________________
५।२ ]
३१३
नहि ते' स्वयं प्रयुक्ताः स्वपक्षं साधयन्ति साधनवैयर्थ्यप्रसङ्गात् परत्र च उद्भाविताः परपक्ष निराकुर्वस्य (न्त्य) विरोधात् । तत्प्रयोगेऽपि सम्यक् साधनवादिनः साध्यसिद्धेरप्रतिबन्धात् परव्यामोहनार्थम् एकवृत्तम् (एतद्वृत्तम्) अनुष्ठेयम् असार्था (असामर्थ्या) वरणम् । उभयत्र असिनैकान्तिकोद्भवमपि तादृगेव, तर्थे (तदर्थे ) तस्मिन् जल्पे वितण्डाभावः । तथाहि -*"मैं प्रतिपक्षस्थापनाहीनो जल्पो वितण्डा" [ न्यायसू० १ २ ३] इति; तत्र प्रतिपक्षस्थापनाहीन: ५ स्वपक्षसमर्थ[न]रहितश्चेत्; न समर्थवचन इति कुतो जल्पः यतो वितण्डा स्यात् ? अथ वैतण्डिकः परपक्षदूषणाय अवश्यं यतते ततस्तदूषणवचनं 'समर्थवचनम्' इत्युच्यते; तदपि न सारम् ; यतः स्वपक्षसिद्ध्यभावे परपक्षाऽनिषेधात् । यथाह - "वितण्डा आत्मतिरस्कारः" इति चेत् ; अयं परस्यैव दोषोऽस्तु ।
यदि मतं समर्थवचनस्य जल्पत्वे व्याख्यानादिषु अतिप्रसङ्ग इति; तत्राह - चतुरङ्गम् इति । १० यदि वा, कथं जल्प एव वादः तयोर्विषयभेदाद्, विजिगीषुविषय: [२५५क ] जल्पो न वादः अस्य शिष्टादिविषयत्वात् इति तत्राह - चतुरङ्गम् इति । चत्वारि वादि-प्रतिवादि-प्राश्निकपरिषद्बललक्षणानि अङ्गानि, नावयवाः, वचनस्य तद्नवयवत्वात् ।
द्वितीये तु व्याख्याने अङ्गशब्दो अवयववाची संभवति, 'चतुरङ्ग(ङ्ग) समर्थं (र्थ) वचनं पं वादं विदुः' इति । [ वादि ] प्रतिवादिवचनात् न व्याख्यानादिषु समर्थवचनं जल्प १५ इति दर्शयति तत्र तदभावात् । सभा ( सभ्य ) सभापतिवचनात् तस्य विजिगीषुविषयताम् अन्यथा व्याख्यानादिवत् तत्परिग्रहवैफल्यम् । एतावदेव च वादस्यापि निग्रहवतो रूपमिति कथं तयोः विषयभेद इति ?
एतेन एकस्य वादिप्रतिवादिभेदकल्पनेऽपि न " तद्वचनं जल्प इत्युक्तं भवति । यदि तद्वचनं जल्पः तदनवसानम्" तन्नियमकारणस्य असाधनादिः (असाधनाङ्गादेः) अवचनादिति चेत्; अत्राह - २० पक्षनिर्णयपर्यन्तम् इति । पक्षस्य विवाद्गोचरार्थस्य निर्णयः विप्रतिपत्तिपरिहारेण अवस्थानं पर्यन्तो यस्य स तथोक्तः तम् इति न वादिप्रतिवादिगुणदोषसं कीर्तनपर्यन्तमिति भावः ।
ननु यदि 'वादिसम्बन्धिपक्षनिर्णयपर्यन्तम्' इति गृह्यते जल्पाप्रवृत्तिः, पूर्वमेव तन्निर्णय
जल्पलक्षणम्
Jain Education International
(१) छलादयः । ( २ ) परपक्षेण सह विरोधाभावात् । (३) छलादिप्रयोगेऽपि । ( ४ ) जल्पः । "यत्र विजिगीषुः विजिगीपुणा सह लाभ पूजाख्यातिकामः जयपराजयार्थं प्रवर्तते सा विजि - गीषुकथा । विजिगीषुकथा जल्पवितण्डासंज्ञोक्ता । " - न्यायसा० पृ० १६ । न्यायकलि० पृ० १३ । (५) "तत्र वादो नाम यत् परस्परेण सह शास्त्रपूर्वं विगृह्य कथयति । स वादो द्विविधः संग्रहेण जल्पो वितण्डा च । " - चरकसं० पृ० २६२ । “वादिप्रतिवादिनोः पक्षप्रतिपक्षपरिग्रहः कथा । सा द्विविधा - वीतरागकथा विजिगीषुकथा चेति । यत्र वीतरागो वीतरागेणैव सह तत्त्वनिर्णयार्थं साधनोपालम्भौ करोति सा वीतरागकथा वादसंज्ञया उच्यते ।" - न्यायसा० पृ० १५ । " वादो नाम वीतरागयोः पक्षप्रतिपक्षपरिग्रहपूर्वकः प्रमाणतर्क पूर्व कसाधनोपालम्भप्रयोगे क्रियमाणे एकपक्षनिर्णयावसानो वाक्यसमूहः । " - न्यायकलि० पृ० १३ । (६) “उक्तं च- स्वसमयपरसमयज्ञाः कुलजाः पक्षद्वयस्थिताः क्षमिणः । वादपथेष्वभियुक्तास्तुलासमाः प्राश्निकाः प्रोक्ताः॥ " - न्यायप्र०वृ० पृ० १४ । प्रमाणमी० पृ० ६३ । न्यायता० दी० पृ० १५८। (७) वादिप्रतिवाद्यभावात् । (८) दर्शयति । (९) वादजल्पयोः । (१०) समर्थवचनम् । ( ११ ) अपरिसमाप्तिः । (१२) वादिपक्षस्य निर्णीतत्वादित्यर्थः ।
४०
"
For Personal & Private Use Only
www.jainelibrary.org