________________
४।१९]
. सांख्याभिमततत्त्वसमीक्षा सहकारिप्रत्ययवैधुर्य्यात् । कार्याकरणेऽपि 'अस्ति' इति कुतोऽवगम्यते इति चेत् ? आह-समर्थम् इत्यादि । येन कार्यं कृतं तद् इह समर्थं गृह्यते, अन्यस्य साध्यसमत्वात् , तेन तत्सादृश्यात् कस्यचिद् आकारस्य उभयत्र सद्भावात् । विवेचयन्ति हि लौकिकाः कृतमरणकार्येण सादृश्याद् विशेषेणा (विषेण अ) परमपि' तत्समर्थमिति । तत्रोत्तरमाह-इत्ययुक्तम् । कुतः ? इत्याहनित्यस्यापि न केवलं क्षणिकस्य सामग्रीसाकल्या (साकल्यवैकल्या) भ्यां कार्यकरणाकरण- ५ प्रसङ्गात् । [२४५क] कस्मिन् सत्यपि ? इत्याह-सामर्थेऽपि । कदा ? इत्याह-सर्वदा इति । चरमक्षणादस्य विशेषमपि दर्शयति-विशेषत इत्यादिना । विशेषः (विशेषतः) तत्क्षणाद् अतिशयेन, पुनः इति अतिशयभावनायाम् नित्योऽर्थः करोति अपि, न केवलं न करोति । किं भूतः ? इत्याह-संभवात्(संभव)सामग्रीसन्निधिः। संभवात् (वा) सामग्रीसन्निधिः अ[स्ये] ति संभवछेनैतब्देन (संभवसामग्रीसन्निधिः इति शब्देन) एतदर्शयति । यद्यपि १० सहकारिणा तस्य न किञ्चित् क्रियते, तथाप्यसौ तस्य संभवति सहभूय कार्यकरणात् क्षणिकपक्षवदिति ।
ननु तथा अन्त्यक्षणोऽपि करोति इति न तस्मादस्य विशेष इति चेत् ; अत्राह-न पुनः नैव अन्त्यक्षणः करोति 'अपि' इति सम्बन्धः । कुतः ? इत्याह-सर्वथा सामस्त्यप्रकारेण न पुनः कार्यकाले [अ] भावात् । न च असन् कार्यजन्मनि व्याप्रियते, इतरथा चिरमृतादपि साक्षात् १५ शरीरे प्रणादिप्रसव इत्याशङ्कायां चित्तक्षणसन्तानात्मनापि न सात्मकत्वं जीवच्छरीरे स्यात् । यदि पुनः [स्व] फाले सत् कार्यकृदिष्यते; तदपि न सुन्दरम् ; यतः पूर्व तत्समर्थेऽपि पश्चात् कार्यभावे न नित्यार्थनिषेधैः, तथा ग्राह्यग्राहकमावस्यापि अनिवारणात् । तदने[न] तस्य परत्रापि न व्यापार इति तदपि गतम् यत् पिञ्जने लग्नम् इति परस्य दर्शितं भवति ।
ननु चरमः अन्यो वा क्षणस्थायी भावः कार्यं कुर्वन् उपलभ्यते, न पुनः नित्योऽर्थः तत्कथं २०. तस्मादस्य विशेष इति चेत् ? अत्राह-सहकारिण इत्यादि । विसदृशकार्यजन्मनि यः सहकारी तस्य सन्निवाव सन्निधौ च स्वतः स्वरूपेण कथञ्चित् न सर्वात्मना प्रवृत्तिरेव उत्तराकारेण गमनमेव भावलक्षणं [२४५ख] वस्तुरूपं 'तथैव दर्शनात्' इति मन्यते । तदेवम् अन्त्यचित्तक्षणस्य अवस्तुत्वे साधिते साधूक्तम्-'अन्त्यचित्तक्षणो वात्मा' इत्यादि । __स्यान्मतम् - *"अकर्ता निर्गुणः शुद्धोभोक्ता सन्नात्मागमे" यथा ते तस्यैव निषेधे २५ शास्त्रविरोधः, न च शास्त्रमनेन न्यायेन वाच्याते (बाध्यते) भिन्नविषयत्वात् । तदुक्तम्
(१) विषम् । (२) नित्यस्य । (३) तत्रापि पूर्व सामर्थेऽपि यथासहकारिसन्निपातं कार्योत्पादात् । (४) नित्यस्य । (५) 'सन्निवाव' इति व्यर्थमत्र । (६) उद्धृतोऽयम्-“अमूर्तश्चेतनो भोगी नित्यः सर्वगतोऽक्रियः । अकर्ता निर्गुणः सूक्ष्म आत्मा कापिलदर्शने ॥" -स्या० म. पृ० १८५। षड्द० बृह. पृ० ४१। "अकर्ता निर्गुणो भोक्ता आत्मा सांख्यनिदर्शने।"-सूत्रकृ० टी० पृ०२१ । “अकर्ता निर्गुणः शुद्धः"' न्यायकुमु. पृ० ११२। यश० उ० पृ० २५० । “अकर्ता निर्गुणः शुद्धो नित्यः सर्वगतोऽक्रियः । अमूर्तश्चेतनो भोक्ता आत्मा कापिलशासने ॥"-आत्मानुशा० ति० श्लो० १३७। तुलना-"तस्माच्च विपर्यासात् सिद्ध साक्षित्वमस्य पुरुषस्य । कैवल्यं माध्यस्थ्यं द्रष्ट्टत्वमकर्तृभावश्च ॥"-सांख्यका० १९ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org