्योऽपि) द्विजः "तत्सम्पन्नः स्यादिति । २५ - उपचारछलव्याख्यानम्-*"धर्मविकल्पनिर्देशे अर्थसद्भावप्रतिषेध उपचारछलम्" [न्यायसू० १।२।१४] अयमत्रार्थः-उपचरितार्थाभिधाने [२५८ख] प्रधानार्थकल्पनया वचनव्याघातः तच्छलमिति । यथा 'मञ्चाः क्रोशन्ति' इत्युक्ते 'न मञ्चाः क्रोशन्ति किन्तु तद्गताः पुरुषाः' इति । तदेतत् त्रिविधमपि छलं छलमात्रम् न निग्रहाय उक्तवत् । (१) साधनाभासवादिता (२) छलोद्भावनमपि । (३) साधनाभासदोषः । (४) अथवा किमपि न स्यादिति भावः। (५) "तत् त्रिविधं वाक्छलं सामान्यछलमुपचारछलं चेति ।"-न्यायसू० ११२।११।६) प्रत्यग्रं नृतनम् । (७) "यद्विवक्षितमर्थमाप्नोति च अत्यति च तदतिसामान्यम् । यथा ब्राह्मणत्वं विद्याचरणसम्पदं क्वचिदाप्नोति क्वचिदत्यति।"-न्यायभा. १२।१३ । (८) ब्राह्मणस्य प्रशंसा । (९) असंस्कृतोऽपि । (१०) विद्याचरणयुक्तः । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686