________________
३०८
सिद्धिविनिश्चयटीकायाम्
[ ४ जीवसिद्धिः
इति । ततः तस्मान्न्यायात् पुनः अपूर्त्तस्य नैसर्गिका बन्धहेतवः । कस्य ? इत्याह- चेतनस्य । के ? इत्याह-मिथ्यादर्शन इत्यादि ।
ननु किममूर्त्तस्य मूर्त्तेन कर्मणा सम्बन्धकल्पनया, यावता [ अ ] मूर्त्तेनापि तेनं तद्गुणादिसमवाये' न कश्चिद् दोषः । तदुक्तम् - * " आत्मविशेषगुणः कर्तृ फलदायी कार्यविरोधी ५ संयोगजोऽदृष्टो धर्मोऽपि व्याख्यातः" इति चेत्; अत्राह - जात्या इत्यादि ।
[ जात्या व्यतिरिक्तयाऽर्थाः स्युरन्या जातिः स्वतः सती । तथैवार्थान्तरैः किन्न द्रव्यं स्याद् गुणकर्मभिः ॥ २३॥ ]
जात्या इति सामान्यवचनेऽपि ' स्युः' इति वचनात् सत्ता परिगृह्यते । नहि अन्यया अर्थाः सन्तो भवन्ति । किंभूतया ? व्यतिरिक्ताया (क्तया) द्रव्यादेः एकान्तेन भिन्नया । किं १० तया ? इत्याह- अर्थो द्रव्यगुणकर्माणि * " द्रव्यगुणकर्मसु अर्थ: " [वैशे ० सू० ८|२| ३] इति वचनात् । स्युः सन्तो भवेयुः । किन्नैव ? 'किम्' इत्यनेन वक्ष्यमाणकेन सम्बन्धः । स्वयम् अन्येन तद् भवति, अन्यथा रूपादिना रादना ( गगना) दिकं तद्वत् स्यात् । तथाविधया जात्या अर्थानां समवायसम्बन्धोऽपि अत्रैव वृत्ते निराकरिष्यते ।
किञ्च, जातिरपि यद्य सती; कथं तया किञ्चिदसत् सत् स्यात् ? नहि - बन्ध्यासुतो तत्राह परः१५ गगनकुसुममालया सन्नाम । सती जात्यन्तरेण चेत्; अनवस्था । स्वतो यदि; अर्थेभ्यः अन्या जातिः सत्तासामान्यं स्वत आत्मना स्यात् सती भवेत् 'किम्' इत्यनेन 'स्यात्' इत्यनेन वक्ष्यमाणेन सम्बन्धः । [२५२] अर्था अपि तथैव स्वयं स्युः इति मन्यते । तदनेन द्रव्यगुणयोः अभावात् * " आत्मविशेषगुणो धर्मादिः" इति" निरस्तम्, : [गुण ]"कर्मणोरभावात् *"आत्ममनः संयोगजः " " इति च । नहि कर्माऽभावे संयोगः ; "तत्पूर्वक - २० त्वादस्य । अथवा, देवदत्तं प्रति उपसर्पतां पश्वादीनां पराभ्युपगमेन कर्माऽभावात् ततो धर्माद्य"नुमानमनुपपन्नमिति दर्शयति ।
भवन्तु वा यथाकथञ्चित् परस्य अर्थाः, तथापि दोषं दर्शयन्नाह - अर्थान्तरैः द्रव्यादत्यन्तं भिन्नैः द्रव्यं पृथिव्यादि स्याद् भवेद् धवलं सख्येयादि गन्त्रादिकम् । कैः ? इत्याह- गुणकर्मभिः । गुणैः रूपादिभिः कर्मभिः गमनादिभिः याथासङ्ख्येन गुणैः धवल २५ (लं) सख्येयादि कर्मभिः गन्त्रादिकम् । 'किम्' इत्येतद् अत्रापि सम्बन्धनीयम्, अन्यथा आत्मादिकमपि स्यात् अविशेषात् ।
(१) अदृष्टाख्येन । ( २ ) स्वीक्रियमाणे । (३) “धर्मः पुरुषगुणः कर्तुः प्रियहितमोक्ष हेतुः अतीन्द्रियो ऽन्त्य सुखसं विज्ञानविरोधी पुरुषान्तःकरण संयोगविशुद्धाभिसन्धिजः १ - प्रश० भा० पृ० १३८ । (४) "अर्थ इति द्रव्यगुणकर्मसु " - वैशे० सू० । (५) रूपि । (६) भिन्नया । (७) वृत्तौ श्लोके वा । (८) जैनः । (९) सन्तः । (१०) " धर्मः पुरुषगुणः " - प्रश० भा० पृ० १३८ । ( ११ ) गुणपदार्थस्य कर्मपदार्थस्य 'च । (१२) “पुरुषान्तःकरणसंयोगविशुद्धाभिसन्धिजः " - प्रश० भा० पृ० १३८ । (१३) निरस्तम् । ( १४ ) क्रियापूर्वकत्वात् । (१५) 'देवदत्त विशेषगुणप्रेरितभूतकार्याः तदुपगृहीताश्च शरीरादयः कार्यत्वे सति तदुपभोसाधनत्वात् गृहवदिति" - प्रश० किरणा० पृ० १४९ । प्रश० व्यो० पृ० ४११ । प्रश० कन्द० पृ० ८८ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org