Book Title: Siddhi Vinischay Tika Part 01
Author(s): Anantviryacharya
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 636
________________ ५३ ] शब्दविकल्पयोः वस्तुविषयत्वम् ३२१ स्यान्मतम् - *" न ततः किञ्चित् कश्चित् प्रतिपादयति प्रतिपद्यते [ २६१] वा केवलं तैमिरिकद्वयवद् भ्रान्त्या शब्दत इदं मया अयं प्रतिपादितः अहं च प्रतिपन्नः इति वक्तुः प्रतिपत्तुश्च बुद्धिः जायते" इति; तन्न सारम् ; यतः कथमेवं स्वयं जानन्नेव शाब्दव्यवहारम् अनु बाधेत संयोग्यादिव्यवहारवत् यथैवायं संयोग्यादिलिङ्ग प्रतिबन्धाभावेन सव्यभिचारमुपलभ्य परिहृतवान् तथा शब्दं परिहरेत् । अथ तत्परित्यागे क्षणमपि जीवितुं न ५ शक्यते इति तत्पामः (न तन्त्यागः ) तत एव भविष्यच्छकटाद्यनुमाने "कृत्तिकाद्युदयपरित्यागोऽपि मा भूत् । तथा च "अद्य आदित्योदयात् व आदित्य उदेता इति नानुमानं व्यभिचारसंभवात्" इति प्लवते । यदि पुनः व्यवहारी तथाविधादपि शब्दात् लिङ्गादिकं प्रतिपद्यते तदर्था () तदङ्गीकरणम् ; अत एव संयोग्याद्यङ्गीकरणमस्तु । तदयम् अप्रतिबद्धादपि शब्दात् लिङ्गं प्रतिपादयति न तथाविधाल्लिङ्गात् लिङ्गिनमिति प्राकृतशक्तिः । तैमिरिकोऽपि विज्ञाततैमिर- १० ज्ञानमिध्यात्वो न ततो व्यवहारमारचयति, इतरथा विभ्रमज्ञाने प्रज्ञा क र स्य पक्ष त्रयस्थापन - मयुक्तं स्यात्-प्रतिपन्नव्यभिचारो न ततः प्रवर्त्तते अपि तु अनुमानात् अन्यस्य जातविप्रलम्भस्य तरस्यत (नरस्य न ) प्रमाणम् इति । न तस्य शब्दादपि वस्तुप्रतिपत्तिं ततः तत्प्राप्तिं मन्यमानस्य तत् ज्ञानं प्रमाणं स्यात् अयमस्यैव दोषोऽस्तु, अतो लिङ्गादिवत् शब्दादपि अनेन व्यवहारं कुर्वता " तद्वत् "तस्य [२६-१ख] १५ वस्तुतत्त्वप्रतिबन्धोऽभ्युपगन्तव्य इति स्थितम् । " भवत्वेतत्, तथापि शब्दो लि[] गमयति न साध्यमिति चेत् ; अत्राह - 'शक्तस्य सूचनम्' इत्यादि । शक्तस्य साध्यज्ञापने लिङ्गस्य समर्थस्य सूचनम् । किम् ? इत्याह- हेतुवचनं त्रिरूपलिङ्गवाक्यम् । किम्भूतम् ? इत्याह- अशक्तमपि साध्यज्ञापनेऽसमर्थमपि स्वयम् आत्मना इति । साध्यं (ध्य) वचनं किंभूतम् ? इत्याह- साध्योक्तिः अनित्यः शब्दः इति प्रतिज्ञावचनम् २० Jain Education International , 1 (१) शब्दात् । तुलना- "अनेन एतदपि निराकृतम् - अद्वैते कथं परप्रतिबोधनाय प्रवर्तते इति । स्वपरयोरस्यार्थस्यासिद्धेः । अयं परोऽहं न परः इति स्वसंवेदनमेवैतद् उदयमासादयति । नात्र परमार्थतो विभाग:- अहं प्रश्नयिता परः कथयति । द्वयोरपि स्वाकारोपरक्तप्रत्यय संवेदनमेवैतत् न तु विभागः स्वप्नप्रत्ययवत् उन्मत्तप्रत्यय प्रलापवच्च । उन्मत्तस्तर्हि वादी कथं ततोऽद्वैतप्रतीतिरपि ? ननु सर्वप्रत्यय प्रलय एवायं प्रवर्तते नात्र प्रतीतेरुदयः । किं तर्हि प्रतिवादिनाऽन्येन वा कर्त्तव्यम् ? किं क्रियमाणं किञ्चिद् दृश्यते ?” - प्र० वार्तिकाल० पृ० २९३ । (२) वैशेषिकाभिमतं । “संयोगि समवाय्येकार्थसमवायि विरोधि च । " - वैशे०सू० ३।१।९ । (३) अविनाभावाभावेन । ( ४ ) शब्दत्यागे । ( ५ ) " भविष्यत्प्रतिपद्येत शकटं कृत्तिकोदयात् । इव आदित्य उदेतेति ग्रहणं वा भविष्यति ॥ " लघी० श्लो० १४ । कृत्तिकोदय मालक्ष्य रोहिण्यासत्तिक्लुप्तिवत् ।” - मी० श्लो० पृ० ३५१ । ( ६ ) व्यभिचारिणोऽपि । (७) बौद्धः । (८) अविनाभावशून्यात् । ( ९ ) " पीतशङ्खादिचिज्ञानं तु न प्रमाणमेव तथार्थक्रियावा तेरभावात् । संस्थानमात्रार्थ क्रियाप्रसिद्धाघन्यदेव ज्ञानं प्रमाणमनुमानं । तथाहि प्रतिभास एवंभूतो यः स न संस्थानवर्जितः । एवमन्यत्र दृष्टत्वादनुमानं तथा च तत् ॥ येन न कदाचिद् व्यभिचार उपलब्धः स यथाभिप्रेते विसंवादात् विसंवाद्यत एव । यस्तु व्यभिचारसंवेदी स विचार्य प्रवर्तते - संस्थानमात्रं तावत् प्राप्यते परत्र संदेहो विपर्ययो वा ततोऽनुमानं संस्थाने संशयः परत्रेति प्रत्ययद्वयमेतत् प्रमाणमप्रमाणं च । ... शब्दविषयं तु ज्ञानमभिप्रायनिवेदनात् प्रमाणं ..." - प्र० वार्तिकाल० पृ० ५ । (१०) लिङ्गादिवत् । ( ११ ) शब्दस्य । ४१ For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686