________________
३०९
४।२४]
शानादिगुणा नात्मनो भिन्नाः ततः किं प्राप्तम् ? इत्याह-निष्कर्माणि [इत्यादि]
[निष्कर्माणि वा गुणिनः कारकाणि गुणैर्विना ।
समवायेन किंवृत्तिस्तद्वदेव दुरन्वयम् ॥२४॥ कर्मम्योऽपसृतानि निरस्तकर्माण्येवं वाचा (ण्येव वा) इत्यवधारणे । कारकाणि कर्तादीनि गुणिनो द्रव्याणि सर्वैर्गुणैर्वा विना 'स्युः' इत्यनेन गतेन सम्बन्धः, परस्परानापन्ना ५ एव स्युः इति मन्यते ।
ननु नायं दोषः जातितद्वतोर्गुणगुणिनोः कर्मतद्वतोः भेदेऽपि सं समवायवृत्त्या जात्यादीनां तद्वति वर्तनादिति चेत् ; अत्राह-समवायेन समवाय एव च अवृत्ति (एव वा वृत्तिः ) किम् ? नैव वृत्तिः, कुत्सिता वा वृत्तिः इति, यतः समवायस्य समवायिषु वृत्तौ 'इह समवायो वर्त्तते' इति प्रत्ययः सम्बन्धान्तरनिबन्धनः स्यात् , पुनरपि तदन्तरनिबन्धन इत्यनवस्था, अन्यथा १० 'तन्तुषु पटः' इत्यादिप्रत्ययोऽप्यनेनैवं [२५२खें] व्यभिचारात न समवायसाधकः स्यात् । तेषु तंदवृत्तौ वा न कस्यचित् सम्बन्धोऽपरायत्तत्वाद् आकाशवत् । अत एव इहप्रत्ययकर्तृत्वमपि तस्य तद्वदेव दुरन्वयम् , इतरथा संयोगेऽपि पँसङ्गः अंसम्बन्धेऽपि इत्येवं युक्तिवाधितं संकीर्त्यते वैशेषिकैः । अनेन *"कार्यविरोधी कर्तृ फलदायी'' इति च निरस्तं बोद्धव्यम् ॥ छ ॥ १५
इति र वि भ द्र पादपकजभ्रमर-अ न न्त वी र्य विरचितायां सि द्धि वि नि श्च य टी का यां जीवसिद्धिः चतुर्थ प्रस्तावः ।
(१) 'स' इति निरर्थकम् । (२) द्रव्यादौ । (३) सम्बन्धान्तर । (१) 'इह समेवायिषु समवायः' इति प्रत्ययेनैव । (५) समवायिषु । (६) असम्बन्धे वा समवायस्य । (७) समवायस्य । (८) सम्बन्धत्वप्रसङ्गः। (९) स्वसम्बन्धिषु सम्बन्धाभावेऽपि । (१०) कार्य सुखदुःखादिफलं विरोधि यस्य । अदृष्टै हि स्वकार्य कृत्वा विनश्यतीति भावः । (११) धर्मः इति । द्रष्टव्यम्-पृ० ३०८ टि० ३ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org