________________
जल्पलक्षणम्
३११
अत्राह -
यद्यपि स्वार्थं साधितवन्तं न निगृह्णाति तर्हि तूष्णींभवन्तं निगृह्णाति इति चेत्; ह - तूष्णींभवन्तम् इत्यादि । अत्रादिमतिप्रायः (अत्रायमभिप्रायः ) तूष्णींभवन्तं किं परः स्वपक्षं साधयन् निगृह्णाति किं वा त्वया साधनाभिधाने अधिकारिणापि न किञ्चिदुक्तम् मौनमेव अनुष्ठितम् इत्यद्धा (इति यद्वा ) स्वार्थसिद्ध्यनुपयोगि ब्रुवन्, स्वयं तूष्णींभवन् वा ? तत्र प्रथमपक्षे उक्तम्- 'पक्षस्थापनया' इत्यादि । द्वितीय आह- तूष्णीं भवन्तम् 'न' ५ [इति] सम्बन्धः । किं कुर्वन् ? ब्रुवन्निति । ब्रुवन् तूष्णींभावम् उद्भावयन्, अन्यद्वा असम्बद्धम् प्रलपन् वा पुरुषः । किंभूतः ? परेण निप्राह्येण सम एव [२५३ख] पूर्व एवकारोऽत्र द्रष्टव्यः । कस्मिन् सति तत्समः ? इत्याह- स्वार्थासाधने इति । यथैव हि तूष्णींभवतः साधनानभिधाने न स्वार्थसिद्धिः तथा तदुद्भावयतोऽपि अन्यद्वा ब्रुवतः । नहि तदुद्भावनमात्रेण स्वार्थसिद्धिः परस्य । शेषमत्र निरूपयिष्यते । तृतीयेऽप्याह- सोध्ये त्याहृदि ( सोऽप्यन्य १० इत्यादि) ब्रुवतोऽन्यः इतरः तूष्णींभूतः सोऽपि तूष्णींभवन्तं न निगृह्णाति । केन कारणेन ? इत्याह- साध्या (स्वाकूतोज्झया) करणभूतया इति ।
ननु 'वादे निगृह्णाति' इत्युक्तम्, तत् को वादः ? इत्यत्राह - ' - 'समर्थवचनम् ' इत्यादि ।
५२ ]
[ संमर्थवचनं जल्पं चतुरङ्गं विदुर्बुधाः पक्षनिर्णय पर्यन्तं फलं मार्गप्रभावना || २ ||
वादिनः तत्त्वप्रतिपादनसामर्थ्यमन्तरेण यथैवोन्मार्गशोधनेन मार्गप्रभावना न संभवति एवं परिषद्बलस्य यथार्हं सत्यदोषनिवेदनसामर्थ्येऽसति । स्वयमेवोद्धृत्य न्यायवादिनमपि व्यापारव्याहाराभ्यां प्रतिक्षिपतां दर्शनात् स्वयमौद्धत्यप्रच्छादनार्थम् । छलजातिनिग्रहस्थानानां भेदो लक्षणं च नेह प्रतन्यते । तैः साधनोपालम्भो जल्प इति कैचिल्लक्षणात् । २० ततश्चतुरङ्ग एव जल्पः वचनस्यापि सांकर्यं तदन्यतरतच्चेतरनिर्णयावसानमेव, न पुनः वक्त्रभिप्रायसूचनम् । साधनदूषण तदाभासव्यवस्थायाः वस्तुतत्त्वप्रतिबन्धात् वक्त्रभि - प्रायसूचनाभिधानस्य सर्वत्राविशेषात् । प्रतिबन्धाभावात् कथं शब्दैः स्वार्थप्रतिपादनमिति चेत् ; ]
समर्थवचनं जल्पं विदुः जानीयुः । के ? इत्याह- बुधाः विद्वांसः समन्तभद्र २५ स्वाभिप्रभृतयः । यदि तर्हि तेषां जल्पलक्षणपरिज्ञानं किमिति न्यायान्तरवद् वादन्यायो न निर्दिष्टः; तदनिर्देशे च कुतः तत्परिज्ञानं तेषामवगम्यताम् ? वचनलिङ्गा हि वक्तृचेतोविशेषा असर्वविदामिति चेत्; क एवमाह से तैर्न निर्दिष्टः इति ? यावता -
(१) तूष्णींभूतो भवानिति कथनमात्रेण । (२) तुलना - " समर्थ वचनं वादः । प्रकृतार्थप्रत्यायन परं साक्षिसमक्षं जिगीषतोरेकत्र साधनदूषणवचनं वादः । " - प्रमाणसं० पृ० १११ । त० श्लो० पृ० २८० । प्रमेयरत्नमा० ६।४७ | प्रमाणनय० ८।१ । प्रमाणमी० २।१।३० । (३) जल्पपरिज्ञानम् । ( ४ ) समन्तभद्रादीनाम् । (५) जल्पः ।
Jain Education International
१५
For Personal & Private Use Only
www.jainelibrary.org