________________
सिद्धिविनिश्चयटीकायाम
[५ वादसिद्धिः गेऽपि तदुद्भावनसंभवादिति । एवमसौ निवारणीयो न तावता निग्रहणीयः, समीचीनसाधनप्रयोगवैफल्यम् अन्यथा स्यादिति । भावे च सकृत् जयपराजयौ वादिनः । किं पुनरेवंवादिना तदुद्भावनं न कर्त्तव्यम् ? 'न निग्रहबुद्ध्या प्रकृतदोषात् अपि तु निवारणबुद्ध्या' इति ब्रूमः ।
अनुद्भावने को दोषः ? न कश्चित् , यदि हेतुं समर्थयते । 'निग्रहः' इत्यपरे; तदसाम्प्रतम् ; ५ यतः प्रतिवादिप्रयुक्तछलानुद्भावनं [२५७क] वादिनः पराजयाधिकरणं यदि स एव 'मया प्रयुक्त छलं कृपया (त्वयाँ) नोद्भावितमितिपर्यनुयोज्योपेक्षणात् निगृहीतोऽसि' इति व्यवस्थापयेत् ; तर्हि तस्यैवं तदुद्भावने" स्वयं स्वदोषोद्भावनात् । अस्ति वा स्वभावतदुद्भावनावस्थयोः विशेषः ? दृश्यन्ते हि स्वयम् उद्भावितेनापि दोषेण निगृह्यमाणाः चौरप्रभृतयः । *"को हि स्वं कौपीनं विवृणुयात्" इति "वचनात् स्वयं तदुद्भावनायोगाच्च । अथ सभ्याः" तेतर्हि यथा तदनुद्भावनं १० तस्य पराजयं व्यवस्थापयति (न्ति) तथा समीचीनसाधनवचनं जयमपि व्यवस्थापयन्तु । सह
जयेतरौ स्यातामिति चेत् ;"जाल्पिकस्यैव अयं दोषोऽपरोऽस्तु । अथ तदनुद्भावनदोषैः न साधनसमीचीनता स्यात्, सं दोषोऽपि मा भूत् ; अहो मध्यस्थाः प्राश्निकाः यदल्पदोषेण महागुणमपि साधनमसमीचीनं मन्यन्ते, न पुनः तद्गुणेन अल्पदोषम् 'अदोषम्' इति । तन्न आद्यपक्षे
समीचीनसाधनप्रयोगपुरस्सरे छलोद्भावने वादी परं विजयत इति । १५ नापि द्वितीये, द्वयोः समत्वात् कस्य विजयः ? अपरस्यापि पराजयो वा स्यात् ? यथैव
प्रतिवादिनः छलप्रयोगो दोषः तथा वादिनः साधनाभासप्रयोगः । वदि प्रतिवादी "तदुद्भावयेत् तथैव, अन्यथा से' एव पराजयवान् स्यात् यदि वादी जयवान् न चेत् , तयोः परस्परापेक्षत्वात्। भवति इति चेत् ; तत्र प्रतिवादिनः पर्यनुयोज्योपेक्षणमनुद्भाव्यते; तर्हि सोऽपि वा नो दोषमनु
द्भाव्य जयति इति पुनरपि सकृत् जयेतरौ । यदि उद्भाव्य; वादी एव जीयते इत्युक्तं स्वदोष२० [२५७ख] प्रकाशनात् । अथ प्रानिकाः वादिदोषानुद्भावनं (ने) प्रतिवादिनो निग्रहं कल्पयन्ति;
ते एव वादिनः साधनाभासवचनेन प्रतिवादिनः छलवचनेने' इति तदवस्था युगपद् द्वयोर्जयेतरव्यवस्था । अथ तयोः परस्परदोषोद्भावनं प्रतीक्ष्य जयेतरव्यवस्था ते" विरचयन्ति; "तदनुद्भावने का वार्ता ? "तयोः साम्येन व्यवस्थापनमिति चेत् ; कुत एतत् ? अन्यतरस्यापि पक्षाऽसिद्धरिति
चेत् ; तदुद्भावनेऽपि तदेवं अस्तु विशेषाऽभावात् , अन्योऽन्यदोषोद्भावनविशेषभावेऽपि प्रकृत२५ तत्त्वाऽपरिसमाप्तेः । नापि प्रत्येकं जयेतरप्राप्तिपरिहारः ।
(१) छलोद्भावन । (२) अनेकार्थकशब्दप्रयोगमात्रेण । (३) छलोद्भावनम् । (१) नैयायिकाः । (५) तदा स्यात् यदा। (६) प्रतिवादी। (७) प्रतिपादिना। (6) वादिना । (९) "निग्रहप्राप्तस्यानिग्रहः पर्यनुयोज्योपेक्षणम् ।" -न्यायसू० ५।।२१। निग्रहस्थाने कृतेऽपि 'निगृहीतोऽसि' इति अवचनात् । (१०) प्रतिवादिन एव । (११) स्वकृतछलाद्युद्भावने । (१२) तुलना-"एतच्च कस्य पराजय इत्यनुयुक्तया परिषदा वचनीयम् , न खलु निग्रहं प्राप्तः स्वकौपीनं विवृणुयादिति ।"-न्यायभा० ५।।२१ । (१३) वादिनः छलाद्यनुदावनमुद्भावयन्ति । (१४) वादिनः। (१५) छलादिप्रयोगं जल्पे स्वीकुर्वतो नैयायिकस्य । (१६) तर्हि । (१७) छलाद्यनुद्भावनम् । (१८) साधनगुणेन । (५९) दोषः। (२०) साधनाभासमुद्भावयेत् । (२१) प्रतिवादी । (२२) जय-पराजययोः । (२३) निग्रहं कल्पयन्तु । (२४) प्राश्निकाः । (२५) दोषानुभावने । (२६) वादिप्रतिवादिनोः । (२७) साम्येन व्यवस्थापनमस्तु ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org