________________
५।२]
छलादीनामसदुत्तरत्वम् किञ्च, साधनाभाव(स)वादिना परस्य छले समुद्भाविते किं तस्य तद्वादिना (ता) नष्टा येन जयं व्यवस्थापयन्ति ? तदुद्भावनेन तिरोधानानुष्ठा (नान्नष्टा) इति चेत् ; तदुद्भावनमपि साधनदोषेस (ण) तिरोधानान्नष्टमिव किन्न स्यात् ? एवमेतत् , सै दोषो यदि प्रतिवादिनोद्भायोतान भावने (नोद्भाव्येत । अनुद्भावने) किं स्यात् प्रतिवादिनः ? सतोऽपि दोषस्याऽनुद्भावनं निग्रह इति चेत् ; तस्य तद्दयां (तद्वयं) प्रसक्तम् तन्न वा, अन्यतरं दोषमुद्भाव्य वादिनो जय-५ मिच्छतः अंशेन पर्यनुयोज्योपेक्षणप्रसक्तिः। उभयदोषप्रकाशनेऽप्युक्तम् । एकप्रकाशने नवरि [द्वि]तीयप्रकाशनमिति तत्तच्छलवादिन (नं नि) गृह्णाति ।।
ननु यदा छलवादी दोषमुद्भावयति तदा का गतिः ? सकृजयेतरप्राप्तिः । यदि वादी छलमुद्भावयेदिति चेत् ; तथा वादिनोऽपि तत्प्राप्तिप्रकाशनेऽपि तस्य दोषद्वयमायातम् , छलाप्रकाशं साधनाभासवचनं च । तत्र च चिन्तितं [२५८क दूषणमनन्तरमेव । तस्मात् न साधनाभास- १० वाद्यपि छलवादिनं विजयते । एतेन पूर्वपक्षवादी छलं वदन् परेण जीयते इति मतं चिन्तितम् , प्रकृतविकल्पद्वये तथैव दोषात् ।
ननु छलं त्रिविधम्-वाक्छलम् , सामान्यछलम् , उपचारछलं चेति । तत्र आद्यस्य व्याख्यानम्-स्वत्रम् (स्वयम्) *"अविशेषाभिहितेऽर्थे वक्तुरभिप्रायाद् अर्थान्तरकल्पना वाक्छलम्" [न्यायसू० १।२।१२] अस्यायमर्थः-अविशेषेण प्रत्यग्र-संख्याविशेषवाचिसामान्य- १५ शब्देन अभिहितेऽर्थे 'नवकम्बलत्वात्' इति हेतोः वक्तुरभिप्रायात् तदा उक्त (तदुक्त) प्रत्यग्रकम्बलाप्तदि (लात् यत् ) अर्थान्तरस्य नवसंख्योपेतार्थस्य कल्पना वाक्छलम् । यथा हि 'एषः नवकम्बलत्वात्' इत्युक्ते 'कुतोऽस्य एककम्बलस्य नव कम्बलाः' इति वचनम् ।
सामान्यछलव्याख्यानसूत्रम्-*"संभवतोऽर्थस्य अतिसामान्ययोगादसद्भूतार्थ कल्पना सामान्यछलम्" [न्यायसू० १।२।२३] संभवतः श्रूयमाणस्य अर्थस्य अँतिसामान्य-२० योगात् अनैकान्तिकसामान्ययोगाद् असद्भूतार्थकल्पना तस्य अनेकस्य सामान्यस्य अहेतोः हेतुत्वकल्पना तया वचन व्याख्यातः (विघातः) स नो (सामान्य)छलम् । यथा 'ब्राह्मणोऽयं विद्याचरणसम्पन्नः' इत्युक्ते कश्चिदाह-'संभवति ब्राह्मणे विद्याचरणसम्पद्' इति तत्स्तुतिः । तत्रापरः प्राह-यदि ब्राह्मणत्वं तत्सम्पदो हेतुः ज्ञापकः कारको वाऽस्य; जातोऽपि (ब्रात्योऽपि) द्विजः "तत्सम्पन्नः स्यादिति ।
२५ - उपचारछलव्याख्यानम्-*"धर्मविकल्पनिर्देशे अर्थसद्भावप्रतिषेध उपचारछलम्" [न्यायसू० १।२।१४] अयमत्रार्थः-उपचरितार्थाभिधाने [२५८ख] प्रधानार्थकल्पनया वचनव्याघातः तच्छलमिति । यथा 'मञ्चाः क्रोशन्ति' इत्युक्ते 'न मञ्चाः क्रोशन्ति किन्तु तद्गताः पुरुषाः' इति । तदेतत् त्रिविधमपि छलं छलमात्रम् न निग्रहाय उक्तवत् ।
(१) साधनाभासवादिता (२) छलोद्भावनमपि । (३) साधनाभासदोषः । (४) अथवा किमपि न स्यादिति भावः। (५) "तत् त्रिविधं वाक्छलं सामान्यछलमुपचारछलं चेति ।"-न्यायसू० ११२।११।६) प्रत्यग्रं नृतनम् । (७) "यद्विवक्षितमर्थमाप्नोति च अत्यति च तदतिसामान्यम् । यथा ब्राह्मणत्वं विद्याचरणसम्पदं क्वचिदाप्नोति क्वचिदत्यति।"-न्यायभा. १२।१३ । (८) ब्राह्मणस्य प्रशंसा । (९) असंस्कृतोऽपि । (१०) विद्याचरणयुक्तः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org