Book Title: Siddhi Vinischay Tika Part 01
Author(s): Anantviryacharya
Publisher: Bharatiya Gyanpith

Previous | Next

Page 614
________________ ४।१९] . सांख्याभिमततत्त्वसमीक्षा सहकारिप्रत्ययवैधुर्य्यात् । कार्याकरणेऽपि 'अस्ति' इति कुतोऽवगम्यते इति चेत् ? आह-समर्थम् इत्यादि । येन कार्यं कृतं तद् इह समर्थं गृह्यते, अन्यस्य साध्यसमत्वात् , तेन तत्सादृश्यात् कस्यचिद् आकारस्य उभयत्र सद्भावात् । विवेचयन्ति हि लौकिकाः कृतमरणकार्येण सादृश्याद् विशेषेणा (विषेण अ) परमपि' तत्समर्थमिति । तत्रोत्तरमाह-इत्ययुक्तम् । कुतः ? इत्याहनित्यस्यापि न केवलं क्षणिकस्य सामग्रीसाकल्या (साकल्यवैकल्या) भ्यां कार्यकरणाकरण- ५ प्रसङ्गात् । [२४५क] कस्मिन् सत्यपि ? इत्याह-सामर्थेऽपि । कदा ? इत्याह-सर्वदा इति । चरमक्षणादस्य विशेषमपि दर्शयति-विशेषत इत्यादिना । विशेषः (विशेषतः) तत्क्षणाद् अतिशयेन, पुनः इति अतिशयभावनायाम् नित्योऽर्थः करोति अपि, न केवलं न करोति । किं भूतः ? इत्याह-संभवात्(संभव)सामग्रीसन्निधिः। संभवात् (वा) सामग्रीसन्निधिः अ[स्ये] ति संभवछेनैतब्देन (संभवसामग्रीसन्निधिः इति शब्देन) एतदर्शयति । यद्यपि १० सहकारिणा तस्य न किञ्चित् क्रियते, तथाप्यसौ तस्य संभवति सहभूय कार्यकरणात् क्षणिकपक्षवदिति । ननु तथा अन्त्यक्षणोऽपि करोति इति न तस्मादस्य विशेष इति चेत् ; अत्राह-न पुनः नैव अन्त्यक्षणः करोति 'अपि' इति सम्बन्धः । कुतः ? इत्याह-सर्वथा सामस्त्यप्रकारेण न पुनः कार्यकाले [अ] भावात् । न च असन् कार्यजन्मनि व्याप्रियते, इतरथा चिरमृतादपि साक्षात् १५ शरीरे प्रणादिप्रसव इत्याशङ्कायां चित्तक्षणसन्तानात्मनापि न सात्मकत्वं जीवच्छरीरे स्यात् । यदि पुनः [स्व] फाले सत् कार्यकृदिष्यते; तदपि न सुन्दरम् ; यतः पूर्व तत्समर्थेऽपि पश्चात् कार्यभावे न नित्यार्थनिषेधैः, तथा ग्राह्यग्राहकमावस्यापि अनिवारणात् । तदने[न] तस्य परत्रापि न व्यापार इति तदपि गतम् यत् पिञ्जने लग्नम् इति परस्य दर्शितं भवति । ननु चरमः अन्यो वा क्षणस्थायी भावः कार्यं कुर्वन् उपलभ्यते, न पुनः नित्योऽर्थः तत्कथं २०. तस्मादस्य विशेष इति चेत् ? अत्राह-सहकारिण इत्यादि । विसदृशकार्यजन्मनि यः सहकारी तस्य सन्निवाव सन्निधौ च स्वतः स्वरूपेण कथञ्चित् न सर्वात्मना प्रवृत्तिरेव उत्तराकारेण गमनमेव भावलक्षणं [२४५ख] वस्तुरूपं 'तथैव दर्शनात्' इति मन्यते । तदेवम् अन्त्यचित्तक्षणस्य अवस्तुत्वे साधिते साधूक्तम्-'अन्त्यचित्तक्षणो वात्मा' इत्यादि । __स्यान्मतम् - *"अकर्ता निर्गुणः शुद्धोभोक्ता सन्नात्मागमे" यथा ते तस्यैव निषेधे २५ शास्त्रविरोधः, न च शास्त्रमनेन न्यायेन वाच्याते (बाध्यते) भिन्नविषयत्वात् । तदुक्तम् (१) विषम् । (२) नित्यस्य । (३) तत्रापि पूर्व सामर्थेऽपि यथासहकारिसन्निपातं कार्योत्पादात् । (४) नित्यस्य । (५) 'सन्निवाव' इति व्यर्थमत्र । (६) उद्धृतोऽयम्-“अमूर्तश्चेतनो भोगी नित्यः सर्वगतोऽक्रियः । अकर्ता निर्गुणः सूक्ष्म आत्मा कापिलदर्शने ॥" -स्या० म. पृ० १८५। षड्द० बृह. पृ० ४१। "अकर्ता निर्गुणो भोक्ता आत्मा सांख्यनिदर्शने।"-सूत्रकृ० टी० पृ०२१ । “अकर्ता निर्गुणः शुद्धः"' न्यायकुमु. पृ० ११२। यश० उ० पृ० २५० । “अकर्ता निर्गुणः शुद्धो नित्यः सर्वगतोऽक्रियः । अमूर्तश्चेतनो भोक्ता आत्मा कापिलशासने ॥"-आत्मानुशा० ति० श्लो० १३७। तुलना-"तस्माच्च विपर्यासात् सिद्ध साक्षित्वमस्य पुरुषस्य । कैवल्यं माध्यस्थ्यं द्रष्ट्टत्वमकर्तृभावश्च ॥"-सांख्यका० १९ । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686