________________
३१४
सिद्धिविनिश्चयटीकायाम्
[ ५ वादसिद्धिः
भावात्, स्वनिश्चयवद् अन्यस्य निश्चयोत्पादनाय तद्धेतुप्रयोगात्, इतरथो गोपालवत् कुतस्तस्य जल्पे विकारः (जल्पेऽधिकारः) । एतेन प्राश्निकर्तन्निर्ण [य] पर्यन्तमिति चिन्तितम् “सिद्धान्तद्वयवेदिनः" इति वचनात् निर्ज्ञातोभयपक्षाणामेव प्राश्निकत्वात् । पार्थिवैः पुनः पार्थिव इव न सर्वः स्वयं तन्निर्णयवान् 'तँन्निर्णयपर्यन्तम्' इति च दुरवगाहम् । नापि 'प्रतिवादितन्निर्णयपर्यन्तम्' ५ इत्युपपन्नम् ; स्वदुरागमाहित दृढविभ्रमस्य प्रतिवादिनः [२५५ख ] प्रतिपद्य (पाद्य) मानस्यापि तन्निर्णय (या) योगात् । तन्न युक्तं 'पक्षनिर्णयपर्यन्तम्' इति चेत्; न सुन्दरमेतत्; यतः साध्याविनाभावि साधनप्रयोगोपन्यासाद् अपहाय प्ररूढमपि व्यामोहं प्रतिवादिनः परपक्षं प्रतियन्तः प्रतीयन्ते अभिमानिनोऽपि आतुरा इव परमौषधम् । येऽपि च केचिन्न प्रतियन्ति खलमतयः तदपेक्षया तदुपन्यासजनितः सत्यनिर्णयों [ज्ञातो ] भयकृतान्तानाम् अन्यवचनात् " प्रतिपत्तिः १० (ते) जायते, इतरथा जन्मन ( " तन्मन ) सि वादीतरगुणदोषप्रति [पत्ति ] विश्ववैधुर्यात् कुतो "निकषोपलम्भसमा (षोपलसमा ) नत्वं यतस्तदपेक्षा स्यादिति ।
किं पुनरस्य फलम् ? इत्याह - फलं 'जल्पस्य' इत्यनुवर्त्तते । किम् ? इत्याह- मार्गस्य सम्यग्ज्ञानादेः प्रभावना प्रकाशनम् ।
१७
१८
ननु तत्त्वस्य आत्मादेः अध्यवसायः कुतश्चित् स्वयं निर्णयः तस्य दस्युभ्यः सौगतादिभ्यः १५ संरक्षणं तत्फलमस्तु " तत्त्वाध्यवसायसंरक्षणार्थं जल्पवितण्डे बीजप्ररोहसंरक्षणार्थं कण्टकशाखावरणवत्" [ न्यायसू० ४/२/५० ] इति वचनादिति चेत्; यदि प्रमाणतः तत्संरक्षणम् ; अनुकूलमाचरसि प्रमाणविषये प्रवृत्तेः, तत एव " तत्प्रकाशनस्य अवश्यंभावात् । "अन्यतश्चेत् ; तन्न युक्तमिति निवेदयिष्यते । दस्यवोऽपि यदि प्रमाणतः " तन्निराकुर्वन्ति न छलादिचचनादप्रमाणकात्" तस्य " त्राणं प्राश्निकाः पक्षपातरहिताः तत्त्ववेदिनो मन्यते । यदि सप्रमाणकात्"; स्वत २० एव तद्रक्षितम्, किं तत्र छलादिप्रयासेन ? दैवरक्ता हि हिंसकाः [किंशुकाः केन रज्यन्ते नाम ] | ननु च वादिना प्रतिवादी सभ्याश्च प्रतिपादनीयाः न सभापतिः सुकुमारप्रज्ञः, ततः किं तेनें' इति ‘त्र्यङ्गं जल्पं विदुः' इत्येवास्तु [२५६क] इति चेत् अत्राह - 'वादि' इत्यादि । वादिनः प्रतिवादिप्रानिकयोः तत्त्वप्रतिपादनसामर्थ्यम् उपलक्षणमेतत् तेन ‘प्रतिवादिप्राश्निकयोः तत्त्वप्रतिपादनसामर्थ्यम्' इत्यपि गृह्यते तदन्तरेण यथैव येनैव प्रतिपाद्यप्रतीत्योः अभावप्रकारेण २५ उन्मार्गस्य एकान्तस्य शोधनेन अपसारणेन मार्गप्रभावना न संभवति वक्ष्यमाणविधिना । एवं परिषद्बलस्य राज्ञः यथार्हं यथायोग्यं सत्ये, राज्ञे वादिप्रतिवादिनं (नां) दोषनिवेदने सति
(१) तुलना - "स्वनिश्चय वदन्येषां निश्चयोत्पादनं बुधैः । परार्थं मानमाख्यातं वाक्यं तदुपचारतः ॥ " - न्यायावता० इलो० १० । ( २ ) स्वपक्षनिर्णयाभावे । (३) पक्षनिर्णय । ( ४ ) " अपक्षपतिताः प्राज्ञाः सिद्धान्तद्वयवेदिनः । असद्वादनिषेद्धारः प्राश्निकाः प्रग्रहा इव ॥ इत्येवंविधप्राश्निकांश्च प्रमेयक ० पृ० ६४९ । (५) राजा, सभापतिपदे स्थितः । (६) अतः । (७) सभापतिपक्षनिर्णयान्तम् । (८) अविनाभावि साधनप्रयोगजनितः । (९) प्राश्निकादीनाम् । (१०) वादिवचनाज्जायमानायाः प्रतिपत्तेः सकाशात् । (११) प्रानिकादिचेतसि । ( १२ ) 'कसौटी' इत्याख्यः पाषाणः सुवर्णपरीक्षणोपयोगी । (१३) प्राश्निकाद्यपेक्षा । (१४) मार्ग प्रकाशनस्य । (१५) छलादितः । (१६) स्वकृततत्त्वाध्यवसायम् । ( १७ ) क्रियमाणं । (१८) संरक्षणम् । (१९) यदि सौगतादयः सप्रमाणक वाक्यात् तत्त्वं निराकुर्वन्ति । ( २० ) सभापतिना ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org