________________
[ पञ्चमः प्रस्तावः ]
[५ वादसिद्धिः] एवम् अनन्तरप्रस्तावद्वयेन अशब्दयोजनं स्मरणादि श्रुतं व्याख्यातम् । यदुक्तमः (म्) 'शब्दैः परमन्यद्योजितं श्रुतम्' इति; तत्' संप्रति व्याख्यातुम् अवसरप्राप्तम् , तच्च परार्थमिति, परप्रतिपादनाय च तत्प्रयोगे न्यायवादिनमपि केचिदेकान्तवादिनो वचनाद्युपालम्भच्छलेन पराजयेन योजयन्तः समुपलभ्यन्ते तन्निषेधार्थं वादन्यायप्रस्ताव प्रस्तुवन् तदादौ संग्रहवृत्तमाह५ पक्षस्थापनया इत्यादि ।
[ पक्षस्थापनया निरस्तविषयं वादे निगृह्णाति न, खाकृतोज्झमसाधनाङ्गवचनादोषोक्तिसंकीर्तनैः। स्वाथें साधितवन्तमस्तविषयस्तूष्णीम्भवन्तं ब्रुवन् , अन्यद्वा प्रलपन् परेण स समः स्वार्थासाधने (खार्थे असंसाधिते)॥१॥]
पक्षो व [क्ष्यमाणल]क्षणः तस्य स्थापना समर्थनं तथा वादी प्रतिवादी वा निगृहाति विजयते । क ? वादे । कम् ? इत्याह-निरस्तो विषयः पक्षो यस्य स तथोक्तः तं वादिनं प्रतिवादिनम् । वादी अन्यथा कुवोत् भिज्ञाति (कुतो न निगृह्णाति ?) इत्याह-न इत्यादि। खाकूतशब्देन स्वपक्षः परामृश्यते तस्य उत्स (उज्झा) त्यागः क्रियाविशेषणमेतत् ,
वाकूतोज्झा यथा भवति तथा न निगृह्णाति । पक्षस्थापनाहीनो न निगृह्णाति इत्यर्थः । कैः १५ कृत्त्वा ? इत्याह-[२५३क] असाधनाङ्गम् [न साधनाङ्गम्] असाधनाङ्गम (ङ्ग) तस्य वच
नम् , अथवा न साधनाङ्गवचनम् । न दोषोऽदोषः तस्य उक्तिः, यदि वा न दोषोक्तिः अदोषोक्तिः विद्यमानस्यापि दोषस्य अनुच्चारणम् , असाधनाङ्गवचनं वादोक्तिश्च (च अदोषोक्तिश्च) तयोः संकीर्तनानि प्रकाशनानि तैरिति । कं तैः न निगृह्णाति ? इत्याह
स्वार्थ साधितवन्तम् । किंभूतः ? इत्याह-अस्तविषयः निरस्तपक्षः। नन्वयमर्थः 'स्वाकू२० तोज्झम्' इत्यनेन उक्तः किमर्थं पुनरुच्यते ? सत्यम् उक्तः, तथापि पूर्वमनाश्रितपक्षों न निगृह्णाति इत्यस्य प्रतिपादनार्थम् । तदुक्तम्-*"यतो वादिना उभयं कर्त्तव्यं स्वपक्षसाधनं परपक्षदूषणं च" इति । जाचं (अयं) पुनः आश्रितपक्षोऽपि निरस्तविषयो न निगृह्णाति अस्येति विशेषः । इदमपरं व्याख्यानम्-स्वाकूतो ज्ञानं (तोज्झं न) निगृह्णाति, न च स्वार्थ साधितवन्तं तत्संकीर्तनैः अस्तविषयः असिद्धमहामहीमा (पा)न्तरितविषयः ।
(१) श्रुतम् । (२) शब्दप्रयोगे कर्तव्ये सति । (३) कथयन्तम् । (४) अन्यैः छलादिभिः उपायैः । (५) साधनाङ्गस्य अवचनम् । (६)वैतण्डिकः । (७) "विजिगीषुणा उभयं कर्त्तव्यं स्वपरपक्षसाधनदूषणम्" -अष्टश०, अष्टसह पृ० ८७ । (८) असिद्धश्चासौ महामहीपः महाभूपालः तेन अन्तरितः आक्रान्तः विषयः पक्षः यस्य असिद्धपक्ष इति यावत् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org