Book Title: Siddhi Vinischay Tika Part 01
Author(s): Anantviryacharya
Publisher: Bharatiya Gyanpith

Previous | Next

Page 607
________________ २९२ सिद्धिविनिश्चयटीकायाम् [४ जीवसिद्धिः इति हेतोः विरुद्धाऽव्यभिचारी 'सत्त्वोत्पत्तिकृतकत्वादिः' इति विभक्तिपरिणामेन सम्बन्धः, विरुद्ध साध्यं न व्यभिचरति एवंशीलः चैतन्यभूतपरिणामवत् तेषामपि अन्यपरिणामप्रसाधनात् । यदि वा, विरुद्धन साध्येन [अव्यभिचारी तदविनाभावी विरुद्ध इति यावत् । तथाहि-विज्ञप्तः सत्त्वादि मध्यावस्थायाम् अनन्तरोक्तन्यायाद् विपक्षसद्भावबाधनात् चेतनोपादेयत्वाव्यभिचारि ५ प्रतिष्ठापितं [२३९ ख] यथा च 'अन्तर्व्याप्तौ असिद्धायां बहिर्याप्तेरकिञ्चित्करत्वं तथा न सिद्धायामपि इति । यद्वक्ष्यति-प्र मा ण सं प्र हे-*"भविष्यति आत्मा सत्त्वात्" [प्रमाणसं० पृ० १०४] तत्र च न अचिद्र पेण ; अनिष्टापत्तेः साधनवैफल्याच्च । नापि चिद्र पेण ; तत्साधने पृथिव्यादावपि सद्भावे न तव्यभिचारी विशिष्टस्य हेतुत्वात् । इदमपरं व्याख्यानम् तत एव इत्यादि । भूतानामपि इति, अयमपिशब्दो भिन्नक्रमः 'विरुद्धाऽव्यभिचारी' इत्यस्य १० अनन्तरं द्रष्टव्यः । ततोऽयमर्थो न केवलं विरुद्धाऽव्यभिचारी किन्तु व्यभिचार्यपि । विज्ञप्तमध्यदशायां चैतन्यविवर्ताऽनतिक्रमेऽपि सत्त्वोत्पत्तिकृतकत्वादेर्दर्शनात् ।। इति इत्यादिना उपसंहारमाह-इत्येवम् अनन्तरप्रकारेण मिथ्याभिनिवेशाद् असत्याऽऽमहात् प्रमाणप्रमेयव्यवस्थाम् अतिलवयेत् प्रमाणस्य प्रमाणत्वस्य, भावप्रधानत्वात् निर्देशस्य, व्यवस्था विशद एव अभ्रान्त एव ज्ञाने स्थितिः ताम् अतिलवयेत् अतीव प्रलयं नयेत् । तथाहि१५ भूतेभ्योऽत्यन्तमभिन्नं चैतन्यं भिन्नं (अत्यन्तभिन्नं चैतन्यमभिन्न) पश्यत् प्रत्यक्षं यदि प्रमाणम् ; द्विचन्द्रादिज्ञानं कथं न भवेत् यतो लौकिकी (की) प्रत्यक्षतदाभासव्यवस्थामनुसरन् लौकायतिकः स्यात् ? अथ अप्रमाणम् ; द्विचन्द्रादिज्ञानवत् सर्वमविशेषेण भवेद् भूतेभ्योऽभिन्नस्य स्वरूपस्य ततो भिन्नस्य सर्वेण ग्रहणात् । नहि किञ्चिद्विज्ञानम् आत्मानं रूपाद्यात्मकं प्रत्येति सारूप्यनिषे धात् । तथापि तस्य तथा प्रतीतिकल्पने सर्वस्य सर्वदर्शित्वकल्पने [s]लौकायतिकं जगत् स्यात् । २० किं च, तदात्मकत्वेन [२४० क] सर्वस्य ज्ञानस्य अवभासने चार्वाकचर्विता सर्वविप्रतिपत्तिः इति किं शास्त्रप्रणयनेन ? नहि नीलादिकं पश्यन्तं प्रति तदुपदेशः अर्थवान् । भ्रान्तिव्यवच्छेदार्थं तदिति चेत् ; न; भ्रान्तिबुद्धरपि तदात्मकत्वेन अवभासने तदवस्थो दोषः, ततः ततोऽभिन्नस्य स्वरूपस्य भिन्नस्य ग्रहणात् किन्नामाभ्रान्तं यत् प्रत्यक्षं प्रमाणं स्यात् ? भूतात्ममात्रे अभ्रान्तमिति चेत् ; स्यादेतदेवं यदि "तन्मात्रस्य कुतश्चित्सत्त्वं प्रतीयेत, दर्शनस्य तददर्शनेन व्यभि२५ चाराद् , अत्रापि बाधकस्य दुर्लभत्वात् । यदि तर्हि तद् भूतेभ्यो भिन्नमवभासते तथैव सत् इत्येके । तथापि तस्य ततोऽभेदे [न] कस्यचित् कुतश्चिद् भेद इति न प्रत्यक्षप्रमाणव्यवस्था तत्प्रमेयव्यवस्था वा इत्यपरे । अपरस्य तु दर्शनम्-सत्यम् ; तद्भूतेभ्यः कारणत्वेन अभिमतेभ्यो भिन्नं तथाऽवभासनात्, कार्यस्य कारणात् भेदाच्च, तथापि यथा पार्थिवतन्तुभ्यः पटो जायमानो भिन्नोऽपि पार्थिव एव तथा ३० चैतन्यं भूतात्मकशरीराद् भूतात्मकम् इति; तदसत्यम् ; यतो नहि यथा रूपादित्वेन तन्तुपटयोः (१) पक्ष एव साध्यसाधनयोाप्तिरन्ताप्तिः । तुलना-"अन्तर्व्याप्तावसिद्धायां बहिरङ्गमनर्थकम्" प्रमाणसं० पृ० १११। (२) 'न' इति निरर्थकम् । (३) प्रमाणम्' इति सम्बन्धः । (१) तदाकारतानिराकरणात् । (५) भूतात्ममात्रस्य । (६) जायमान भिन्नमपि । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686