________________
३२० सिद्धिविनिश्चयटीकायाम्
[५ वादसिद्धिः 'वक्त्रभिप्राय' इत्यादिना परमतमाशङ्कते दूषयितुम् । वक्तः साधनादिवादिनः अभिप्रायः साधनादिविकल्पः सूच्यते अभिलप्यते येन तत्सूचनम् अभिधानं तयोः समाहारलक्षणो द्वन्द्वः तस्य सर्वत्र साधनादिसद्भाववत् तदभावेऽपि अविशेषात् । एतदपि कुतः ? इत्याह-प्रतिबन्धाभावात साधनादिभिः सह वक्त्रभिप्रायसूचनस्य तादात्म्य-तदुत्पत्तिलक्षणाऽविनाभावा [भावा] ५ त् कारणात् कथं शब्दैः उपलक्षणमेतत् , तेन विकल्पैः स्वार्थस्य साधनादिलक्षणस्य प्रतिपादनमिति चेत् ; अत्र परस्य स्ववचनविरोधं दर्शयितुं कारिकां नोपनेयम् इत्यादिकामाह
[नोपनेयं वचित किञ्चिदसिद्धं नापनीयते ।।
वाचाऽङ्ग सूच्यते चेति वक्ता कथमनाकुलः ॥३॥
शब्दाः कथं कस्यचित् साधनमिति वन् कथमवधेयवचनः ? तत्कृतां तत्त्वसि१० द्विमुपजीवतीति साधनाङ्गवचनाद् भूतदोषोद्भावनाद्वा । शंक्तस्य सूचनं हेतुवचनं स्वयमशक्तमपि, साध्योक्तिः पुनः पारम्पर्येण नालमिति परः प्राकृतशक्तिः।]
कचित् शब्दादिधर्मिणि किञ्चिद् असिद्धम् अनित्यत्वादिकं नोपनेयं नोपढौकनीयम् । [२६०ख] कया ? वाचा अनित्यत्वशब्देन, साधनानर्थक्यम् अन्यथेति मन्यते । तत
एव कुतश्चित शब्दादेः किञ्चित् नित्यत्वादिकं नापनीयतेन निराक्रियते वाचा 'न नित्यः' १५ इति चचनेन । तदुक्तं वि नि श्च ये-*"ते तर्हि कचित् किञ्चिद् उपनयतोऽपनयतो वा
कथं कस्यचित् साधनम्" इति । किं तर्हि तया क्रियते ? इत्याह-वाचाऽङ्ग लिङ्गं सूच्यते च *"परार्थं तु अनुमानं स्वदृष्टार्थप्रकाशनम्" [प्र. वार्तिकाल० ४।१ ] इति वचनाद् इत्येवं यो वक्ता स कथम् अनाकुलः आकुल एव पूर्वापरविरुद्धाऽभिधानात् । 'वाचा'
इति उपलक्षणम् , तेन विकल्पेनापि 'सूच्यते च' इति वा उपलक्षणम् , तेन व्यवसीयते च । २० कारिकां विवरीतुमाह-शब्दा इत्यादि । शब्दाः कथं न कथञ्चित् कस्यचित् साधनम्
इत्येवं ब्रुवन् सौगतः कथमवधेयवचनः ? कुतः ? इत्याह-तत्कृतां शब्दकृतां तत्त्वस्य सिद्धि निर्णीतिम् उपजीवति इति हेतोः । एतदपि कुतः इत्याह-सिद्धिः साधनं तस्य अङ्ग निमित्तम् त्रिरूपं लिङ्गम् ; साध्यते अनेन इति वा साधनम् , अस्यां पक्षधर्मत्वादेः (दिः) अवयवः तस्य
वचनात् प्रतिपादनात् 'शब्दैः' इति विभक्तिपरिणामेन सम्बन्धः । भूतस्य विद्यमानस्य दोषस्य २५ असिद्धादेः उद्भावनाद्वा । इदमत्र तात्पर्यम्-साधनदूषणवचनेन तदप्रतिपादने साधनाङ्गस्य अव
चनाद् दोषस्य च अनुद्भावनाद् अनर्थकवचनाच्च निग्रहप्राप्तिः तद्वक्तुः । प्रतिपादने अयं दोषः अनुषङ्गी इति ।
(१) तुलना-"तत्कृतां वस्तुसिद्धिमुपजीवति न तद्वाच्यतां चेति स्वदृष्टिरागमात्रमनवस्थानुषङ्गात् ।" -अष्टश. अष्टस. पृ० १३० । (२) पूर्वपक्ष:-"साध्याभिधानात् पक्षोक्तिः पारम्पर्येण नाप्यलम् । शक्तस्य सूचकं हेतुवचोऽशक्तमपि स्वयम् ॥"-प्र० वा० ४११७ । (३) वाचा । (४) "स्वेन दृष्टं स्वदृष्टं वादिप्रतिवादिभ्यां प्रतिपाद्यप्रतिपादकाभ्यां स्वदृष्टस्येत्यर्थः। यदि प्राश्निकाः तेषामधिकारात् । विप्रतिपत्तिनिरासस्तु सामर्थ्यादेव प्रसिद्धः । प्रकाश्यतेऽनेन स्वप्रतीतोऽर्थः परं प्रति। तच्च कायवाग्विज्ञप्तिरूपम् । तत्र स्वदृष्टोऽर्थः त्रिरूपं लिङ्गम् ।"-प्र. वार्तिकाल० ४।१ । (५) सिद्धौ । (६) साधनदूषणरूपपदार्थाकथने ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org