Book Title: Siddhi Vinischay Tika Part 01
Author(s): Anantviryacharya
Publisher: Bharatiya Gyanpith
View full book text
________________
सिद्धिविनिश्चयटीकायाम्
[ ५ वादसिद्धिः *"अन्वर्थसंज्ञः सुमतिः मुनिस्त्वं स्वयं मतं येन सुयुक्तिनीतम् । यतश्च शेषेषु मतेषु नास्ति सर्वक्रियाकारकतत्त्वसिद्धिः॥"
[बृहत्स्व० श्लो०१७] इत्यादिना भगवतो न्यायेन प्रतिपाद्यजनप्रतिबोधनं स्तुवद्भिः सर्वत्र तदेव अभ्युपगतमिति ५ ज्ञायते । कणचरादिवत् स्वशास्त्रे कचित् छलाद्यनभिधानाच्च । यो हि स्वयमयुक्तमकुर्वन् परं युक्तकारिणम् अभिनन्दति स लोके अभिमतयुक्तकारिणं त्व (कारी) इति अवगम्यते ।
कथं पुनः तेनमेस्तस्य तस्सुतम् (तेन तत्स्तुतम् ) इति चेत् ? उच्यते-सुमतिः मुनिः त्वम् अन्वर्थसंज्ञः अनुगतार्थाऽभिधानवान् । [२५४क] केन कारणेन ? इत्याह-येन कारणेन त्वया'
इति अध्याहारः, स्वयं मतं स्वपक्षः सुयुक्ता (त्या) अबाधितयुक्त्या प्रमाणात्मिकया न तच्छला१० द्यात्मिकया नीतम् अर्थिजनं प्रापितं स युक्त्या प्रबोधित इत्यर्थः । विपक्षे बाधकमाहुः यतश्च
इत्यादि । ततः 'पक्षस्थापनया' इत्यादि *"वादिना उभयं कर्तव्यम्" इत्यभिदधानेन उक्तं न वेति परीक्षकाः चिन्तयन्तु । यदि युक्तम् ; किमिति तैः वादन्यायो नोक्तः ? तेषामेव च सूत्रकृतां भगवतां प्राकृतजनावेद्याभिप्रायाणामभिप्रायः सूरिणा अ क ल के न वा ति क का रे ण
सप्रपञ्चः प्रकटीक्रियते । १५ अंथ 'को वादः' इति प्रश्ने किमर्थं 'जल्पं विदुः' इति उत्तरमुच्यते वादजल्पयोः
भेदात् । प्रश्नानुरूपेण च उत्तरेण भवितव्यम् अन्यथा स्वात्पृष्ठः कोऽपि दाराम् (आम्रान् पृष्टः कोविदारान्) आचष्टे इति स्यात् । अथ तयोरभेदः; एवमपि प्रकृतानुरूपं वक्तव्यम् 'वादं विदुः' इति । नव (न च) कारिकाभिप्रायेण एवमभिधानाद् अल्पमतीनां तद्भेदविभ्रमनिवारणार्थम् ।
अत एव वितण्डापि न कथान्तरम् , जल्पस्य वादादभेदे कथं वितण्डा तद्विशेषः ततो भिद्यत । २० नहि घटस्य पार्थिवत्वे तँद्विशेषाः पदार्थान्तरम् । यदि [वा] 'वादं विदुः' 'वादे' इत्येतद् अनुवर्तमानं विभक्तिपरिणामेन इह सम्बध्यते, तन्न जल्पाद् अन्यो वाद इति मन्यते ।
किं तत् जल्पं विदुः ? इत्याह-समर्थवचनम् । अथवा कथम्भूतं जल्पंवादं विदुः ? इत्याह-समर्थवचनम् इति । समर्थं चेद् (चेदं) वचनं च । यदि वा, समर्थं वचनमस्मिन्
जल्पे तम् इति । किं पुनः वचन (नं) समर्थम् ? येन स्वयमभिप्रेतोऽर्थः [२५४ख साध्यरूपः २५ साधनरूपः विरुद्धदूषणतल्लक्षणश्च परं प्रति प्रतिपाद्यते वचनेन तत्समर्थम् इति उच्यते ।
वचनं च यथा अर्थप्रतिपादकं तथा निरूपयिष्यते । तदनेन त्रिरूपलिङ्गवाक्यमेवं पञ्चावयवमेवें वाक्यं वाद इति एकान्तं निराकरोति । परप्रतिपादनाय तदुदाहारो न व्यसनेन । तत्र यावता वचनेन "तत्प्रतिपत्तिः तावत् समर्थम् इति किं नियमेन ? [तेन] *"छलजातिनिग्रहस्थानसाधनोपालम्भो जल्पः" [न्यायसू० १।२।२] इति निरस्तम् ; छलादीनाम् असमर्थवचनत्वात् ।
(१) नैयायिकवैशेषिकवत् । (२) तत्त्वार्थवार्तिककारेण इत्यर्थः । अथवा प्रस्तुतग्रन्थगतमूलश्लोका अपि वार्तिकशब्देन उच्यन्ते, तत्कळ । (३) नैयायिकः प्राह । (४) वादजल्पयोर्भेदभ्रमनिराकरणार्थम् । (५) जल्पविशेषः । (६) वादात् । (७)घटविशेषाः । (८) बौद्धाभिमतम् । (९) नैयायिकस्वीकृतम् । (१०) उदाहरणम् उदाहारः कथनमित्यर्थः । (११) परप्रतिपत्तिः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686