________________
५२]
जल्पलक्षणम्
'तेन ‘एवं त्वया स्थातव्यम् , त्वया एवं सभ्यैश्च यथावृत्तमेव अस्मि निवेदनीयम्' इत्यलङ्घनीयमाज्ञापनं कर्त्तव्यम् , तंत्र सामर्थेऽसति पुनर्न स्यात् तच्छोधनेन तत्प्रभावना इति । कुतः ? इत्याह-स्वयमेव उद्धृत्य इत्यादि । न्यायवादिनमपि न्यायं वदति इत्येवंशीलगुणमपि वादिनं प्रतिवादिनं (नां) प्रतिक्षिपतां दर्शनात् । काभ्याम् ? इत्याह-व्यापारव्याहाराभ्याम् अहोपुरुषिकया । किमर्थम् ? इत्याह-स्वयम् आत्मना वा अद्धत्य (औद्धत्य)प्रच्छादनार्थम् । ५ ननु सभ्याः तनिवारकाः, तान् उल्लङ्घयन्तं क्षिपतां दर्शनात् इति मन्यते । न्यायशास्त्रमेव तर्हि नियामकमिति चेत् ; अत्राह-छल इत्यादि । * 'वचनविघातोर्थविकल्पोपपत्त्या छलम्"
न्यायसू० १।२।१०] *"दूषणाभासास्तु जातयः" [न्यायबि० ३।१४०] *विप्रतिपत्तिरप्रतिपत्तिश्च निग्रहस्थानम्" न्यायसू० १।२।१९] एषां भेदो लक्षणं च नेह प्रतन्यते विस्तरभयाद् अन्यत्रैव तद द्रष्टव्यम् इति केचित् (कैश्चित्') तैः साधनम् उपालम्भश्च १० यस्मिन् स तथोक्तः । कोऽसौ ? इत्याह-जल्प इत्येवम् वादात् पृथगेव जल्पस्य कैश्चित् नैयायिकादिभिः लक्षणात् , [२२६ख] 'ताभ्यां तं प्रतिपक्षिपतां दर्शनाद्' इति सम्बन्धः ।
छलादीनाम् आक्रोशचपेटादिसमत्वादिति मन्यते । तथाहि-'आँढ्योऽयं नवकम्बलवत्त्वात्' इत्युक्ते स प्रतिवादी उद्भावयति 'मा अस्य नव कम्बलाः किन्तु एकः' इत्यसिद्धो हेतुरिति; तत्रेदं चिन्त्यते-किं सम्यक् साधनप्रयोगे पुरः स ए (प्रयोगपुरस्सरे) तदुद्भावने प्रतिवादिनः पराजयः, १५ विपरीते वा ? तत्राद्यपक्षे स्वपक्षसिद्ध्यैव वादी प्रतिवादिनं विजयते किमन्येन ? यदि पुनः 'द्विर्बद्धं सुबद्धं भवति' इति तदुद्भावनेनापि; तदसत्यम् ; युक्त्या निगृहीते तद्वैफल्यात् , "विषोपयोगमृते सत्तोमहि (शत्रौ नहि) तद्व्यापादनाय स्वल्पचपेटादिकं युञ्जते । कथञ्चैवं हेत्वन्तरं निग्रहस्थानं न दूषणान्तरोद्भावनम्” इति विभागः, यतो वादिनो युगपत् जयपराजयौ न स्याताम् ? तस्मात् नवकम्बलत्वादि [ति] हेत्वर्थस्य विवक्षितत्वात् नायमसिद्धो हेतुः। प्रकरणादि-२० भिश्च अनेकार्थेषु शब्देषु नियतार्थसंप्रत्ययः कर्त्तव्यः, अन्यथा सर्वशब्दानामनेकार्थत्वात् सर्वोऽपि एवं हेत्वादिः दुष्टः स्यात् 'नास्त्यत्र सीतस्यसो (शीतस्पर्शो) धूमकेतोः-शिखिनः' इत्यादि प्रयो
(१) राज्ञा । (२) आज्ञापने। (३) मार्गप्रभावना। (४) नैयायिकैः । (५) “यथोक्तोपपन्नः
तिनिग्रहस्थानसाधनोपालम्भो जल्पः'"-न्यायसू० १।२। (६) तुलना-"तत्त्वरक्षणार्थ सद्भिपहर्तव्यमेव छलादि विजिगीषुभिरिति चेत् ; नखचपेटशस्त्रप्रहारादीपनादिभिरपि इति वक्तव्यम् । तस्मान्न ज्यायानयं तत्वरक्षणोपायः ।"-वादन्या० पृ० ७।। "लकुटचपेटादिभिस्तन्न्यकारस्यापि तत्त्वाध्यवसाय. संरक्षणार्थत्वानुषङ्गात् ।"-न्यायकुमु० पृ० ३३८ । (७) "नवकम्बलोऽयं माणवक इति प्रयोगः । अत्र नवः कम्बलोऽस्येति वक्तुरभिप्रायः । विग्रहे तु विशेषो न समासे । तत्रायं छलवादी वक्तुरभिप्रायादविवक्षितमन्यार्थम्-नव कम्बला अस्येति तावदभिहितं भवता इति कल्पयति । कल्पयित्वा चासंभवेन प्रतिषेधति एकोऽस्य कम्बलः कुतो नव कम्बलाः इति ? तदिदं सामान्यशब्दे वाचि छलं वाक्छलमिति । अस्य प्रत्यवस्थानम्। सोऽयमनुपपद्यमानार्थकल्पनया परवाक्योपालम्भो न कल्पते इति ।"-न्यायभा० १॥२।१२। चरकसं० पृ. २६६ । उपायहृ० पृ० १५ । न्यायासा० पृ० १६ । न्यायकालि० पृ० १६ । (6) छलाद्युद्भावने । (९) प्रयोजनम् । (१०) प्रतिवादिनि। (११) छलादिप्रयोगवैयर्थ्यात् । (१२) "अविशेषोक्त हेतौ प्रतिषिद्धे विशेषमिच्छतो हेत्वन्तरम्"-न्यायसू० ५।२।६ । (१३) निग्रहस्थानमिति । (१४) 'अग्नेः' इत्यस्यार्थे 'शिखिनः' इति प्रयोगे क्रियमाणे कश्चित् शिखिशब्दं मयूरार्थकं मत्वा दूषयेत् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org