Book Title: Siddhi Vinischay Tika Part 01
Author(s): Anantviryacharya
Publisher: Bharatiya Gyanpith

Previous | Next

Page 574
________________ ४।२] आत्मनः कर्मवन्धः १५९ मन्त्रादिसहित म्, ततोऽभ्युदयस्य व्याधिशमनस्य भावादिति; तदयुक्तम् ; स्वेच्छामात्राद् अर्थाsसिद्धः, अतिप्रसङ्गाच्च । वेदस्य प्रमाणत्वस्य निषेत्स्यमानत्वात् न ततोऽस्य विभागस्य प्रतिपत्तिः', खार्पटिकागमादपि तत्प्रतीतिप्रसङ्गाच्च । ततो यत्किञ्चिदेतत् । यदि वा, 'शुभाशुभैः पुण्यापुण्यैरचेतनैः बध्यते' इति सम्बन्धनीयम् । तर्हि अविशेषेण [२१२क] चेतनं (नः) तैः बध्यत इति चेत् ; अत्राह-यथास्वस् इति । यस्य ५ चेतनस्य यः स्वः मन्दतीवादिरूपः क्रोधादिस्वभावस्तस्य अनतिक्रमेण इति । कारिकां व्याख्यातुमाह-मनोवाकाय इत्यादि । मनोवाक्कायकर्मभिः आस्रवैः । अथवा आस्रवैः इत्यत्र च शब्दो द्रष्टव्यः । किंभूतैः ? इत्याह-शुभैरशुभैश्च । ननु कारिकायां शुभाशुभैः इति समस्तो निर्देशः कृतः, अत्र किमर्थं व्यस्तः क्रियते इति चेत् ? सङ्करादिपरिहारार्थः । ये शुभाः ते शुभा एव, ये च स्वस्य ते स्वस्यैव नान्यस्य' इति १० प्रतिपादनार्थः तथानिर्देशः । कथम् ? इत्याह-यथास्वम् इति । किम् ? इत्याह-पुण्यपापबन्धः। केपाम् ? इत्याह-जीवानाम् । न प्रकृतेर्नापि ज्ञानक्ष[णस्य ।ता [कारिकायां सामान्यतो] जीव इत्युक्तम् , अत्र व्यक्त्यपेक्षं 'जीवानाम्' इति वचनं जीवबहुत्वप्रतिपादनार्थम् , इतरथा अत्रापि जीवस्य' इत्येकवचनप्रयोगे मन्दमतेः आशङ्का स्यात्-'आचार्यमते [एक एव जीवः' इति । जब तद्वन्धः तस्य॑ तत्कारणाभावात् सत्तामात्रा (त्रे) प्रमाणभाच्च (णाभावाच्च) । शरीर- १५ परिमाणस्य चेतनापरिणामस्य अनाद्यनिधनस्य कर्तुर्भोक्तुः आत्मनः प्रतिपादनार्थं जीवग्रहणम् । अस्यैव ग्रहणम् अस्यैव तद्वाच्यत्वेन प्रसिद्ध, आत्मादिशब्दानांतु परापेक्षया अन्यत्रापि प्रवृत्तेः। नन्वत्र परविप्रतिपत्तिनिरासार्थ प्रमाणं वक्तव्यमिति चेत् । अत्राह-अत्र इत्यादि । अत्र अर्थे न कश्चिद् विप्रतिपत्तुमर्हति । ___स्यान्मतम्-प्रमाणेन विषयीकृते प्रमेये न कश्चिद् विप्रतिपत्तुमर्हति । न चायं तेन विषयी- २० कृतः । तथाहि- न तावत् प्रत्यक्षेण; तत्र २१२ख] तदप्रतिभासनात् । न चै खलु "आतसादितैलादिसंपर्के घटादेः पांशुराशिसम्बन्ध इव मनोवाकायकर्मभिरास्रवैः शुभैरशुभैश्च पुण्यपापबन्धो जीवानां प्रत्यक्षतः प्रतीयते; विप्रतिपत्तेरभावप्रसङ्गात् । नापि अनुमानेन; लिङ्गाभावात् । न च तत्कर्मास्रवाः लिङ्गम् ; 'कारणात् कार्यानुमानम्' इति प्राप्तः । न चैवम् , व्यभिचारात् , *""नावश्यं कारणानि कार्यवन्ति भवन्ति" [प्र. वा० स्व० १।६६] । न च ते अन्यत्र २५ अन्यदा तत्कारणत्वेन आतसतैलादिवत् प्रतीतं यतस्तेभ्यो बन्धोऽनुमीयेत "मालवकातसतैलसंपर्कादिव उदरमलबन्धः । लिङ्गान्तरमत्र साध्यसमम् । आगमेन विषयीकृत इति चेत् ; कथन्न तत्र कश्चिद् विप्रतिपत्तुमर्हति ? तद्विषयीकरणादेव विप्रतिपत्तीनामतीन्द्रियार्थे 'प्रकृतिः कारणं पुरुषः कारणम्' इत्यादौ दर्शनात् , अन्यथा आगमेनापि तदविषयीकरणे निरालम्बा विप्रतिपत्तयो (१) वेदात् । (२) इयं हिंसा पुण्यहेतुरियं च पापहेतुरिति । (३) पृथनिर्देशः । (१) सांख्याभिमतायाः । (५) बौद्धाभिमतस्य । (६) नित्यैकजीवस्य । (७) 'अस्यैव ग्रहणम्' इति पुनरुक्तम् । (6) वैशेषिकाद्यपेक्षया । (९) नित्ये व्यापिनि निष्क्रिये च । (१०) अतीसीतैलादि । (18) द्रष्टव्यम्-हेतुबि. टी० पृ० २१०। न्यायबिटी० २१४९। (१२) मालवकतैलात् अतीसीतेलाद्वा । (१३) सांख्यस्य । (१४) वेदान्तिनः। Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686