________________
सिद्धिविनिश्चयटीकायाम्
[ ५ वादसिद्धिः
एतेन जातिरपि व्याख्याता । का पुनरियं जातिः ? " साधर्म्य वैधर्म्याभ्यां प्रत्यव - स्थानं जातिः " [ न्यायसू० १।२।१८] तत्र प्रत्यवस्थानं जातिः इति जातेः सामान्यलक्षणम् । प्रेक्षणं प्रत्यवस्थानम् प्रत्यवस्थानमात्रं ( नमत्र ) प्रतिषेधाभास इत्येके; तदसत्यम् ; प्रत्यवस्थानशब्दस्य उत्तरसामान्यवचनस्य तदाभासे' असत्य (त्या) र्थादौ वृत्तिविरोधात् । न चात्र तदस्ति ।
५
३१८
यत्पुनरत्रोदाहरणमुक्तम्–'अनित्यः शब्दः कृतकत्वात् घटादिवत्' इत्युक्ते वैशेषिकेण; कश्चिदाह-यथा घटेऽनित्यत्वे सति कृतकत्वं दृष्टं तथा औकाशगुणत्वाभावेऽपि तत इदमपि प्रसक्तम्- 'न आकाशगुणः शब्दः कृतकत्वात् घटवत्' इति ; प्रत्यवस्थानमात्रमेतत् ; कथम् ? अप्रस्तुताकारत्वानागुणत्वबाधनेपि अतिन्य (अप्रस्तुताकाशगुणत्वबाधनेऽपि अनित्य ) त्वाबाधनात् । आगमबाधोऽपि इत्येके । तन्न वैशेषिकस्य सुभाषितम् आगमबाधने सर्वत्र १० * ' आगमः प्रतिज्ञा " [ न्यायभा० १|१|१] इत्यस्य विरोधात् । न च विभागेन तदाअन्यत्रापि अनाश्वासापत्तेः । अनेन पूर्वहेतोर्व्याप्ते रखण्डनात् तन्मात्रम् इत्यपरे ; तेषामखण्डितप्राप्तिका ( व्याप्तिकात्) प्रकृतसाधनसमर्थात् [ प्रा] क्तनादेव हेतोः जयेतरव्यवस्थानात् नेदं निग्रहस्थानम्, इतरथा तद्वैफल्यम् । द्वाभ्यां निग्रहेऽपि उक्तम् । [२५९क] कथं वा अनेन तद्व्याप्तेः अखण्डनम् यावता घटादौ आकाशगुणत्वाभावसहचरितस्य कृतकत्वस्य वचनेऽपि यदि तेतेन (ते न ) तद्वयाप्तिः अनित्यत्वेनापि न स्यात् इत्येवं तत्र प्रतिवादिनः अभिप्रायात् । पव (न च) वैशेषिकस्य सहदर्शनाद् अन्यद् व्याप्तिसाधकमस्ति ।
गमत्वम् ;
1
१५
यत्पुनरुक्तम्- आकाशाऽप्रतिपत्तौ अप्रसिद्धविशेषणः पक्षः, शब्दगुणात् तत्प्रतिपत्तौ न तत्प्रतिषेध इति आकाशगुणत्वाभावेन न कृतकत्वस्य व्याप्तिः इति न पूर्वसमानता इति; तन्न युक्तम् ; यतः आकाशस्य प्रतिपत्तावपि 'न शब्दात् प्रतिपत्तिः' इति निरूपयिष्यते, ततो यत्कि - २० ञ्चिदेतत् ।
तस्य विभागार्थम् *"साधर्म्य वैधर्म्याभ्याम् " [ न्यायसू० १।२।१८] इत्येतत् । साधर्म्येणोक्ते हेतौ प्रत्यवस्थानं दर्शयति भाष्यकार : -*" उदाहरणसाधर्म्यात् साध्यसाधनं हेतुः” [न्यायसू० १।१।३५] इति, अस्य उदाहरणवैधर्म्येण प्रत्यवस्थानं 'जाति:' इति शेषः । `तत्र उदाहरणम् -'क्रियावान् आत्मा क्रियाहेतुगुणयोगत्वात् लोष्टवत्' इति । अत्राह परः- यदि २५ क्रियावद्द्रव्यसाधर्म्यात् क्रियाहेतुगुणसम्बन्धात् तथा आत्मा साध्यते; तर्हि तद्रव्यभु (तद्वद्
(१) ( एतदन्तर्गतः पाठो द्विर्लिखितः । (२) उत्तराभासे । ( ३ ) यतो न घटः आकाशगुणः । (४) जातेः । ( ५ ) " साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानं जातिः । " - न्यायसू० १ | २|१८ । ( ६ ) " साधर्म्येणोपसंहारे साध्यधर्मविपर्ययोपपत्तेः साधर्म्येणैव प्रत्यवस्थानमविशिष्यमाणं स्थापनाहेतुतः साधर्म्य समः प्रतिषेधः । निदर्शनं क्रियावानात्मा द्रव्यस्य क्रियाहेतुगुणयोगात् । द्रव्यं लोष्टः क्रिया हेतुगुणयुक्तः क्रियावान् तथा चात्मा तस्मात् क्रियावानिति । एवमुपसंहृते परः साधर्म्येणैव प्रत्यवतिष्ठते निष्क्रिय आत्मा विभुनो द्रव्यस्य निष्क्रियत्वात् । विभुच आकाशं निष्क्रियं च, तथा चात्मा, तस्मान्निष्क्रियः इति । न चास्ति विशेषहेतुः क्रियावत्साधर्म्यात् क्रियावता भवितव्यं न पुनरक्रियसाधर्म्यान्निष्क्रियेणेति विशेषहेत्वभावात् साधर्म्यसमः प्रतिषेधो भवति । " - न्यायभा० ४|१| २ | (७) क्रियाहेतुगुणः अदृष्टम् । (८) क्रियावान् ।
$
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org