________________
३३२
सिद्धिविनिश्चयटीकायाम्
[५ वादसिद्धिः तथा प्रतिवाद्यपि भूतदोषमप्रकाशयन् । तत्त्वं प्रमाणतोऽप्रतिपादयतः असाधनाङ्गवचनं भूतदोषं समुद्भावयति प्रतिवादीति युगपन्निग्रहप्राप्तिः जयनात् । तन्न स्वपक्षसिद्धिमन्तरेण कस्यचिज्जयो नाम न्यूनतया 'मार्गप्रभावनालक्षणत्वाज्जयस्य । तस्मानिराकृतपक्षत्वमेव निग्रहस्थानम् । कस्यचित्तूष्णींभावे तावता परस्य जयाभावात् कः केन निगृह्यते ? ५ साधनदूषणतदाभासानामन्यतरस्य तथोद्भाव्यमाने तूष्णींभावस्यापि युगपत्संभवात् । ]
तत्त्वस्य तु (त्रि)रूपहेतुरूपस्य, यदि वा साध्यरूपस्य प्रत्यायनाद् सौगतो जयति 'प्रतिवादिनम्' इत्यध्याहारः। न केवलं वाद्यव अपि तु प्रतिवाद्यपि स एव जयति 'वादिनम्' इति विभक्तिपरिणामेन सम्बन्धः । [२७० क] किं कृत्वा ? इत्याह-भूतदोषं पारमार्थिकासिद्धादिदोषमुद्भाव्येत (दोषं समुद्भाव्य इति) 'अन्यथा अयुक्तमेव' इत्यनुवर्तते, अन्यथा १० प्रतिपत्त्यभावप्रकारेण तत्त्वप्रत्यायन-भूतदोषोद्भावनयोः अत्यन्तमसंभवात् । एतदेव दर्शयन्नाह
युगपद् इत्यदि । युगपद् एकदैव संभवात् तयोः जयपराजययोः । तथाहि-यथा सौगते समीचीनसाधनवति परः तद्विपरीतः पराजयवान् तथा सौगतोऽपि स्यात् , सतोऽपि तत्साधनस्य तेनाऽवचनात् । तथा, यथा सदोषसाधनवादी वैशेषिकादिः निग्रहवान प्रतिवादी बौद्धोऽपि तथैव, .
तेन दोषस्य सतोऽपि अनुद्भावनात् । १५ अथवा, अन्यथा पूर्वपक्षयित्वा कारिकेयं पठितव्या । यदि शब्दो (सत्त्वं) हेतुः तत एव
साध्यसिद्धः, पुनः कृतकत्वाद्युपादाने हेत्वन्तरं नाम निग्रहस्थानं स्यात् । एतेन शाब्दं प्रमाणान्तरं व इत्येतदपि निरूपितमिति; अत्राह-तत्त्व इत्यादि । नन्वेतत् 'सम्यग् विचारिता' इत्यादिना शक्यपरिहृतम् , किमर्थं पुनरा [ह ?] दूषणान्तरप्रतिपादनार्थम् इत्यदोषः । वादी जैनो
जयति, प्रतिवादिनम् । कुतः ? इत्याह-तत्त्वस्य जीवादेः समीचीनसाधनप्रतिज्ञादिवचनेन २० प्रत्यायनात् प्रतिपाद्यपि (वाद्यपि) सौगतो वादिनं जयति। किं कृत्वा ? भूतदोषं प्रतिज्ञादिवचनं परमार्थदूषणमनुद्भाव्य (णं समुदभाव्य)। न चैतद् युक्तम् इति मन्यते । कुतः ? इत्याह-युगपत् संभवात् तयोः जयेतरयोः । तथाहि-यदैव वादी स्वाभिमतं युक्तितः [२७० ख] प्रतिपाद्य परं विजयते, तदैव परोऽनर्थकप्रतिज्ञादिवचनमुद्भाव्य, तत्र
चैकदा संभवः । २५ परार्थेनं कारिकां विवृण्वन्नाह-वक्त्रभिप्राय इत्यादि । वक्त्रभिप्रायस्य सूचनं शब्देन
कार्यलिङ्गेन यज्ज्ञापनं तस्य अङ्गीकरणे वादी सौगतो निगृह्यते नैयायिकादिना । कुतः ? इत्याह-साधनाङ्गस्य पक्षधर्मत्वादेः । यदि वा, साधनमेव अङ्गं साध्यप्रतिपत्तेः निमित्तम् । अथवा, सिद्धिः साधनं तस्य अङ्गं कारणं तस्य, अवचनाद् 'वादिना' इति विभक्तिपरिणामेन
सम्बन्धः । कथम् ? इत्याह-तत्त्वतः परमार्थेन । नहि अन्यसूचकेन तत्त्वतोऽन्यः सूचितो ३० नाम अतिप्रसङ्गात् । तथा तेन प्रकारेण प्रतिवाद्यपि सौगतो 'निगृह्यते' इत्यनुवर्तते । कुतः ?
(१) अनित्यः शब्दः सत्वात्' इत्यत्र । (२) सत्वादेव । (३) एकस्मादेव साध्यसिद्धौ द्वितीयहेतूपादाने हेत्वन्तरं नाम निग्रहस्थानं भवति। "अविशेषोक्त हेतौ प्रतिषिद्धे विशेषमिच्छतो हेत्वन्तरम् ।"न्यायसू० ५।२।६ । (४) पृ. ३२२ । (५) वादिन जयतीति सम्बन्धः । (६) द्वितीयार्थेन ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org