________________
५९]
जय-पराजयव्यवस्था
३३३
इत्याह-भूत इत्यादि । [भूतस्य] सतोऽपि असिद्धादिदोषस्य अश्काशनात् ।
द्वितीयेन 'तां व्याख्यातुकाम आह-तत्त्वम् इत्यादि । तत्त्वं प्रमाणतः [अ] प्रतिपादयतः सौगतस्य प्रतिज्ञादि असाधनाङ्गवचनम् भूतदोषं समुद्भावयति ? काका व्याख्येयमेतत् । 'यदि' शब्दो वा अत्र द्रष्टव्यः । कः ? इत्याह-प्रतिवादी इति हेतोः युगपन्निग्रहप्राप्तिः । कुतः ? इत्याह-जयनात् 'युगपद्' इत्यनुवर्तते, भूतदोषात् पराजयवत् तत्त्वप्रत्याय-५ नात् जयोऽपि वादिनोऽवश्यंभावी इति मन्यते । उपसंहारमाह-यत एवं तत् तस्मात् न कस्यचित् जयो नाम । केन विना ? इत्याह-स्वपक्ष इत्यादि । केन कृत्वा ? इत्याह न्यूनता इत्यादि । कुतः ? इत्याह-मार्गस्य सम्यग्दर्शनादेः प्रभावना प्रकाशनं लक्षणं यस्य [तस्य] भावात् [२७१क तत्त्वात् । कस्य ? जयस्य इति । यत एवं तस्मात् निराकृतपक्षत्वमेव निराकृतः पक्षो यस्य तस्य भावः तत्त्वमेव नान्यत् प्रतिज्ञादिकं निग्रहस्थानं वादिनः प्रतिवादिनो १० वा । तत्तु असम्यक्साधनवादिनि जैने सौगतस्य प्रतिज्ञादिवचनमुद्भावयतोऽपि अस्तीति से एव निगृह्यते इति भावः।
एतेनेदमपि प्रत्युक्तं यदुक्तम्-*"पश्चावयवोपपन्नः" [न्यायसू० १।२।१] इत्यत्र नैयायिकादिना अवयवन्यूनता-विपर्यास-आधिक्यं निग्रहस्थानम् इति; पर आह अत्य ल (ल्प)मिदमुच्यते-'निराकृतपक्षत्वमेव निग्रहस्थानम्' इति; यावता तूष्णींभावोऽपि तदिति चेत् ; १५ अत्राह-कस्यचित् वादिनः प्रतिवादिनो वा तूष्णीम्भावे सति तावता तूष्णीम्भावमात्रेण परस्य प्रतिवादिनो वादिनो वा जयाभावात् कः केन निगृह्यते । कुतः ? इत्याह-युगपद् इत्यादि । न केवलं साधनाऽसाधनाङ्गप्रतिज्ञादिवचनोद्भावनयोः युगपत् संभवः किन्तु तूष्णीम्भावस्यापि युगपत् संभवात् । एतदुक्तं भवति-यदि वादिनः तूष्णीम्भावात् पराजयः तस्यापि कदाचित् तद्भावात् वादिनँः संभवेदिति सकृजयेतरौ स्याताम् इति ।।
ननु कस्यचित् तूष्णीम्भावमात्रेण न परस्य तयो (तयोः प्रसङ्गः) येनायं दोषः स्यात् , अपि तु तश्रोद्भावयतः, न च द्वयोः तूष्णीम्भावे तँदस्तीति चेत् ; अत्राह-साधन इत्यादि । साधने ये (साधनं च) दूषणं च असिद्धत्वादि, तद् इत्यनेन साधनदूषणं परामृश्यते तदिव आभासत इति तदाभासम् च तत्त्वतो (तेषाम्) असिद्धादेः (अन्यतरस्यापि) तथा भावेन उद्भाव्यमान (ने)
(१) कारिकाम् । (२) सौगत एव । (३) "प्रमाणतर्कसाधनोपालम्भः सिद्धान्ताविरुद्धः पञ्चावयवोपपन्नः पक्षप्रतिपक्षपरिग्रहो वादः" (म्यायसू० ॥२१) इति वादलक्षणे । “अनेन च 'हीनमन्यतमेनाप्यवयवेन न्यनम. हेतूदाहरणाधिकमधिकम्' इति न्यूनाधिकयोरुद्धावनमनुज्ञायते । सिद्धान्ताविरुद्धग्रह णेनापि 'सिद्धान्तमभ्युपेत्य तद्विरोधी विरुद्धः' इति विरुद्धाख्यहेत्वाभासोद्भावनमनुज्ञातमित्येवं वादे त्रीणि निग्रहस्थानान्युद्भावनीयानि । अन्ये वदन्ति-विरुद्ध एव हेत्वाभासो वादे चोद्यते नानैकान्तिकादिरिति कथमेतद् युज्यते ? 'निग्रहस्थानेभ्यः पृथगुपदिष्टाः हेत्वाभासा वादे चोदनीया भविष्यन्ति' इति भाष्यकारवचनात् प्रमाणपदेन च तन्मूलावयवाक्षेपात् प्रमाणाभासमूलनिरासे सति सकलहेत्वाभासोद्भावनमपि । तत्र सिद्धमिति । सिद्धान्ताविरुद्धग्रहणेन सिद्धान्तमभ्युपेत्यानियमात् कथाप्रसङ्गोऽपसिद्धान्त इत्यपसिद्धान्ताख्यनिग्रहस्थानानि वादे उद्भाव्यन्त इति ।"-न्यायम० प्रमे० पृ० १५०। (४) निग्रहस्थानम् । (५) प्रतिवादिनोऽपि । (६) तूष्णीम्भावात् । (७) जयः । (6) उद्भावनमस्ति ।
२०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org