________________
५३ ]
शब्दविकल्पयोः वस्तुविषयत्वम्
३२१
स्यान्मतम् - *" न ततः किञ्चित् कश्चित् प्रतिपादयति प्रतिपद्यते [ २६१] वा केवलं तैमिरिकद्वयवद् भ्रान्त्या शब्दत इदं मया अयं प्रतिपादितः अहं च प्रतिपन्नः इति वक्तुः प्रतिपत्तुश्च बुद्धिः जायते" इति; तन्न सारम् ; यतः कथमेवं स्वयं जानन्नेव शाब्दव्यवहारम् अनु बाधेत संयोग्यादिव्यवहारवत् यथैवायं संयोग्यादिलिङ्ग प्रतिबन्धाभावेन सव्यभिचारमुपलभ्य परिहृतवान् तथा शब्दं परिहरेत् । अथ तत्परित्यागे क्षणमपि जीवितुं न ५ शक्यते इति तत्पामः (न तन्त्यागः ) तत एव भविष्यच्छकटाद्यनुमाने "कृत्तिकाद्युदयपरित्यागोऽपि मा भूत् । तथा च "अद्य आदित्योदयात् व आदित्य उदेता इति नानुमानं व्यभिचारसंभवात्" इति प्लवते । यदि पुनः व्यवहारी तथाविधादपि शब्दात् लिङ्गादिकं प्रतिपद्यते तदर्था () तदङ्गीकरणम् ; अत एव संयोग्याद्यङ्गीकरणमस्तु । तदयम् अप्रतिबद्धादपि शब्दात् लिङ्गं प्रतिपादयति न तथाविधाल्लिङ्गात् लिङ्गिनमिति प्राकृतशक्तिः । तैमिरिकोऽपि विज्ञाततैमिर- १० ज्ञानमिध्यात्वो न ततो व्यवहारमारचयति, इतरथा विभ्रमज्ञाने प्रज्ञा क र स्य पक्ष त्रयस्थापन - मयुक्तं स्यात्-प्रतिपन्नव्यभिचारो न ततः प्रवर्त्तते अपि तु अनुमानात् अन्यस्य जातविप्रलम्भस्य तरस्यत (नरस्य न ) प्रमाणम् इति ।
न तस्य शब्दादपि वस्तुप्रतिपत्तिं ततः तत्प्राप्तिं मन्यमानस्य तत् ज्ञानं प्रमाणं स्यात् अयमस्यैव दोषोऽस्तु, अतो लिङ्गादिवत् शब्दादपि अनेन व्यवहारं कुर्वता " तद्वत् "तस्य [२६-१ख] १५ वस्तुतत्त्वप्रतिबन्धोऽभ्युपगन्तव्य इति स्थितम् ।
"
भवत्वेतत्, तथापि शब्दो लि[] गमयति न साध्यमिति चेत् ; अत्राह - 'शक्तस्य सूचनम्' इत्यादि । शक्तस्य साध्यज्ञापने लिङ्गस्य समर्थस्य सूचनम् । किम् ? इत्याह- हेतुवचनं त्रिरूपलिङ्गवाक्यम् । किम्भूतम् ? इत्याह- अशक्तमपि साध्यज्ञापनेऽसमर्थमपि स्वयम् आत्मना इति । साध्यं (ध्य) वचनं किंभूतम् ? इत्याह- साध्योक्तिः अनित्यः शब्दः इति प्रतिज्ञावचनम् २०
Jain Education International
,
1
(१) शब्दात् । तुलना- "अनेन एतदपि निराकृतम् - अद्वैते कथं परप्रतिबोधनाय प्रवर्तते इति । स्वपरयोरस्यार्थस्यासिद्धेः । अयं परोऽहं न परः इति स्वसंवेदनमेवैतद् उदयमासादयति । नात्र परमार्थतो विभाग:- अहं प्रश्नयिता परः कथयति । द्वयोरपि स्वाकारोपरक्तप्रत्यय संवेदनमेवैतत् न तु विभागः स्वप्नप्रत्ययवत् उन्मत्तप्रत्यय प्रलापवच्च । उन्मत्तस्तर्हि वादी कथं ततोऽद्वैतप्रतीतिरपि ? ननु सर्वप्रत्यय प्रलय एवायं प्रवर्तते नात्र प्रतीतेरुदयः । किं तर्हि प्रतिवादिनाऽन्येन वा कर्त्तव्यम् ? किं क्रियमाणं किञ्चिद् दृश्यते ?” - प्र० वार्तिकाल० पृ० २९३ । (२) वैशेषिकाभिमतं । “संयोगि समवाय्येकार्थसमवायि विरोधि च । " - वैशे०सू० ३।१।९ । (३) अविनाभावाभावेन । ( ४ ) शब्दत्यागे । ( ५ ) " भविष्यत्प्रतिपद्येत शकटं कृत्तिकोदयात् । इव आदित्य उदेतेति ग्रहणं वा भविष्यति ॥ " लघी० श्लो० १४ । कृत्तिकोदय मालक्ष्य रोहिण्यासत्तिक्लुप्तिवत् ।” - मी० श्लो० पृ० ३५१ । ( ६ ) व्यभिचारिणोऽपि । (७) बौद्धः । (८) अविनाभावशून्यात् । ( ९ ) " पीतशङ्खादिचिज्ञानं तु न प्रमाणमेव तथार्थक्रियावा तेरभावात् । संस्थानमात्रार्थ क्रियाप्रसिद्धाघन्यदेव ज्ञानं प्रमाणमनुमानं । तथाहि प्रतिभास एवंभूतो यः स न संस्थानवर्जितः । एवमन्यत्र दृष्टत्वादनुमानं तथा च तत् ॥ येन न कदाचिद् व्यभिचार उपलब्धः स यथाभिप्रेते विसंवादात् विसंवाद्यत एव । यस्तु व्यभिचारसंवेदी स विचार्य प्रवर्तते - संस्थानमात्रं तावत् प्राप्यते परत्र संदेहो विपर्ययो वा ततोऽनुमानं संस्थाने संशयः परत्रेति प्रत्ययद्वयमेतत् प्रमाणमप्रमाणं च । ... शब्दविषयं तु ज्ञानमभिप्रायनिवेदनात् प्रमाणं ..." - प्र० वार्तिकाल० पृ० ५ । (१०) लिङ्गादिवत् । ( ११ ) शब्दस्य ।
४१
For Personal & Private Use Only
www.jainelibrary.org