________________
५२] छलादीनामसदुत्तरत्वम्
३१९ विभु) त्वाद् अक्रियत्वमस्यास्तु विशेषाभावादिति । एतच्च असदुत्तरं पूर्वहेतुव्याप्त यखण्डनात् । उपलक्षणमेतत् , तेन उदाहरणसाधयेणापि प्रत्यवस्थानं जातिः। तद्यथा-'निष्क्रिय आत्मा विभुत्वाद् आकाशवत्' इति, अत्र प्रत्यवस्थानम्-'सक्रिय आत्मा क्रियाहेतुगुणयोगित्वात् लोष्टवत् अविशेषात्' इति । एतदपि तत एव [२५९ख] असदुत्तरम् । वैधयेणोक्त हेतौ प्रत्यवस्थानं दर्शयति स एव 'उदाहरणवैधात् साध्यसाधनं हेतुः' इत्यस्य उदाहरणसाधर्येण प्रत्यवस्थानं ५ 'जातिः' इति शेषः । यथा 'न चेतनायतनं तृणादयः प्राणादिरहितत्वात् , यत् पुनः चेतनायतनं तत् प्राणादिमद् दृष्टं [यथा] जीवच्छरीरम्' इत्यत्र यदि जीवच्छरीर[वैधादचेतनत्वं तर्हि तत् साधात् मूर्त्तत्वात् तृणादीनां चेतनत्वमस्तु विशेषहेत्वभावात् इति । उपलक्षणमेतत् , तेन 'उदाहरणवैधात् साध्यसाधनं हेतुः' इत्यस्य उदाहरणवैधयेणापि प्रत्यवस्थानं जातिः इति । तत्रोदाहरणम्-'अनित्यः शब्दः कृतकत्वात् , यदनित्यं न भवति [न तत् कृतकं] यथा आका- १० शम्' इत्युक्ते पर आह-यदि नित्यवैधर्यात् कृतकत्वाद् अनित्यः शब्दः तर्हि अनित्यवैधाद् अस्पर्शवत्त्वात नित्योऽस्तु । कथिता जातिः। निग्रहस्थानानि पुनरत्रैव यथावसरं कथयिष्यन्ते ।
निगमयन्नाह-ततः चतुरङ्ग इत्यादि । 'समर्थवचनं जल्पं विदुः' इत्युक्तम् । तत्र किं तस्य साधर्म्यम् (सामर्थ्यम् ) ? इत्याह-वचनस्यापि इत्यादि । वचनस्यापि न केवलम् अध्यक्षलिङ्गयोरेव सामर्थ्यम् 'अस्ति' इति वाक्यशेषः । किम्भूतम् ? इत्याह-तदन्य इत्यादि । १५ तच्छब्देन वादिप्रतिवादिनोः तत्त्वे प्रकृते परामृश्येति [ते इ] ति तदन्यतरस्य वादित्वम् (वादिनः) तत्त्वस्य इतरस्य वा यो निर्णयः स एव अवसानं पर्यन्तं यस्य तत् तथोक्तं न इतरकल्पितम् इति एवकारार्थः । वक्त्रभिप्राय सूतमेव (सूचनमेव) [२६०क] तत् तस्येति चेत् ; तत्राह-[न] पुनः नैव वक्त्रभिप्रायसूचनम् । एवकारोऽत्रापि द्रष्टव्यः अवधारणार्थो वा पुनःशब्दोऽत्र । कुतः? इत्याहसाधन इत्यादि। साधनं च दूषणं च तदाभासश्च साधनदूषणमात्रं (णतदाभासाः) तेषां व्यवस्था २० अभिधानविकल्पात्मिका स्थितिः तस्या वस्तुवत्व(तत्त्व) प्रतिबन्धात् । अस्याऽयमर्थः-वस्तु परमार्थसत् यत् साधनादितत्त्वंतत्रै प्रतिबन्धाद् आयत्तत्वात् । एतदुक्तं भवति-साधनादिविकल्पः तद्विषयः,अन्यथा ततः सिद्धेः तद्वयवहारोच्छेदः, अविकल्पनिषेधात्। अनिषेधेऽपि [न] ततोऽपि, इतरथा अकिञ्चित्करादेरपितत्सिद्धेः 'कृतकः शब्दः अनित्यत्वात् घटादिवत्' इत्यपिस्यात् । तद्विकल्पप्रभवाश्च नितरां तद्विषयाः, इति निराकृतमेतत्-*"विकल्पयोनयः शब्दाः" ईत्यादि । ११
(१) पूर्वहेतोः व्याप्तेरखण्डनादेव । (२) भाष्यकारः । “वैधर्येण चोपसंहारे निष्क्रियः आत्मा विभुत्वात् । क्रियावद् द्रव्यमविभु दृष्टं यथा लोष्टः, न च तथात्मा तस्मान्निष्क्रियः इति । वैधम्र्येण प्रत्यवस्थानं निष्क्रियं द्रव्यमाकाशं क्रियाहेतुगुणरहितं दृष्टम् , न तथा आत्मा तस्मानिष्क्रिय इति । न चास्ति विशेषतः क्रियावदवैधात् निष्क्रियेण भवितव्यं न पुनरक्रियवैधात् क्रियावतेति विशेषहेत्वभावात् वैधय॑समः । अथ वैधर्म्यसमः-क्रियाहेतुगुणयुक्तो लोष्टः परिच्छिन्नो दृष्टः, न च तथात्मा तस्मान्न लोष्टवत् क्रियावानिति। न चास्ति विशेषहेतुः क्रियावत्साधात् क्रियावता भवितव्यं न पुनः क्रियावद्वैधादक्रियेणेति विशेषहत्वभावाद् वैधय॑समः।"-न्यायभा० ५।१२। (३) "विप्रतिपत्तिरप्रतिपत्तिश्च निग्रहस्थानम् ।"-न्यायसु. ११९ । (४) वस्तुनि। (५) वस्तुविषयः। (६) वस्तुसिद्धेः। (७) अविकल्पाद वस्तुसिद्धिः। (0) 'विकल्पाः शब्दयोनयः । तेषामन्योऽन्यसम्बन्धो नार्थान् शब्दाः स्पृशन्त्यमी।' इति शेषः। -न्यायकुमु. पृ० ५३७ टि.७।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org